________________
३२
पुरातनप्रबन्धसङ्ग्रह तन्मुखान्नमस्कार प्राप दिवं ययौ । स तथैव समुद्रो निवेश्य स्थितश्चलनवेलायामुक्तः-रे वेषं मुश्च, स्वकर्माणि कुरु । तेनोक्तम्-यत्प्रसादान्मत्री सान्तू चरणयोर्निपतितस्तं वेषं न मोक्ष्ये । क्रमेण पत्तने नीतो गुरूणां पार्श्वे दीक्षितः। नृपेण पुत्रस्य महं० देवलस्य महन्मानोऽदायि ॥ इति मत्रीसान्तूप्रबन्धः॥
२०. मत्रिउदयनप्रबन्धः (P.) 5 ६५९) श्रेष्ठीबोहित्थपुत्र अश्वेश्वरः । पुत्रयक्षना[ग]-पुत्रवीरदेव-पुत्रउदयनः । तत्पुत्रो मत्रिगुरुर्बाहडदेवः । श्रीकरणम् । लाटाह्वयदेशकरणमपि तस्य अर्पयति स नरेन्द्रो, येन वशेकरणपश्चकमनुष्यः (१) ॥
मरुस्थल्यां जावालिपुरसमीपे वाघराग्रामे श्रीमालज्ञातीय उदयनो वणिक् । भार्या धवलक्कक ठ० साम्बपुत्री महादेवी। स कूपिकां करोति । अन्यदा घृतकूपं मस्तके कृत्वा धनुरादाय मेघान्धकारयामिनी विभातप्रायां मत्वा
रामशेनोपरि चचाल । इत एकस्मिन् क्षेत्रे कलकलं श्रुत्वा, धनुरारोप्य, पृष्टवान् के यूयम् ? । अस्य क्षेत्रधनिकस 10 कमा । उदयनेनोक्तम्-अस्यैव स्युः किं वा अन्यस्यापि । भवन्ति, परं स्थानान्तरिताः। मम क सन्ति । तैरुक्तम्-आशापल्या कर्णदेवोऽपरः शालापतिस्तिहुणसीहः । स ततः श्रुत्वा पश्चाद् व्यावृत्त्य, महिलामुत्थाप्य, सुतचाहड-चाहडान्वितः आशापल्लीं गतः । तत्र चैत्ये सुंडु मुक्त्वा देवं नन्तुं मध्ये गतः। तत्र तिहुणसिंहस्य पत्नी चेटीवृता देवं नन्तुमागता । अपूर्वान् दृष्ट्वा वन्दनां चकार । पृष्टं कस्यातिथयः? उदय०-आदौ देवो दृष्टः, पश्चात्वम् । ततः स्वसाथै स नीतः। सा घरं (गृह) मध्ये गता । द्वारपाल उदयनं न मुञ्चति । प्रतोल्युपरिस्थेन शाला15 पतिनोपरि आनायितः । उदयनेन नमस्कारे कृते, पृष्टम्-कुतःप्राघुणकाः । मरुस्थल्या भवन्तं ध्यात्वा वर्तनायागताः। भव्यं जातम् । भोजनाय सकुटुम्बो [उपवेशितः। भोजनादनु पृष्टम्-मध्ये स्थास्यथ पृथग्वा ? । तेनोक्तम्-पृथग् । स्तोकमपि स्थानमर्प्यताम् । तेन गृहद्वारेऽपवरको दर्शितः। तत्र भूमिशुद्धिं कृत्वा यावद्द्वारं ददाति तावन्निधानं निर्गतम् । स विलसति । तन्नृपस्य सारा जाता । शालापतिराहूतः। याचितं तत् । देव! मदीये
[गृहे ] मारुक एक आगतः। तस्य गृहे किञ्चिनिस्सृतम् । तदहं न वेनि । ततः स नरैर्धत्वा नीयमानो निरो20 धार्थ शून्यं हट्ट विवेश । तत्रापि निधानं दृष्टम् । राजकुले गतः। राज्ञा पृष्टम् रे निधानं दर्शय । तेनोक्तम्-देव!
बुभुक्षितेन भक्षितम् । ततो गुप्तौ क्षेपितः । स यदा शरीरचिन्तायां याति तदा निधानमेव विलोकयति । अन्यदा नृपेणोक्तम्-रे अर्पयसि ? । तेनोक्तम्-कियन्ति दर्शयामि । राज्ञोक्तम्-एतत्किम् ? देव ! यत्र यत्र यामि तत्र तत्र निधानानि । दर्शय । तेन ५-१० दर्शितानि । तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च ।
६६०) एकदा मत्रिपनी विनष्टा । वाग्भटेनाचिन्ति-मम पिता दुःखितः । क्वापि कन्यां विलोकयामि । 25 वायडपुरे कोऽपि व्यवहारी तस्य सुता वृद्धाऽस्ति । सा वाग्भटेन वयं तत्र गत्वा याचिता । तेनोक्तम्-कस्सार्थे ?
किं तेन ? ममैव देहि । तेन दत्ता । इतो वाग्भटदेवेन राणक उक्तः-तात ! वायडपुरे जीवितस्वामिनं श्रीमुनिसुव्रतमपरं श्रीवीरं नन्तुं चलत । सङ्घ सम्मील्य ततो गतः । तत्र गत्वा, पूजां विधाय, भोजनवारा प्रारब्धा । इतो वाग्भटदेवसङ्केतात् कोऽपि स्थालं न मण्डयति । मत्रिणोक्तम्-स्थालानि किं न मण्ड्यन्ते ? । यदि सङ्घवचः प्रमाणीकुरुत तदा सर्वः कोऽपि भुनक्ति । आदिशत । यत्परिणयनं मन्यध्वम् । मत्रिणोक्तम्-सप्तति वर्षाणि 30जातानि । अतः कोऽवसरः अवसरं विना न शोभते । अतो वाग्भटेनोक्तम्-ज्ञातिर्बलीयसी । उदय०-कः कन्या
प्रयच्छति । सर्व निष्पन्नम्, भवतां वाक्यमेव विलोक्यते । ततः परिणीतः। तस्याः सुतो रायविड्डार आम्बडो जातः । उदयनेन खङ्गारो जितः। पश्चान्मेलगपुरे साङ्गणडोडीआकेन सह युद्धं जातम् । घाताः लग्नाः। तत्राभिग्रहद्वयम्-शत्रुञ्जयोद्धारे द्विवेलं भोजनम् , श्रीमुनिसुव्रतप्रासादोद्धारे स्नानम् । अभिग्रहद्वैविध्यं सत्याप्य कालं कृत्वा सुगती प्राप्तः ॥ इति मत्रिउदयनप्रबन्धः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org