Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 89
________________ ३४ पुरातनप्रबन्धसङ्ग्रहे २२. मं० सज्जनकारितरैवततीर्थोद्धारप्रबन्धः (P.) ६६२) अथ सिद्धराजे राज्यं शासति श्रीमालज्ञातीयबान्धवाः ३-साजण-आम्बा-धवलाः । इतः श्रीजयसिंहेन सज्जनः सुराष्ट्रायां व्यापारे प्रहितः। श्रीरैवते तीर्थ नन्तुं गतः। प्रासादो जाकुड्यमात्येन शैलमयः प्रारब्धः। अमात्यो मालवावासी दिवं गतः । १३५ वर्षाण्यन्तरे गतानि । ततः सजनेन कर्मस्थायः प्रारेभे । वर्षत्रयो5 द्वाहितं द्रव्यलक्ष २ व्ययीकृत्य प्रासादः कारितः । कियन्ति वर्षाण्यन्तरे गतानि । तत्रत्यान् इभ्यानाकार्य प्रोक्तम्-मया प्रासादः कारितः। पुनर्नृपो द्रम्मान् यदि याचते तदा भवद्भिरङ्गीकार्यः। तैरमन्यत । इतश्च सिद्धेशः सोमनाथयात्रायामागतः। सर्वे व्यापारिणो मिलनाय आगताः । सज्जनो नाययौ । नृपेण तदनागमने कारणं पृष्टम् । तैरुक्तम्-देव! तेन द्रव्यं विनाशितमतः स कथमायाति । ततः सज्जनस्याकारणं गतम् । स आयातः। नृपेणोक्तम्-रे द्रम्माः क्व ? देव! सन्ति । कथं नानीताः । स्वामिन् ! रैवतकं दुर्ग मत्वा तत्र भाण्डागारे 10 स्थापिताः। नृपेणोक्तम्-तत्रागम्यते तदा दर्शयसि ? । देव! दर्शयामि । नृपस्तु तत्र गतः। पृष्टः-कास्ते ? । उपर्यागच्छत । तथा कृतम् । प्रासादे नेमि नत्वा बहिरायातः । पृष्टम्-केनात्र प्रासादः कारितः ? । सज्जनेनोक्तम्श्रीसिद्धेशेन । मम तु शुद्धि[रपि न] कथं जातः । देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेशं विना कथं कारितः। द्रम्मानानय । आनयामि । कथम् ? । देव! अत्रत्येनेभ्यवर्गेणाङ्गीकृतमस्ति । ....द्रम्मान् देवो गृह्णातु, पुण्यं वा । राज्ञा पुण्यमङ्गीकृतम् , परं मन्नाम्ना प्रासादोऽस्तु । देव ! त्वन्नाम्नैव, मम दासस्य किम् । 15 नृपेण तुष्टेन पुनर्व्यापारो दत्तः । अवलोकनासिखरमारुह्य दिशावलोकनं कृतं सिद्धेशेन । चारणेनोक्तम् (१००) मई नाईउं सिद्धेश तउं चडियओ उजिलसिहरि । जीता च्यारइ देस अलीउं जोअइ कर्णउन ॥ ततः उत्तरितः। (१०१) जाकुड्यमात्य-सज्जनदण्डेशाद्या व्ययीकरन यत्र । नेमिभुवनोद्धृतिमसौ गिरनारगिरीश्वरो जयति ॥ (१०२) नाखानि खानितटतो घटितो न टकर्नासूत्रि सूत्रकलया प्रमितो न मानैः। नाचार्यमन्त्रकलया कलितप्रतिष्ठो यः खेन विश्वकृपया प्रभुराविरासीत् ॥ २३. महं आंबाकारितगिरिनारपाजप्रबन्धः (P.) ६६३) अत्र धवलेन प्रपा कारिता । महं आम्बाकस्य श्रीकुमारदेवेन सुराष्ट्राव्यापारो दत्तः । तेन व्रजता महं 25 बाहडदेवो विज्ञप्तः। तत्र गतोऽहं रैवते पद्यां कारयामि । मत्रिणोक्तम्-कार्या । पश्चात्तेन तत्र पद्या कारिता । व्यये भीमप्री[य]द्रम्मलक्ष ६३ । इतः कुमारेशो यात्रायामागतः । साङ्कलीआपद्यायां चटितः । वलमानो बाहडदेवेन सुखासने समारोप्याध आनीतः। केनेयं पद्या कारिता ?, पृष्टं देवेन । तेनावादि मया । कदा। ततः स्वरूपं प्रोक्तम् । तुष्टः [ सन् ] आम्बाकस्य व्यापारो दत्तः ॥ इति पाजप्रबन्धः॥ (P.) सङ्ग्रहे सोनलवाक्यानि । 80 ६६४) प(ख)ङ्गारे जीर्णदुर्गाधिपती उदयनेन हते तत्प्रिया सोनलदेवी जगाद(१०३) षडहडीयां षंगार धणीविहूणां धूलहर । गया करावणहार जाइसिइं............ ॥ (१०४) पइं गरूआ गिरनार काहउं मनि मत्सर धरिउं । मारितां षंगार एकू सिहर न ढालिउं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220