Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 92
________________ कुमारपालराज्यप्राप्तिप्रबन्धः । रक्षको भवदीयसुतो विलोक्यते । राज्ञा तदर्थं शाकुनिकः पृष्टः । तेन कुमारपालस्य राज्यं कथितम् । राज्ञा चिंतितम्मम राज्यं अकुलीनस्य भविता । तदेनं मारयिष्यामि । इति विचिन्त्य घातकान् सम्प्रेष्य त्रिभुवनपालो मारितः ॥ (G.) सङ्ग्रहे हेमचन्द्रसूरिसम्बन्धिवृत्तम् । (७४) श्री हेमसूयोऽष्टम्यां चतुर्द्दश्यां श्रीजयसिंहदेव भवनं प्रयाति । पौषधशालायां सदसि स्थूलभद्रचरित्रं नित्यं वाचयन्ति । एकवेलमालिग पुरोहितेन राज्ञोऽग्रे कथितम् - यन् महाराज ! कोऽयमसत्प्रलापः, सर्वरसभोजने 5 पूर्वपरिचितवेश्याभवने च कामनिग्रहः । परं किं क्रियते भवद्वल्लभाः । राज्ञोक्तम् - आचार्या इह समेष्यन्ति तदा वक्तव्यम् । परोक्षे नोच्यते । सूरिभिरागतम् । राज्ञोक्तम् - यूयं किं किं वाचयन्तः स्थ । ततः सूरिभिः संक्षेपतः साद्यन्तमपि श्रीस्थूलभद्रचरितं कथितम् । आलिगेनोक्तम्- महाराज ! " विश्वामित्रपराशर० ॥” गुरुभिरुक्तम्-शृणु “ सिंहो बली० ।" ततः आलिगेनोक्तम् - किं क्रियते अस्माकीनान्येव शास्त्राणि पठित्वा अस्माकमेव सम्मुखाः संजाताः । गुरुभिरुक्तम् - ऐन्द्रं व्याकरणं किं भवदीयम् ? अथाद्यापि श्रीमातृकावर्जं सर्वं नवं करोमि । 10 ततः श्रीजयसिंहदेवाभ्यर्थनया व्याकरणं कृतम् ॥ ९७५) श्री हेमसूरिपार्श्वे कोऽपि वादी कपटेन पृच्छनाय समागतः । पृष्टम् - उर्वशीशकारः कीदृशो भवति । स्वरीणां मनः सन्देहदोलारूढं सम्पन्नम् । परं सचिन्ता अपि पुस्तकविलोकनं कुर्वतः [आयातः कार्यटिकः ।] तत उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः । तेनेति लिखित्वा पत्रिका तथा मुक्ता - यथा पृच्छको न पश्यति । तद्यथा - उरू शेते उर्वशी । तद्विलोक्यैवं स्थिता गुरवः । पुनस्तेन पृष्टम् । गुरुभिः 15 कथितम् । किं पृच्छन्नसि ? । तेनोक्तम् - उर्वशीशकारः । गुरुभिरुक्तम् - तालव्यः । तेनोक्तमहं वादी परं कपटेनागोऽभूत् । नमो विधाय गतः । गुरुभिरुक्तम् - भांडागारिकेन रम्या चाडा विहितास्ति ॥ ९७६) केनापि मिथ्यादृष्टिना व्याख्यानानन्तरं श्रीसूरयः पृष्टाः । यूयं सर्वानपि रसान् वेत्थ । परं मम सन्देहोऽस्ति । विष्ठारसः कीदृशः स्यात् । गुरुभिरुक्तम् - सत्यं पृष्टम् । परं वयं सर्वानपि रसान् ब्रूमहे । परं रसवेदकाः पृथगेव हि । वयमेतद्रसाभिप्रायं कथयिष्यामः । परमनास्वादितत्वात् भवान्न मानयिष्यति । अतो 20 भवान् पूर्वमाखादयतु इति वचनेन पराजितः ॥ ૨૦ १७७) श्रीहेमसूरिमाता पाहिणिनाम्नी अनशने स्वीकृते भूमौ मुक्ता । श्रीसंघेन कोटित्रयधर्म्मव्ययो दत्तः । ततो व्ययो ( हर्षो ) न भवति । केवलं रोदिति । रोदनकारणे पृष्टे मात्रोक्तम् - मम सदृशा घनतरा अपि विपद्यन्ते । नामाऽपि कोऽपि न वेत्ति । परं मम कोटित्रयं धर्म्मव्यये जातं । तदयं मम सुतश्री हेमसूरिः प्रमाणम् । परं यस्य मम लगति स किमपि न वक्ति । इत्युक्ते श्रीगुरुभिर्लक्षत्रयीशास्त्रपुण्यव्ययो दत्तः । ततो निर्वाणमजनि । 25 ततस्त्रिपुरुषद्वारि द्विजैर्विमानोपद्रवो विहितः । ततो रुषितैर्गुरुभिरुक्तम् - " आपणपरं प्रभु थाइयइ० ॥" इति विचिन्त्य श्रीकुमारपुरो विच्छाया गताः । ९७८) एकदा हे माचार्याः छत्रशिलायां निविष्टास्तेजो ददृशुः । विलोकयतां समीपे समागतं तत् । मध्यग'तपुरुषमेटः । कृष्णचित्रकार्पणं लोभवृद्धिहेतुरिति निस्पृहैर्निषिद्धः ॥ Jain Education International २४. कुमारपालराज्यप्राप्तिप्रबन्धः (P.) (११६) आचार्या बहवोऽपि सन्ति भुवने भिक्षोपभोगक्षमा नित्यं पामरदृष्टिताडनविधावत्युग्रजाग्रत्कराः । चौलुक्यक्षितिपाल भालदृषदा स्तुत्यः स एकः पुनर्नित्योत्तेजितपादपङ्कजनखः श्रीहेमचन्द्रो गुरुः ॥ For Private & Personal Use Only 30 www.jainelibrary.orgPage Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220