________________
पुरातनप्रबन्धसङ्ग्रहे स्थानमायातः। क्रमेण सर्वैर्नृप-राज्ञीप्रमुखैर्मानितम्-कुमुदचन्द्रो हारित-इति कृत्वा देशानिष्काशितः । कुमुदसाशोकवनिकां गतस्य हृदयास्फोटो जातः । राज्ञा तत्सर्वस्वमादाय प्रभूणां प्राभृतीकृतम् । (९४) च्यारि जोड नीसाण हय हिंसइ पंच पंच्यासी,
इग्यारह सई सुहड सीस सई दुन्नि च्छिआसी। बलदह सई चिआरि कम्मकर पंचछहुत्तर, अत्थ लक्ख पणवीस दम हह लक्ख बहत्तर । ता चमर छत्त तुघर बिरुद सुखासण वाहण लियौँ ।
वडगच्छतिलइ पहुदेवसूरि नग्गओं वलि नग्गओं कियओं ॥ श्रीगुरुं प्रति नृपः प्राह-भगवन्निदं भवद्भिरेवार्जितं तत् गृह्णीत । सूरिरह10 (९५) भुञ्जीमहि वयं भैक्षं जीर्णवासो वसीमहि । शयीमहि महीपीठे कुर्वीमहि धनेन किम् ॥
नृपेण महोत्सवपुरस्सरं पौषधागारे सूरयः प्रेषिताः। (९६) श्रीसिद्धपुरे रम्ये सिद्धपो देवसूरिगुरुवचसा । तुर्यद्वारं चैत्यं कारितवान् तुर्यगत्यर्थम् ॥ [*श्रीवादिदेवसरिसदुपदेशवासितचेतसा सिद्धराजजयसिंहदेवेन सं० १८८३ वर्षे पत्तनमध्ये श्रीऋषभप्रासादः कारितः ८४ अङ्गुलऋषभबिम्बयुग् राजविहारनाम्ना ।]
॥ इति देवाचार्यप्रबन्धः॥
15
१७. आरासणीयनेमिचैत्यप्रबन्धः (P.) ६५६) अथैकदा आरासणपुरात् महं गोगासुतः पासिलो दौर्बल्यात् कूपिकामादाय पत्तनमाययौ । तत्र रायविहारे देवं नत्वा विम्बमपने लग्नः । इतः ठक्कुरछाडापुच्या देवकुलमागतया दृष्टः पृष्टश्च-भ्रातरेवं बिम्बप्रमाणं
गृह्णासि, किं नूतनमेवंविधं करिष्यसि । तेनोक्तम्-भगिनि ! यदि कार्यते तदा प्रतिष्ठायामागन्तव्यम् । एवमस्तु । 20 स स्वपुरे गतः। विम्बरचनेऽन्यमुपायमलब्ध्वा, अम्बाविदेवीप्रासादे गत्वा लवितुमारेभे । दशभिरुपवासदेवी
प्रत्यक्षीभूयोवाच-वरं वृणु । तेनोक्तम्-देवि! तथा कुरु यथाऽहं नृपविहारसमं प्रासादं कारयामि । देव्या स्थानमुक्तम्-खानिर्दर्शिता । परं षोडशप्रहरैस्ते मनोरथः सेत्स्यन्ति, तदनु न । इतो लब्धवरः सङ्घन सह व्रजन् बुद्ध्या चतुष्पथमध्ये उपविष्टः। इयन्ति दिनानि देवीनिमित्तम् , अतः परं सङ्घोपरि । कथम् । यदि सर्वः कोऽपि स्वतो जनेन स्वसमुदायेन षोडशाहरान् सानिध्यं करोति तदा भुञ्जे नान्यथा । सङ्घन मानितम् । पारणकादनु जनं 25 सम्मील्य खनौ गतः। खननं प्रारब्धम्-प्रहरत्रयं जातं खनताम् । अतस्तस्य गुरवस्तनुगमनिकायां प्रस्थिताः । पासिलेन वन्दिताः। तैरुक्तम्-पूर्णा मनोरथा ? । तेनोक्तम्-देवगुरुप्रसादात् । देवी रुष्टा मम प्रसादो न किन्त्वेतेषाम् । सत्वरं निःसरत । खानिः पतिता । दीनारसहस्र ४५ विमलो निर्गतः । इष्टिकामयः प्रासादः प्रारब्धः। बिम्बं कारितम् । चन्द्रमा सहस्र २ अवशिष्यन्ते । चिन्तितं विम्बमुपवेशयामि । इति ध्यात्वा पत्तनं गतः ठकुर
छाडावासे प्रतोल्यां स्थितः। प्रवेशमलभमानो महता वरेण पूत्करोति । ठकुरेण मध्ये मोचितः । नमस्कारे 30 कृते ठक्कुरेणोक्तः कुतः समायातः १ । छाडापुत्री बाई हांसी तस्या मीलनाय । ठकुरेण पुत्री आहूता । वत्से ! तव
भ्राता। तेन नमस्कृत्योक्तम्-मां न वेत्सि ?, राजविहारे विम्बं मपन् दृष्टः सोऽहम् । मया विम्ब कारितम् , प्रतिष्ठायामागच्छत । ततः श्रीदेवसूरिभिः समं श्रेष्ठिपुत्री चलिता, पित्रा प्रेषिता । तत्र प्रतिष्ठा जाता ११९३ । सत्र तया शेषं सम्पूर्ण कृतम् । मण्डपस्तया भगिनीत्वेन कारितः । लक्ष ९ द्रव्यलागिः । स च मेघनादः।
* एकस्मिन्नन्यादर्श एषा कोष्ठकगता पंक्तिः प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org