Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 91
________________ ३६ पुरातनप्रबन्धसङ्घहे (११५) नीवारप्रसवाग्रमुष्टिकवलैयों वर्द्धितः शैशवे पीतं येन सरोजपत्रपुटके स्नानावशिष्टं पयः । तं दानासवमत्तषट्पदकुलव्यालीढ गण्डस्थलं सानन्दं सभयं च पश्यति गजं दूरे स्थितस्तापसः ॥ 5 एवं जातम् । राज्ञोक्तम्- पुण्यं मम कथं दत्तम् । तेनोक्तम्-तवैकस्य पुण्यं दत्तम् । त्वं करं धारय यथा तेषां सर्वेषां पुण्यं तव ददामि । राज्ञोक्तम् - मूढ ! तव भणितेन कथं तेषां पुण्यं दत्तं याति । मत्रिणोक्तम् - आभीर ! यद्येवं वेत्सि तदा तव पुण्यं मम दत्तं तत्र कथं याति । स तु मया वचनेन छलितः । हर्षितेन राज्ञा मत्रित्वं पुनर्दत्तम् ॥ ९६७) तीर्थयात्रायां पंचगव्यूतमात्रेणैकप्रयाणेनाग्रभागस्थितया श्रीमयणल्लदेव्या श्रीजयसिंहदेवपार्श्वात् द्वासप्ततिलक्षप्रमाणो बाहुलोडकरो मोचितः । तदनु श्रीसोमेश्वरलिंगहेतोर्हेमकोटिपूजा विहिता । पूर्णमा 10 गर्वमावहन्ती । ततो देवेनेति कथितम् - यत्कस्याश्चित्कापटिक्याः पिण्याकपुण्यं याचेः । सा तु नापयति पुण्यमिति गर्वपरिहारः ॥ ९६८) अथ मयणल्लदेव्या पापघटे दीयमाने कोऽपि न गृह्णाति । अत्रान्तरे विषण्णां तां कश्विद्विजन्मा जगादेति - मातर् ! यदि भवत्रयस्य पापघटान् ददासि तदा गृह्णामि । हर्षितया तया तस्मै भवत्रयपापघटो दत्तः । अन्ये सर्वेऽपि विस्मिताः पप्रच्छुः - त्वया किं कृतम् ; पापघटस्यैकस्य निर्वाहो नास्ति, त्वया कथं त्रयं गृहीतम् । 15 तेनोक्तम् - अस्या जन्मत्रयेऽपि पापमेव नास्ति, तत्कथं धनं न गृह्यते । सर्वैरपि मानितम् ॥ ६९) अथ कर्णाटदेशे पुलकेशिराजा ग्रीष्मसमये राजपाटिकायां गतः । सच्छायफलितसहकारतरोरधो विशश्राम । अत्रान्तरे वनवह्निरुत्थितः । तेन दह्यमानेन वृक्षेण सह राजापि स्वक्षात्रधर्म्म अंशभीत्या ज्वलितवान् । तस्य सुतो जयकेशिनामा नृपोऽभूत् । तस्य महाविद्वान् क्रीडाशुकोऽस्ति । तं विना राजा न भुङ्क्ते । अन्यदा राज्ञा भोजनावसरे पंजरात्समाकारितः शुकः । तेन मार्जारभयाद्विभेमीत्युक्तम् । राज्ञा सर्वत्र मार्जारो गवेषितः । न 20 दृश्यते । पुनरुक्तम्–समेहीति । तेनोचे -विभेमीति । राज्ञोक्तम् - समेहि यदि त्वां भक्षयति मार्जारः, तदा भवता सह काष्ठभक्षणं करोमि । एवमुक्ते समागतः । स्थालाधः स्थितेन मार्जारेण भक्षितः । राज्ञापि स्वप्रतिज्ञाभङ्गभयात् सह काष्ठभक्षणं कृतम् ॥ ९७०) गयणा-मयणाभ्यामिन्द्रजालविद्या साधिता । ततः पत्तने नूतने सहस्रलिङ्गसरसि गयणो निजविद्यां प्रकाशयितुं मकररूपेण प्रविश्योपद्रवति । बहुभिरुपायैरलब्धे तत्र राज्ञा पटहो वादितः । लघुभ्रात्रा मयणेन 25 धीरां याचयित्वा निष्कासितः । प्रसादितौ तौ राज्ञा ॥ (७१) श्रीसिद्धि - बुद्धियोगिनीभ्यां कदलीपत्रासनोपविष्टाभ्यां श्रीसिद्धराजो जयसिंहः सिद्धराजत्वं पृष्टः । एवं विषि(षण्णेन राज्ञा रात्रौ वीरचर्यायां सज्जनसाकरीयाकः पुत्रेण समं योगिनीप्रतिमल्लत्वं वदन् श्रुतः । प्रातराकार्य सन्मानितः। तेन सप्तदिनान्ते सितां कावलयित्वा (१) क्षुरिकाद्वयं विधाय परमंडलभेटामिषेण राज्ञेऽर्पितम् । राज्ञा फलद्वयं भक्षयित्वा लोहमुष्टिद्वयं योगिनीद्वय [[य भक्षण ] हेतोरर्पितम् । ताभ्यां न भक्षितम् ॥ Jain Education International 30 ९७२) श्रीजयसिंहदेवस्यान्यदा महं गांगाकेन आम्राणि प्रहितानि कस्यापि विप्रस्य शये । ततः स श्रीजयसिंहदेवसदो दृष्ट्वा क्षुभितः । तत आह - राजन् ! महं आंबिल गांगे मोकल्यां छईं । सता उपरी पसावउ । ततो हसितस्सः ॥ ९७३) एकदा श्रीसिद्धराजे दिग्विजयं द्वादशवार्षिकं विधाय समागते प्रजा मिलनाय गता । राज्ञा कुशलं पृष्टम् । ताभिरूचे–राजन् ! कुशलमस्ति । परं चेतसि न निर्वृत्तिः । राज्ञोक्तम्- कथम् । । तैरुक्तम् - राजन् । अस्माकं For Private Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220