________________
३८
पुरातनप्रबन्धसङ्घहे - ६७९) तिहुअणपालपुत्रः कुमारपालः । तस्य द्वे भगिन्यौ-एका प्रेमलदेवी सपादलक्षाधिपतिना आनाकेन नृपेण परिणीता; द्वितीया नामलदेवी राज्ञो महासाधनिकेन प्रतापमल्लेन परिणीता । ६८०) अथान्यदा सिद्धेशो निरपत्यश्चिन्तयति(११७) निर्नामताम्बुधौ मन्जत्राज्यभूवलयोद्धृतौ ।
पुत्राः क्रीडावराहन्तः सम्पद्यन्ते महात्मनाम् ॥ (११८) घटिकाऽप्येकया घव्या कुम्भीपयसि मजति ।
गोत्रं पुनरपुत्रस्य क्षणानि मताम्भसि ॥ इति विचिन्त्य देवपत्तने श्रीसोमेश्वरयात्रायै चचाल । परं विहङ्गिकां स्कन्धे निधाय तत्र गत्वा सोमेश्वर आराधितः । स प्रत्यक्षीभूय आह-कष्टं कथं कृतं यत्स्कन्धे विहङ्गिकां विधायेहागतः । तेनोक्तम्-सुतं देहि । 10 किं तेन ? । राज्यार्थम् । राज्यधरस्ते कुमारपालो भविष्यति-इत्युक्तं सोमेश्वरेण । नृपो निवृत्यायातस्त्वेवमचिन्तयत्-चेदमुं मारयामि तदा सोमेश्वरः पुत्रं यच्छति । अतस्तं मारयितुमारेभे । सोऽपि विंशतिवर्षदेशीयः पुराच्छन्नो निःससार । सप्तवारं भ्रमन् केदारयात्रामकरोत् । अन्तरान्तरा प्रच्छन्नमभ्येति तपस्वी सन् । राज्ञा मार्यमाणो नष्टः। सज्जनकुलालेन कोष्टीमध्ये क्षेपितः । तस्य चित्रकूटं दत्तम् । पुनरप्येकदा अनादिराउलमठे प्रविष्टः ।
कदाचिद्धेमसूरिगुरुपौषधागारे प्रविष्टः । तत्र तैरुक्तम्-संवत् ११९९ मागसिरवदि ४ रवौ तव राज्यम् । परं 15 तव प्रत्यासन्नं कष्टम् । तदा पौषधागारे आगम्यम् । इतश्चानादिराउलतपतिसमशत्या सार्द्ध जेमनाय गतो नृपवे
श्मनि । राज्ञा तपखिनां पार्श्वे खड्गधराः [स्थापिताः ] सन्ति । यस्य तपखिनः पादौ प्रक्षालयन् विमुच्य उपरि यामि स मारणीयः। तथा कृते तेषां जनानां तद्भाग्यवशाद्विस्मृतम् । भोजनावसरे एकं हस्तमुदरे न्यस्यापरं मुखे वान्तिमिषेण नष्टः। श्रीहेमसू० पौषधागारे गतः। दिन ३ उपवरके तालकं दत्त्वा स्थापितः। ततो भाण्डा
गारिककपर्दिनो दत्तः। तेन स्वगृहे छन्नं स्थापयित्वा पत्रचोलकमध्ये क्षिप्त्वा २० योजनप्रान्ते मोचितः । कान्त्यां 20 गतः। तत्र सरसि तस्करस्य शिरः केनापि निःकृत्य क्षिप्तम् । तदनु तत्प्रातः प्रातरिदं ब्रूते-एकेन बुडति । नृपेणामात्याः पृष्टास्तैः पण्डिताः । तैर्मास एको याचितः । मुख्यपण्डितः स्वगृहसूत्रं कृत्वा निर्ययौ । अटवीं भ्रमन् एकस्मिन् वृक्षकोटरे रात्रौ स्थितः । तत्र भूताः सन्ति । लघुभिरुक्तम्-तातामाकं क्षुधा । तातेनोक्तम्-दिनत्रयानन्तरं यास्यामि । कथम् । प्रत्यासन्नपुरे नृपेण पण्डिताः शिरसो वाक्यं पृष्टाः। ते न जानन्ति । नरेन्द्रस्तान् सकुटुम्बान् व्यापादयिष्यति । तैः पृष्टम्-तात! किं कारणम् ? । निर्बन्धे कृते उक्तम्-लोभेन बुडति । तत्पण्डितेन 25 श्रुतम् । गृहमायातः। मासप्रान्ते नृपेणाहूतः। तेन सरस्तीरे गत्वा उक्तम्-यदि लोभेन बुडति तदा पुनर्न वाच्यम् । शिरस्तथैव स्थितम् । नृपेण प्रासादः कारितः। अतो मध्ये शिरः पूज्यते । ततः कुण्डगेश्वरप्रासादे श्रीसिद्धसेनलिखितां गाथां ददर्श-॥ "पुण्णे वाससहस्से०।" एवं तस्य देशान्तरे ३० वर्षाणि जातानि । कदाचिदुञ्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः। ततः कृष्णमुखो जातः । तेनोक्तम्-किं कृष्णास्था यूयम् ?
भवतो नृपः किं सगीनः १ । उत्तरः कृतः-नृपमृतौ को न दूयते । ततः पत्तनमागतः । तत्र भगिनीपतिः प्रता30 पमल्लः । तेन जागरणिरेका गृहमानीता। तया पणबन्धः कृतः। अन्याः सर्वाः पितृगृहे प्रेषय । तेन तथाकृते, कुमरस्य स्वसा नामलदेवी पितृगृहमदृष्ट्वा समयज्ञा तस्याश्चरणयोः पपात । तयोक्तम्-किमिदम् १ । देवि! त्वं [म]म पितृगृहम् , तव दासीसमा स्थास्यामि । तया कथितम्-स्थीयताम् । इतः कुमरिको भगिनीं एत्य प्राहअहं क्षुधा म्रिये, मम दशां पश्य । खस्रा उक्तम्-मम भ्राता भवान् । तया वेश्योक्ता-मम भ्रातुर्दालिमुष्टेरादेशो दीयताम् । तथाकृते स पाणउठे (?) नित्यं दालिमुष्टिं गृह्णाति । इतो नृपे मृते यो यो राज्ये स्थाप्यते स स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org