Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown
________________
वस्तुपाल-तेजःपालप्रबन्धः ।
(१८८) गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं पुनर्भूत्या त्वं च समुल्लसद्गुणगणः किंवा बहु ब्रूमहे । श्रीमन्नीश्वर ! नूनमीश्वरकलायुक्तं च ते युज्यते बालेन्दुं चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः क्षमः ॥ तदनु मत्रिणा पदोपवेशनं कारितम् । पातालान्न समुद्धृतो बत बलि० । इदं कङ्कणकाव्यम् । ९१३२) अथ पादलिप्सपुरे ललितादेवी श्रेयसे सरोकारयत् ।
(१८९) * पुण्डरीकनिव हैर्विराजितं पुण्डरीकगिरिराजसन्निधौ । वस्तुपालसचिवेन कारितं भाति यत्र ललिताभिधं सरः ॥
(१९०) दहनेन विनाशितं पुरा सचिवौ सच्चरितव्रताविमौ । अचलेश्वरनालिमण्डपं रचयामासतुरेनमर्बुदे ॥
(१९१) 1 वस्तुपालसचिवेन कारितं हैमदण्डकलशैः [ सुशोभितम् ] । [ अर्बुदाद्रि ] शिखरे मनोरमं नेमिमन्दिरमिदं विराजते ॥
Jain Education International
६३
For Private Personal Use Only
5
(१३३) एकस्मिन्नवसरे राष्ट्रायां स व्रजति सति अग्रेसरैरेकाकिभिर्वतिभिर्वाटिकासु मार्गस्योपद्रवे कृते 15 तपोधनिकैरेत्य मत्रिणोऽग्रे रावा कृता । मत्रिणोत्तारके कृते अनुपमदेव्यग्रे कथापितम् - यदद्य एकाकिनां विहरणं न विधेयम् । अपरे सर्वेऽपि विहृत्य गताः । अनायाते अनुपमदेव्या नगोदरं बन्धोः समर्घविच (ह?) रणं तेषां कारितम् । स्वयमवेलं भोजनार्थमुपविष्टा । मत्रिणोक्तम्- यो गृहे लघुः स बहिर्वातेन नीयते । अस्माभिः नापि हेतुना वारितम् । इत्थं कियन्ति दिनानि निर्वाहं यास्यति । तया तत्कालं स्थालं त्यक्त्वोक्तम् - यद्भवतां बालत्वे जातं तत्किं विस्मृतम् ? । किं तत् ? । धवलक्कके बसतामेकदा अवेलं तपोधनौ मार्गश्रान्तौ भवतां गृहे 20 समेत्य धर्मलाभोक्तिपूर्वं स्थितौ । तदा करुणभक्तानि समायान्ति । नापरं किमपि गृहे । सर्वः कोऽपि भुक्त्वोत्थितः । अतः श्वशुरेण नेत्रमीलनं कृतम् । श्वश्रूर्नीचैरवलोक्य स्थिता । युवामधोऽवनौ जातौ । ज्येष्ठपत्नीसहिता अहं कटिकापाश्चात्ये उपविष्टा । तपोधनौ अलब्धोत्तरौ गतौ । तदा युवाभ्यां यदुक्तं तत्किं न स्मरतः :घिगस्माकं जीवितम् । भृदङ्ग ( Ps. मातङ्ग ) स्यापि गृहे भुक्तोत्तरं प्राप्यते । वयं तेषामपि निकृष्टाः स्मः । यद्यवनिर्विवरं दत्ते तदा पाताले विशामः । अवेलमायातौ यती इत्थं व्यावृत्य गतौ । स कोऽपि क्षणो भविता 25 यत्र वयमपि किमपि कर्तुं क्षमा भविष्यामः । नूनं तद्भवतां विस्मृतम् । यदद्य ऋद्धिं प्राप्य ईदृशं विमृशत । भवतां ददतामेव श्रेयः । इति श्रुत्वा मत्री हृष्टः । इत्युक्तम् - ममाग्रे तपोधनरावा केनापि न कार्या । ततो दर्शनिभिः सर्वैः 'षड् दर्शनमाता' इति उक्तम् । तस्याः कङ्कणकाव्यमिदम्
(१९२) पश्चाद्दत्तं परैर्दत्तं लभ्यते वा नवा खलु । खहस्तेनैव यद्दत्तं तद्दत्तमुपलभ्यते ॥
१३४) तया विमलाद्रौ नन्दीश्वरोद्यापने नन्दीश्वरप्रासादः कारितः । तत्रोद्यापनं कृतम् । अत्रैव विमला - 30 चलेऽनुपमसरः कारितम् । तस्मिन् भरिते केनापि चारणेनोक्तम्
(१९३) भाऊ भरहिं काई सेतुंजि सर न काराविडं । जाणिउं ईई ठाइ आगइ अणुपमडी किउं ॥ * Ps. आदर्श एवेदं पद्यं प्राप्यते । एतत्पद्यद्वयं Ps. आदर्श परित्यक्तम् ।
10
www.jainelibrary.org
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220