________________
वसाह आभडप्रबन्धः।
२१. अथ वसाह आभडप्रबन्धः (B. BR. P.) . ६६१) श्रीअणहिल्लपुरे नागराजश्रेष्ठी कोटीध्वजः। तस्य प्रिया लीलादेवी । अन्यदा श्रेष्ठी आपन्नसत्त्वायां पल्यां विशूचिकातो मृतः । तदनु नृपपुरुषैर्गृहसारमपुत्र इति कृत्वा गृहीतम् । श्रेष्ठिनी धवलक्कके पितृगृहे गता। तत्र तस्या अमारिदोहदो जज्ञे । स पित्रा पूरितः । क्रमेण पुत्रो जातः । तस्याभयकुमार इति नाम दत्तम् । स क्रमेण पञ्चवर्षीयो जातः। पठनाय क्षिप्तः। अध्ययनं करोति । अथैकदा बालकैनिस्तात इति कथितः। स मातरं 5 पप्रच्छ-मातः! को मे तातः। तया स्वपिता दर्शितः। तेनोक्तम्-एष ते, मम व? तया स्वभावे उक्त, तेनोक्तम्-पत्तने यास्यामि, अत्रन स्थास्यामि । इत्याग्रहमादाय स्थितः। मातामहेन सम्प्रेषितः । पत्तने गतः । तत्र स्वगृहे स्थितः । क्रमेण व्यवसायः प्रारब्धः । लाछलदेवी भार्या परिणीता। किमपि निधानं पूर्वजसत्कं लेभे। व्यवसायात् पितृतुल्यो जातः श्रिया । सुतत्रयं जातम् । अथ कर्मदौर्बल्यात् श्रीगन्तुं लग्ना । मन्दं मन्दं निर्द्धनत्वमाययौ । पत्नी पुत्रानादाय पितृगृहं गता। आभडोऽप्येकाकी मणिकारहट्टे घुर्घरकान् घर्षति । यवानां माणकं 10 लभते । तेन वृत्तिः । तिं पीष्य स्वयं पक्त्वाऽश्नाति । एवं दुरवस्थां गमयति । यतः
(९९) वार्द्धिमाधवयोस्सौधे प्रीतिप्रेमाङ्कधारिणोः ।
या न स्थिता किमन्येषां स्थास्यति व्ययकारिणाम् ॥ एकदा कुलगुरूणां हेमाचार्याणां पौषधागारे गतः। जनान् परिग्रहप्रमाणं गृह्णतो वीक्ष्य सोऽपि ययाचे । गुरुभिर्द्रम्मान् पृष्टः । योग्यतां ज्ञात्वा टिप्पने द्रम्मलक्ष ९ कृताः । एवं शेषवस्तूनि । टिप्पनमर्पितम् । तेनो-15 क्तम्-कस्यापि पुण्यवत इदम् । ममैवं योग्यता नहि । गुरुभिरुक्तम्-भविष्यति । शेषं धर्मे देयम् । क्रमेण द्रम्मपञ्चकं ग्रन्थौ कृतम् । एकदा चतुःपथान्तरे एकामजां दीनार ५ जग्राह । गले आभरणं सार्थे क्रीतम् । तस्य पाषाणस्य दलानि वैकटिकात् कारितानि । क्रमेण धनी जातः । कुटुम्ब मिलितम् । तपोधनानां विहरणे घृतघट १ दिन प्रति । तथा सत्राकारस्त्ववारितः । नित्यं प्रासादेषु पूजा । सदैव साधर्मिकाणां वात्सल्यं सत्कारः। वर्ष प्रति सकलदर्शनसङ्घार्चा २ । तथा पुस्तकान्यनेकशः लेखितानि । जीर्णोद्धाराश्च कारिताः । बहूनि विम्बानि 20 कारितानि । एवं सङ्घमुख्यतामासाद्य वर्ष ८४ प्रान्तेऽनशनमादातुकामः पुत्रपञ्चकं खजनानप्याहूय प्रोवाच-हे वत्साः! धर्मवहिकां वाचयत । वाचितायां 'भीमप्रीद्राम ९८ लक्ष ।' इति अङ्कं श्रुत्वा वसाहो विषण्णः । ज्येष्ठसुतेन आसपालेन व्याहृतम्-यूयं तात! मा विषीदत । यदसाभिः सकलोऽर्थो व्ययीकृतः । अद्याप्यादिश्यताम् । भवत्प्रसादेन सर्वमस्ति । वसाहः प्राह-रे वत्साः! जनके मयि गर्भस्थिते विपन्ने सर्वस्वं नृपेणात्तम् । पुनर्जातेन पुनरर्जितं पुनर्गमितम् । महदुःखमनुभूतम् । पुनरर्थे जातेऽहं कृपणो जातः । कोट्यपि न पूरिता । पुत्रैरुक्तम्-तात ! 25 पर कोटीः पूर्णा तदा स्यात् , यदा अष्टोत्तरा भवति । १० लक्षास्तत्कालमानीय सप्तक्षेत्र्यां व्ययिताः । अष्टौ पुनर्धर्मव्यये । एवं पुण्यानि कृत्वा वर्गभाग जातः" । पुत्राणां मध्ये द्वौ माहेश्वरिणौ त्रयः श्रावकाः सञ्जाताः ।
॥ इति आभडवसाहप्रवन्धः॥
1 B गूर्जरत्रामण्डले श्रीपत्तने श्रीमालज्ञातीयो नागराजः। 2 B दिवं ययौ। 3 B पंचवर्षदेशीयः। 4 B अन मातु:शाले। 5 नास्ति । 6 B पाणिग्रहणं क्रमेण जातं लाछलदेवी नाम कृतम् । 7 B पूर्वजक्रमागतं च। 8 P नास्त्येतद्वाक्यम् । + एतदन्तर्गतः पाठः P नास्ति । एतदन्तर्गतपाठस्थाने B आदर्श एतादृशः पाठः- एका अजा विक्रेतुमायाता। तस्याः कण्ठे पाषाणोऽस्ति । स इन्द्रनीलमयो वसाहेनोपलक्ष्य मूल्यं पृष्टम् । पंच दीनारा उक्ताः । तेनार्पिताः। कण्ठाभरणं गृह्णन् वारितः । स अजामादाय गृहे गतः । पाषाणोऽपि वैकटिकाय दर्शितः। अर्द्धमुक्त्वा विदारितः । लक्ष्यमूल्या मणयः कृताः । अर्द्धमद्धं कृत्वा गृहीताः । क्रमेण धनवांस्तथैव जज्ञे। 9 B भीमपुरी। 10 B नृपेणेत्वरं गृहीतम्। 11 B • कृत्वा ८४ वर्षसम्पूर्णेऽनशनं प्राप्य शुभभ्यानाद्विपेदे। स्वर्गमगात् ।
पु० प्र० स०5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org