________________
मन्त्रिसान्तूप्रबन्धः ।
(९७) गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथ प्रभो - स्तु पासिलसञ्ज्ञकेन सुधिया श्रद्धावता' मन्त्रिणा । शिष्यैः श्रीमुनिचन्द्रसूरि सुगुरोर्निर्ग्रन्थचूडामणे
र्वादीन्द्रः प्रभुदेवसूरिगुरुभिर्नेमेः प्रतिष्ठा कृता ॥ (९८) रामनन्दश शिमौलिवत्सरे माधवे च दशमीतिथौ सिते । वाक्पतेः सुदिवसे प्रतिष्ठितोऽरासणे पुरवरे शिवाङ्गभूः ॥ ॥ इति आरासणसत्कनेमिचैत्यप्रबन्धः ॥
Jain Education International
३१
१८. फलवद्धितीर्थप्रबन्धः ( P. BR )
९५७) अथैकदा श्रीदेवाचार्याः शाकंभरीं प्रति विजहुः । अन्तराले मेडतकपुरपाट्यां फलवर्द्धिकाग्रामे मासकल्प स्थिताः । तत्र पारसनामा श्राद्धस्तेन जालिवनमध्ये श्रीपार्श्वतीर्थं प्रादुः कृतम् । तेनैकदा वनं निरीक्ष्यमाणेन 10 जालिवनमध्ये लेष्टुराशिर्दृष्ट: । अम्लानशितपत्रिका पुष्पैः पूजितः । लेष्टवो विरलीकृताः । मध्ये बिम्बं दृष्टम् । तेन श्रीदेवसूरिभक्तेन गुरवो विज्ञापिताः । तैः सूरिभिर्धामदेव-सुमतिप्रभगणी वासान् दत्त्वा प्रहितौ । धामदेवगणिना वासक्षेपः कृतः । पश्चाद्देवगृहे निष्पन्ने श्रीजिनचन्द्रसूरयः स्वशिष्याः वासानर्पयित्वा प्रहिताः । तैश्व ध्वजारोपः कृतः । पश्चात्तत्र प्रासादेऽजमेरीयश्रेष्ठिवर्गो नागपुरीयो जाम्बडवर्गः समायातः । ते गोष्ठिका जाताः । संवत् ११९९* वर्षे फागुणशुदि १० गुरौ विम्बस्थापनम् । संवत् १२०४ वर्षे माहसुदि १३ शुक्रे कलश ध्वजारोपः ।। 15 ॥ इति फलवर्द्धिकातीर्थप्रबन्धः ॥
5
१९. मन्त्रिसान्तूप्रबन्धः (B. BR.)
९५८) श्रीपत्तने जयसिंघदेवस्य मन्त्री सान्तूनामा सर्वमुद्राधिकृतः श्रीदेवसूरिणां भक्तः । तेन धवलगृहानुकारी आवासः कारितः । गुरवोऽवलोकनायाकारिताः । मत्रिणा अग्रेसरेण भूत्वा दर्शितः । पृष्टम् - प्रभो ! कीडगावासः ? । इतः शिष्यमाणिक्येनोक्तम् - यदि पौषधशाला भवति तदा वर्ण्यते । मत्रिणा क्षमाश्रमणं दत्तम् । एषा 20 पौषधशालैव भवतु । तदनु सा मुख्यपौषधशाला जाता । तत्र पट्टशालायामुभयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन् । श्रावका धर्मध्यानादनु यथा वक्त्राण्यवलोकन्ते । तथा वांका निहाणाभिधानयोर्ग्रामयोर्द्वी प्रासादौ कारितौ । एकस्मात्स्नपनं कृत्वा सुरङ्गया गव्यूतिमितया द्वितीये गम्यते । एकदा मन्त्रिणो राज्ञा सहाऽग्रीतिर्जाता । मत्री रूसणके मालवदेशं प्रति सपरिच्छदोऽचालीत् । राज्ञा ज्ञातमेषो मध्यवेदी । सैन्यं सत्वरमानयिष्यति । छन्ना नरा राज्ञा तेन सह प्रेषिताः । तत्र गतोऽसौ किं कुरुते । मन्त्री उज्जयिन्यां गतो नृपमन्दिरे, परं नृपस्य नमस्कारं न 25 करोति । पार्श्वस्यैरुक्तम्- मन्त्रिन् ! नमस्कारं [ कथं ] न कुरुषे ? | देव ! देवं मत्वा श्रीवीतरागो नमस्कृतः, गुरून् भणित्वा सुसाधवः, नृपस्तु जयसिंघदेवः । अन्यस्य कस्य शिरो न नाम्यते । राज्ञोक्तम् - मत्रिन् ! मुद्रां गृहाण । देवास्माकं स्वामी केनापि कारणेन रुष्टोऽस्ति । कल्येऽप्यस्मानाकारयिष्यति । तदनु राज्ञा गौरवेण स्थापितः । छन्नपुरुषैः पत्तने गत्वा नृपाय निवेदितम् । नृपेण सत्वरमाकारणं प्रहितम् । मन्त्री नृपं मुत्कलाप्य चलितः । मालव- मेवाडसन्धौ आहडग्रामे महं० सान्तूयोग्यं पाश्चात्यप्रहरे मृत्युः । मन्त्रिणा तदैव क्षामणाद्यं कृत्वा 30 पुत्रस्य शिक्षां दत्त्वाऽनशनं गृहीतम् । पुत्रीवयज् तया प्रदत्तम् । तात ! किमवशिष्यते ? पृष्टे, वत्से ! तपोधनादर्शानादन्यन्न किमपि । तया वण्ठस्तपोधनवेषं कारयित्वाऽग्रे नीतः । उक्तम् । तद्दर्शनान्मत्रिणा हृष्टेन नमस्कृतः
1 BR कारापितं । 2 BR बिम्बप्र० । 3 BR लेथूनि विरलीकृतानि । 4 BR सेठिवर्गो । 5 BR जाबड । * P११८८ ।
For Private Personal Use Only
www.jainelibrary.org