________________
देवाचार्यप्रबन्धः ।
२९
यणलदेव्या अग्रे उक्तम्- अहं जयकेशिनरेश्वरस्य प्रियस्तव भ्रातुः । इतः करणे स्व-स्वमतख्यापनाय पत्रं लेखयितुं गतौ । इतो गांगिलपण्डितेन श्रीदेवसूरीनुद्दिश्य हास्यं कृतम् ।
(८५) वेषः कोऽपि तुरुष्कसन्ततिभवः कक्षान्तरे लम्बित - इछायामाश्रयते गताशुकपशोर्जीर्णोर्णकापोट्टलः । अन्धानामिव यष्टिका करतले मुण्डं समुचितं
युक्तं केवलमास्यमुद्गतमलं यद्वत्रखण्डावृतम् ॥ (८६) दन्तानां मलमण्डली परिचय स्थूलंभविष्णुस्ततिः कृत्वा भैक्षभुजिक्रियामविरतं शौचं किलाचाम्लतः । नीरं साक्षि शरीरशुद्धिविषये येषामहो कौतुकं
तेऽपि श्वेतपटाः क्षितीश्वरपुरः काङ्क्षन्ति जल्पोत्सवम् ॥ ततः प्रभुराह - (८७) यादोऽङ्गशोणितकषायितचीवराणां सन्मांसभक्षण विचक्षणदक्षिणानाम् । विद्वन्निकाय जन निन्दनको विदानां पावित्र्यमुत्तममहो द्विजसत्तमानाम् ॥ (८८) एतस्याः कुक्षिकोणे विदधति वसतिं कोटयः स्वर्गधाम्नातल्लाङ्गूललग्नाः सपदि तनुभृतो वैतरण्यास्तरन्ति । गामित्थं स्तौति विप्रः पदि पदि न वयं कारणं तन्न विद्मो गृह्णानामात्मगेहात् तृणमपि निबिडं ताडयन्त्युग्रदण्डैः ॥ इत्युक्त्वा पौषधा (?) नृपेण गांगिलस्य देशपट्टी दत्तः । तदा कुमुदचन्द्रः प्रतिज्ञामवादीत्(८९) इह नृपतिसभायां बाहुरुद्धकृतो मे वदतु वदतु वादी विद्यते यस्य शक्तिः । मयि वदति वितण्डावादविद्याधुरीणे जलधिवलयमध्ये नास्ति कश्चिद्विपश्चित् ॥ (९०) बृहस्पतिस्तिष्ठतु मन्दबुद्धिः पुरन्दरः किं कुरुते वराकः ।
मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ श्रीदेवाचार्यैः कुमुदं प्रति
(९१) न लाभयामो ललनां न भोज्यं सुगन्धिसर्पिः प्लुतमुष्णमद्मः । कार्य विवादेन सखे न तत्र स्वशासनोद्योतकृते च कुर्मः ॥ स्व-स्वमतख्यापनाय पत्रकमले खि । कुमुदेनोक्तम्
(९२) केवलिहुओ न भुंजइ चीवरसहियस्स नत्थि निवाणं । इत्थीहुआ न सिज्झइ मयमेयं कुमुदचन्दस्स ॥ देवाचार्येणोक्तम्
(९३) केवलिहुओ वि भुंजइ, चीवरसहियस्स अत्थि निवाणं । इत्थहुआ वि सिज्झइ मयमेयं देवसूरीणं ॥
गूर्जरत्राया विवेकबृहस्पतित्वम्, नृपस्य सिद्धचक्रित्वम्, पत्तनस्य नरसमुद्रत्वमसहन् विवदते । सं० १९८२ वर्षे वैशाख पूर्णिमादिने वादहेतोराहूतौ । दिगम्बरः पूर्वं गतः । श्रीदेवसूरिः शुभशकुनैः प्रेर्यमाणः पश्चाद्गतः । क्रमेण सभायां गताः । कुमुदेनाशीर्वादो दत्तः प्रभुभिश्च । तदनु गद्यपञ्चशती उपन्यस्यते, तस्याः प्रत्युत्तरं पञ्चशत्या दीयते । पुनर्गद्यपञ्चशती उपन्यस्यते । एवं तत्र पश्ञ्चविंशतिदिनानि विवादो जज्ञे । कुमुदो वारत्रयं निग्रह
Jain Education International
For Private Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org