________________
राणकोंबडप्रबन्धः।
३९ प्रधानरपाक्रियते । एवं सिद्धेशस्य पादुके राज्यं कारयतः। एकदा प्रतापमल्लो रात्रौ वैकालिकं कर्तुमुपविष्टः। सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी (?) वर्तते । तां दृष्ट्वा प्रतापमल्ल उवाच-रे! तव भ्राता क्काप्यस्ति । तया वेश्या दृष्टा । उक्तम्-पाणउठे प्रतिदिनं दालिमुष्टिं गृह्णाति । तत्र पृष्टस्तैरुक्तम्-यदद्य नायातः। तेन गवेषयितुं नराः प्रहिताः। ते अपादि शोधयितुं नराः प्रवृत्ताः। इतः प्रपायां कुमरिको बोसरिकद्विजेन वार्ता कुर्वन् श्रुतः-रे बोसरिक ! अद्य धूताक्षिप्तेन दालिरपि नानीता। ततोऽसिन् सम्मुख हट्टे गत्वा दीपच्छायायां करं 5 प्रक्षिप्य चणकमुष्टिं समानय । तेनोक्तम्-अथिलोऽसि । तव प्रातः पितृराज्यं भविष्यति, मम त्वारक्षकैर्बाहुश्छिद्यते । इति श्रुत्वा नृपपुरुषैरभाणि स कः । कुमरिकेनोक्तम्-को विलोक्यते ? । कुमरिकः । केन हेतुना ?। प्रतापंमल्ल आकारयति, चलत । इतो बोसरिकेन ज्ञातम्-एष मारणाय नीयते । स जीवग्राहं गतः। कुमारोऽपि स्वसृपतिं भणित्वा नमश्चकार । तेनोक्तम्-यदि राज्यं दमि तदा मे किम् ? । यद्भणसि तत् । तर्हि यावजीवं साधनम् । वर्ष प्रति लक्षत्रयं द्रम्माणाम् । प्रातर्नुपकुले आगम्यम् । क्षुधाः स्थितः । बोसरिं प्रपायां न पश्यति । 10 अचिन्ति-राज्यं सन्देहे, बोसरिरपि गतः । इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खड्गकरवैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । चिन्तितं मम कार्य जातमेव । शकुनं भव्यम् । तेन किमपि न याचितम् । अग्रे मोचिकेनोपानही दत्ते । दोसिकेन वस्त्राणि । मालाकारेण पुष्पाणि । ताम्बूलिकेन पत्राणि । ततो राजकुले गतः। प्रतापमल्लेन प्रधाना उक्ताः-कुमारः किं न स्थाप्यते ?, सोऽपि धनिकोऽस्ति । तैरुक्तम्-स्थापयत । असिबलेन तदा राज्यं जातम् । सं० ११९९ । ततोऽप्यनेकानि कष्टानि अनुभूतानि । एवं कद[र्थ] नेन वर्षत्रयं 15 गतम् । पश्चाद्राज्यं सले जातम् ॥ ॥ इति कुमारपालराज्यप्राप्तिप्रबन्धः ॥
२५. राणक अंबडप्रबन्धः (P.) ६८१) अन्यदा कुङ्कणे जालपतनं श्रुत्वा महिरावणाधिपति मल्लिकार्जुनं प्रति दूतं प्राहिणोत्-तथा विधेयं यथा जालं न पतति तव देशे । तेन च वलमानं विज्ञापितम् यदावयोरेष पणः। कुङ्कणाधिपो गूर्जरेशस्य वगि(१)कायां पत्राणि पूरयति, तत्करोमि अन्यदधिकं न जाने । अत्र जना मत्स्यमांसरताः प्रायश्चान्नदौस्थ्यात् । श्रीकुमार-20 पालेन कथापितम्-यदन्नं तथा प्रेषयिष्ये यथा पत्त(१)नार्थो भवति । तेनोक्तम्-सर्वथा नैतत् । इतः श्रीकुमारपाल: क्रुद्धः सन् पाह-राजा (ज्ये) कोऽपि बीटकं मल्लिकार्जुनोपरि ग्रहीष्यति । इतः श्रीबाहडदेवभ्रात्रा अम्बडेन बीटकं गृहीतम् । प्रौढकटकेन चलितम् । तेन मार्गे घाटी रुद्धा । तत्र कटकं हताहतं जातम् । अम्बडो निवृत्तः । कृष्णशृङ्गारः कृष्णाश्वः कृष्णगुप्तोदरः पत्तनवाह्ये स्थितः । नृपं नन्तुं न याति । नृपेणोपरिस्थितेन गुप्तोदरं दृष्टं पृष्टं च-रे किमेतत् । तैर्निवेदितम्-स्वामिन् ! अम्बडोत्तारकोऽसौ । इतः सूर्यास्तेऽम्बडो द्वारिकया प्रविश्य नृपं 25 पाश्चात्येन [न]त्वा पृष्टौ स्थितः । अग्रे एहीति नृपोक्ते, देव! मया स्वस्वामिनः कालिमानीता । अतो रात्रौ समेतः। यधुज्वलो भवामि, तदा दिने समेष्यामि । इतो नृपो बीटकमादाय उक्तवान्-गृह्णीत । कोऽपि न गृह्णाति तदा भट्टेनोक्तम्-यदा रासभः प्रचण्डस्तदा तुरगेन समं कथमुपमीयेत । तथा वणिक् नृपप्रसादेऽपि क्षत्रियपौरुषान्वितः स्यात् । इत्युक्तेऽम्बडेनागत्य बीटकं गृहीतम् । सभ्यैरुक्तम्-अग्रेऽपि कटकं हताहतं कृतम् । शेषमपि तथा करिष्यति । ततोऽम्बडो समीपमेत्य अश्ववारपञ्चशतीं याचितवान् । स तां गृहीत्वोपरि पथेन हेरकं 30 कृत्वा मल्लिकार्जुनं बेडायां स्थितमश्वान् वाहयन्तं प्राह-भो! शखं कुरु । अम्बडस्तमङ्गाङ्गेन युध्वा शिरः पातयत् । इतश्चारणेनोक्तम्(११९) अंबड] हुंतु वाणीउ मल्लिकार्जुन हूंत राउ ।
पाडी माथउं वाढीउं उअडिहिं देविणु पाउ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org