Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 86
________________ मन्त्रिसान्तूप्रबन्धः । (९७) गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथ प्रभो - स्तु पासिलसञ्ज्ञकेन सुधिया श्रद्धावता' मन्त्रिणा । शिष्यैः श्रीमुनिचन्द्रसूरि सुगुरोर्निर्ग्रन्थचूडामणे र्वादीन्द्रः प्रभुदेवसूरिगुरुभिर्नेमेः प्रतिष्ठा कृता ॥ (९८) रामनन्दश शिमौलिवत्सरे माधवे च दशमीतिथौ सिते । वाक्पतेः सुदिवसे प्रतिष्ठितोऽरासणे पुरवरे शिवाङ्गभूः ॥ ॥ इति आरासणसत्कनेमिचैत्यप्रबन्धः ॥ Jain Education International ३१ १८. फलवद्धितीर्थप्रबन्धः ( P. BR ) ९५७) अथैकदा श्रीदेवाचार्याः शाकंभरीं प्रति विजहुः । अन्तराले मेडतकपुरपाट्यां फलवर्द्धिकाग्रामे मासकल्प स्थिताः । तत्र पारसनामा श्राद्धस्तेन जालिवनमध्ये श्रीपार्श्वतीर्थं प्रादुः कृतम् । तेनैकदा वनं निरीक्ष्यमाणेन 10 जालिवनमध्ये लेष्टुराशिर्दृष्ट: । अम्लानशितपत्रिका पुष्पैः पूजितः । लेष्टवो विरलीकृताः । मध्ये बिम्बं दृष्टम् । तेन श्रीदेवसूरिभक्तेन गुरवो विज्ञापिताः । तैः सूरिभिर्धामदेव-सुमतिप्रभगणी वासान् दत्त्वा प्रहितौ । धामदेवगणिना वासक्षेपः कृतः । पश्चाद्देवगृहे निष्पन्ने श्रीजिनचन्द्रसूरयः स्वशिष्याः वासानर्पयित्वा प्रहिताः । तैश्व ध्वजारोपः कृतः । पश्चात्तत्र प्रासादेऽजमेरीयश्रेष्ठिवर्गो नागपुरीयो जाम्बडवर्गः समायातः । ते गोष्ठिका जाताः । संवत् ११९९* वर्षे फागुणशुदि १० गुरौ विम्बस्थापनम् । संवत् १२०४ वर्षे माहसुदि १३ शुक्रे कलश ध्वजारोपः ।। 15 ॥ इति फलवर्द्धिकातीर्थप्रबन्धः ॥ 5 १९. मन्त्रिसान्तूप्रबन्धः (B. BR.) ९५८) श्रीपत्तने जयसिंघदेवस्य मन्त्री सान्तूनामा सर्वमुद्राधिकृतः श्रीदेवसूरिणां भक्तः । तेन धवलगृहानुकारी आवासः कारितः । गुरवोऽवलोकनायाकारिताः । मत्रिणा अग्रेसरेण भूत्वा दर्शितः । पृष्टम् - प्रभो ! कीडगावासः ? । इतः शिष्यमाणिक्येनोक्तम् - यदि पौषधशाला भवति तदा वर्ण्यते । मत्रिणा क्षमाश्रमणं दत्तम् । एषा 20 पौषधशालैव भवतु । तदनु सा मुख्यपौषधशाला जाता । तत्र पट्टशालायामुभयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन् । श्रावका धर्मध्यानादनु यथा वक्त्राण्यवलोकन्ते । तथा वांका निहाणाभिधानयोर्ग्रामयोर्द्वी प्रासादौ कारितौ । एकस्मात्स्नपनं कृत्वा सुरङ्गया गव्यूतिमितया द्वितीये गम्यते । एकदा मन्त्रिणो राज्ञा सहाऽग्रीतिर्जाता । मत्री रूसणके मालवदेशं प्रति सपरिच्छदोऽचालीत् । राज्ञा ज्ञातमेषो मध्यवेदी । सैन्यं सत्वरमानयिष्यति । छन्ना नरा राज्ञा तेन सह प्रेषिताः । तत्र गतोऽसौ किं कुरुते । मन्त्री उज्जयिन्यां गतो नृपमन्दिरे, परं नृपस्य नमस्कारं न 25 करोति । पार्श्वस्यैरुक्तम्- मन्त्रिन् ! नमस्कारं [ कथं ] न कुरुषे ? | देव ! देवं मत्वा श्रीवीतरागो नमस्कृतः, गुरून् भणित्वा सुसाधवः, नृपस्तु जयसिंघदेवः । अन्यस्य कस्य शिरो न नाम्यते । राज्ञोक्तम् - मत्रिन् ! मुद्रां गृहाण । देवास्माकं स्वामी केनापि कारणेन रुष्टोऽस्ति । कल्येऽप्यस्मानाकारयिष्यति । तदनु राज्ञा गौरवेण स्थापितः । छन्नपुरुषैः पत्तने गत्वा नृपाय निवेदितम् । नृपेण सत्वरमाकारणं प्रहितम् । मन्त्री नृपं मुत्कलाप्य चलितः । मालव- मेवाडसन्धौ आहडग्रामे महं० सान्तूयोग्यं पाश्चात्यप्रहरे मृत्युः । मन्त्रिणा तदैव क्षामणाद्यं कृत्वा 30 पुत्रस्य शिक्षां दत्त्वाऽनशनं गृहीतम् । पुत्रीवयज् तया प्रदत्तम् । तात ! किमवशिष्यते ? पृष्टे, वत्से ! तपोधनादर्शानादन्यन्न किमपि । तया वण्ठस्तपोधनवेषं कारयित्वाऽग्रे नीतः । उक्तम् । तद्दर्शनान्मत्रिणा हृष्टेन नमस्कृतः 1 BR कारापितं । 2 BR बिम्बप्र० । 3 BR लेथूनि विरलीकृतानि । 4 BR सेठिवर्गो । 5 BR जाबड । * P११८८ । For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220