________________
३६
पुरातनप्रबन्धसङ्घहे
(११५) नीवारप्रसवाग्रमुष्टिकवलैयों वर्द्धितः शैशवे पीतं येन सरोजपत्रपुटके स्नानावशिष्टं पयः । तं दानासवमत्तषट्पदकुलव्यालीढ गण्डस्थलं
सानन्दं सभयं च पश्यति गजं दूरे स्थितस्तापसः ॥
5 एवं जातम् । राज्ञोक्तम्- पुण्यं मम कथं दत्तम् । तेनोक्तम्-तवैकस्य पुण्यं दत्तम् । त्वं करं धारय यथा तेषां सर्वेषां पुण्यं तव ददामि । राज्ञोक्तम् - मूढ ! तव भणितेन कथं तेषां पुण्यं दत्तं याति । मत्रिणोक्तम् - आभीर ! यद्येवं वेत्सि तदा तव पुण्यं मम दत्तं तत्र कथं याति । स तु मया वचनेन छलितः । हर्षितेन राज्ञा मत्रित्वं पुनर्दत्तम् ॥
९६७) तीर्थयात्रायां पंचगव्यूतमात्रेणैकप्रयाणेनाग्रभागस्थितया श्रीमयणल्लदेव्या श्रीजयसिंहदेवपार्श्वात् द्वासप्ततिलक्षप्रमाणो बाहुलोडकरो मोचितः । तदनु श्रीसोमेश्वरलिंगहेतोर्हेमकोटिपूजा विहिता । पूर्णमा 10 गर्वमावहन्ती । ततो देवेनेति कथितम् - यत्कस्याश्चित्कापटिक्याः पिण्याकपुण्यं याचेः । सा तु नापयति पुण्यमिति गर्वपरिहारः ॥
९६८) अथ मयणल्लदेव्या पापघटे दीयमाने कोऽपि न गृह्णाति । अत्रान्तरे विषण्णां तां कश्विद्विजन्मा जगादेति - मातर् ! यदि भवत्रयस्य पापघटान् ददासि तदा गृह्णामि । हर्षितया तया तस्मै भवत्रयपापघटो दत्तः । अन्ये सर्वेऽपि विस्मिताः पप्रच्छुः - त्वया किं कृतम् ; पापघटस्यैकस्य निर्वाहो नास्ति, त्वया कथं त्रयं गृहीतम् । 15 तेनोक्तम् - अस्या जन्मत्रयेऽपि पापमेव नास्ति, तत्कथं धनं न गृह्यते । सर्वैरपि मानितम् ॥
६९) अथ कर्णाटदेशे पुलकेशिराजा ग्रीष्मसमये राजपाटिकायां गतः । सच्छायफलितसहकारतरोरधो विशश्राम । अत्रान्तरे वनवह्निरुत्थितः । तेन दह्यमानेन वृक्षेण सह राजापि स्वक्षात्रधर्म्म अंशभीत्या ज्वलितवान् । तस्य सुतो जयकेशिनामा नृपोऽभूत् । तस्य महाविद्वान् क्रीडाशुकोऽस्ति । तं विना राजा न भुङ्क्ते । अन्यदा राज्ञा भोजनावसरे पंजरात्समाकारितः शुकः । तेन मार्जारभयाद्विभेमीत्युक्तम् । राज्ञा सर्वत्र मार्जारो गवेषितः । न 20 दृश्यते । पुनरुक्तम्–समेहीति । तेनोचे -विभेमीति । राज्ञोक्तम् - समेहि यदि त्वां भक्षयति मार्जारः, तदा भवता सह काष्ठभक्षणं करोमि । एवमुक्ते समागतः । स्थालाधः स्थितेन मार्जारेण भक्षितः । राज्ञापि स्वप्रतिज्ञाभङ्गभयात् सह काष्ठभक्षणं कृतम् ॥
९७०) गयणा-मयणाभ्यामिन्द्रजालविद्या साधिता । ततः पत्तने नूतने सहस्रलिङ्गसरसि गयणो निजविद्यां प्रकाशयितुं मकररूपेण प्रविश्योपद्रवति । बहुभिरुपायैरलब्धे तत्र राज्ञा पटहो वादितः । लघुभ्रात्रा मयणेन 25 धीरां याचयित्वा निष्कासितः । प्रसादितौ तौ राज्ञा ॥
(७१) श्रीसिद्धि - बुद्धियोगिनीभ्यां कदलीपत्रासनोपविष्टाभ्यां श्रीसिद्धराजो जयसिंहः सिद्धराजत्वं पृष्टः । एवं विषि(षण्णेन राज्ञा रात्रौ वीरचर्यायां सज्जनसाकरीयाकः पुत्रेण समं योगिनीप्रतिमल्लत्वं वदन् श्रुतः । प्रातराकार्य सन्मानितः। तेन सप्तदिनान्ते सितां कावलयित्वा (१) क्षुरिकाद्वयं विधाय परमंडलभेटामिषेण राज्ञेऽर्पितम् । राज्ञा फलद्वयं भक्षयित्वा लोहमुष्टिद्वयं योगिनीद्वय [[य भक्षण ] हेतोरर्पितम् । ताभ्यां न भक्षितम् ॥
Jain Education International
30 ९७२) श्रीजयसिंहदेवस्यान्यदा महं गांगाकेन आम्राणि प्रहितानि कस्यापि विप्रस्य शये । ततः स श्रीजयसिंहदेवसदो दृष्ट्वा क्षुभितः । तत आह - राजन् ! महं आंबिल गांगे मोकल्यां छईं । सता उपरी पसावउ । ततो हसितस्सः ॥
९७३) एकदा श्रीसिद्धराजे दिग्विजयं द्वादशवार्षिकं विधाय समागते प्रजा मिलनाय गता । राज्ञा कुशलं पृष्टम् । ताभिरूचे–राजन् ! कुशलमस्ति । परं चेतसि न निर्वृत्तिः । राज्ञोक्तम्- कथम् । । तैरुक्तम् - राजन् । अस्माकं
For Private Personal Use Only
www.jainelibrary.org