________________
३४
पुरातनप्रबन्धसङ्ग्रहे २२. मं० सज्जनकारितरैवततीर्थोद्धारप्रबन्धः (P.) ६६२) अथ सिद्धराजे राज्यं शासति श्रीमालज्ञातीयबान्धवाः ३-साजण-आम्बा-धवलाः । इतः श्रीजयसिंहेन सज्जनः सुराष्ट्रायां व्यापारे प्रहितः। श्रीरैवते तीर्थ नन्तुं गतः। प्रासादो जाकुड्यमात्येन शैलमयः प्रारब्धः। अमात्यो मालवावासी दिवं गतः । १३५ वर्षाण्यन्तरे गतानि । ततः सजनेन कर्मस्थायः प्रारेभे । वर्षत्रयो5 द्वाहितं द्रव्यलक्ष २ व्ययीकृत्य प्रासादः कारितः । कियन्ति वर्षाण्यन्तरे गतानि । तत्रत्यान् इभ्यानाकार्य प्रोक्तम्-मया प्रासादः कारितः। पुनर्नृपो द्रम्मान् यदि याचते तदा भवद्भिरङ्गीकार्यः। तैरमन्यत । इतश्च सिद्धेशः सोमनाथयात्रायामागतः। सर्वे व्यापारिणो मिलनाय आगताः । सज्जनो नाययौ । नृपेण तदनागमने कारणं पृष्टम् । तैरुक्तम्-देव! तेन द्रव्यं विनाशितमतः स कथमायाति । ततः सज्जनस्याकारणं गतम् । स आयातः। नृपेणोक्तम्-रे द्रम्माः क्व ? देव! सन्ति । कथं नानीताः । स्वामिन् ! रैवतकं दुर्ग मत्वा तत्र भाण्डागारे 10 स्थापिताः। नृपेणोक्तम्-तत्रागम्यते तदा दर्शयसि ? । देव! दर्शयामि । नृपस्तु तत्र गतः। पृष्टः-कास्ते ? । उपर्यागच्छत । तथा कृतम् । प्रासादे नेमि नत्वा बहिरायातः । पृष्टम्-केनात्र प्रासादः कारितः ? । सज्जनेनोक्तम्श्रीसिद्धेशेन । मम तु शुद्धि[रपि न] कथं जातः । देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं विना कथं कारितः। द्रम्मानानय । आनयामि । कथम् ? । देव! अत्रत्येनेभ्यवर्गेणाङ्गीकृतमस्ति । ....द्रम्मान् देवो
गृह्णातु, पुण्यं वा । राज्ञा पुण्यमङ्गीकृतम् , परं मन्नाम्ना प्रासादोऽस्तु । देव ! त्वन्नाम्नैव, मम दासस्य किम् । 15 नृपेण तुष्टेन पुनर्व्यापारो दत्तः । अवलोकनासिखरमारुह्य दिशावलोकनं कृतं सिद्धेशेन । चारणेनोक्तम्
(१००) मई नाईउं सिद्धेश तउं चडियओ उजिलसिहरि ।
जीता च्यारइ देस अलीउं जोअइ कर्णउन ॥ ततः उत्तरितः। (१०१) जाकुड्यमात्य-सज्जनदण्डेशाद्या व्ययीकरन यत्र ।
नेमिभुवनोद्धृतिमसौ गिरनारगिरीश्वरो जयति ॥ (१०२) नाखानि खानितटतो घटितो न टकर्नासूत्रि सूत्रकलया प्रमितो न मानैः। नाचार्यमन्त्रकलया कलितप्रतिष्ठो यः खेन विश्वकृपया प्रभुराविरासीत् ॥
२३. महं आंबाकारितगिरिनारपाजप्रबन्धः (P.) ६६३) अत्र धवलेन प्रपा कारिता । महं आम्बाकस्य श्रीकुमारदेवेन सुराष्ट्राव्यापारो दत्तः । तेन व्रजता महं 25 बाहडदेवो विज्ञप्तः। तत्र गतोऽहं रैवते पद्यां कारयामि । मत्रिणोक्तम्-कार्या । पश्चात्तेन तत्र पद्या कारिता ।
व्यये भीमप्री[य]द्रम्मलक्ष ६३ । इतः कुमारेशो यात्रायामागतः । साङ्कलीआपद्यायां चटितः । वलमानो बाहडदेवेन सुखासने समारोप्याध आनीतः। केनेयं पद्या कारिता ?, पृष्टं देवेन । तेनावादि मया । कदा। ततः स्वरूपं प्रोक्तम् । तुष्टः [ सन् ] आम्बाकस्य व्यापारो दत्तः ॥ इति पाजप्रबन्धः॥
(P.) सङ्ग्रहे सोनलवाक्यानि । 80 ६६४) प(ख)ङ्गारे जीर्णदुर्गाधिपती उदयनेन हते तत्प्रिया सोनलदेवी जगाद(१०३) षडहडीयां षंगार धणीविहूणां धूलहर । गया करावणहार जाइसिइं............ ॥ (१०४) पइं गरूआ गिरनार काहउं मनि मत्सर धरिउं । मारितां षंगार एकू सिहर न ढालिउं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org