________________
कुमारपालराज्यप्राप्तिप्रबन्धः ।
रक्षको भवदीयसुतो विलोक्यते । राज्ञा तदर्थं शाकुनिकः पृष्टः । तेन कुमारपालस्य राज्यं कथितम् । राज्ञा चिंतितम्मम राज्यं अकुलीनस्य भविता । तदेनं मारयिष्यामि । इति विचिन्त्य घातकान् सम्प्रेष्य त्रिभुवनपालो मारितः ॥ (G.) सङ्ग्रहे हेमचन्द्रसूरिसम्बन्धिवृत्तम् ।
(७४) श्री हेमसूयोऽष्टम्यां चतुर्द्दश्यां श्रीजयसिंहदेव भवनं प्रयाति । पौषधशालायां सदसि स्थूलभद्रचरित्रं नित्यं वाचयन्ति । एकवेलमालिग पुरोहितेन राज्ञोऽग्रे कथितम् - यन् महाराज ! कोऽयमसत्प्रलापः, सर्वरसभोजने 5 पूर्वपरिचितवेश्याभवने च कामनिग्रहः । परं किं क्रियते भवद्वल्लभाः । राज्ञोक्तम् - आचार्या इह समेष्यन्ति तदा वक्तव्यम् । परोक्षे नोच्यते । सूरिभिरागतम् । राज्ञोक्तम् - यूयं किं किं वाचयन्तः स्थ । ततः सूरिभिः संक्षेपतः साद्यन्तमपि श्रीस्थूलभद्रचरितं कथितम् । आलिगेनोक्तम्- महाराज ! " विश्वामित्रपराशर० ॥” गुरुभिरुक्तम्-शृणु “ सिंहो बली० ।" ततः आलिगेनोक्तम् - किं क्रियते अस्माकीनान्येव शास्त्राणि पठित्वा अस्माकमेव सम्मुखाः संजाताः । गुरुभिरुक्तम् - ऐन्द्रं व्याकरणं किं भवदीयम् ? अथाद्यापि श्रीमातृकावर्जं सर्वं नवं करोमि । 10 ततः श्रीजयसिंहदेवाभ्यर्थनया व्याकरणं कृतम् ॥
९७५) श्री हेमसूरिपार्श्वे कोऽपि वादी कपटेन पृच्छनाय समागतः । पृष्टम् - उर्वशीशकारः कीदृशो भवति । स्वरीणां मनः सन्देहदोलारूढं सम्पन्नम् । परं सचिन्ता अपि पुस्तकविलोकनं कुर्वतः [आयातः कार्यटिकः ।] तत उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः । तेनेति लिखित्वा पत्रिका तथा मुक्ता - यथा पृच्छको न पश्यति । तद्यथा - उरू शेते उर्वशी । तद्विलोक्यैवं स्थिता गुरवः । पुनस्तेन पृष्टम् । गुरुभिः 15 कथितम् । किं पृच्छन्नसि ? । तेनोक्तम् - उर्वशीशकारः । गुरुभिरुक्तम् - तालव्यः । तेनोक्तमहं वादी परं कपटेनागोऽभूत् । नमो विधाय गतः । गुरुभिरुक्तम् - भांडागारिकेन रम्या चाडा विहितास्ति ॥
९७६) केनापि मिथ्यादृष्टिना व्याख्यानानन्तरं श्रीसूरयः पृष्टाः । यूयं सर्वानपि रसान् वेत्थ । परं मम सन्देहोऽस्ति । विष्ठारसः कीदृशः स्यात् । गुरुभिरुक्तम् - सत्यं पृष्टम् । परं वयं सर्वानपि रसान् ब्रूमहे । परं रसवेदकाः पृथगेव हि । वयमेतद्रसाभिप्रायं कथयिष्यामः । परमनास्वादितत्वात् भवान्न मानयिष्यति । अतो 20 भवान् पूर्वमाखादयतु इति वचनेन पराजितः ॥
૨૦
१७७) श्रीहेमसूरिमाता पाहिणिनाम्नी अनशने स्वीकृते भूमौ मुक्ता । श्रीसंघेन कोटित्रयधर्म्मव्ययो दत्तः । ततो व्ययो ( हर्षो ) न भवति । केवलं रोदिति । रोदनकारणे पृष्टे मात्रोक्तम् - मम सदृशा घनतरा अपि विपद्यन्ते । नामाऽपि कोऽपि न वेत्ति । परं मम कोटित्रयं धर्म्मव्यये जातं । तदयं मम सुतश्री हेमसूरिः प्रमाणम् । परं यस्य मम लगति स किमपि न वक्ति । इत्युक्ते श्रीगुरुभिर्लक्षत्रयीशास्त्रपुण्यव्ययो दत्तः । ततो निर्वाणमजनि । 25 ततस्त्रिपुरुषद्वारि द्विजैर्विमानोपद्रवो विहितः । ततो रुषितैर्गुरुभिरुक्तम् - " आपणपरं प्रभु थाइयइ० ॥" इति विचिन्त्य श्रीकुमारपुरो विच्छाया गताः ।
९७८) एकदा हे माचार्याः छत्रशिलायां निविष्टास्तेजो ददृशुः । विलोकयतां समीपे समागतं तत् । मध्यग'तपुरुषमेटः । कृष्णचित्रकार्पणं लोभवृद्धिहेतुरिति निस्पृहैर्निषिद्धः ॥
Jain Education International
२४. कुमारपालराज्यप्राप्तिप्रबन्धः (P.)
(११६) आचार्या बहवोऽपि सन्ति भुवने भिक्षोपभोगक्षमा नित्यं पामरदृष्टिताडनविधावत्युग्रजाग्रत्कराः । चौलुक्यक्षितिपाल भालदृषदा स्तुत्यः स एकः पुनर्नित्योत्तेजितपादपङ्कजनखः श्रीहेमचन्द्रो गुरुः ॥
For Private & Personal Use Only
30
www.jainelibrary.org