Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 87
________________ ३२ पुरातनप्रबन्धसङ्ग्रह तन्मुखान्नमस्कार प्राप दिवं ययौ । स तथैव समुद्रो निवेश्य स्थितश्चलनवेलायामुक्तः-रे वेषं मुश्च, स्वकर्माणि कुरु । तेनोक्तम्-यत्प्रसादान्मत्री सान्तू चरणयोर्निपतितस्तं वेषं न मोक्ष्ये । क्रमेण पत्तने नीतो गुरूणां पार्श्वे दीक्षितः। नृपेण पुत्रस्य महं० देवलस्य महन्मानोऽदायि ॥ इति मत्रीसान्तूप्रबन्धः॥ २०. मत्रिउदयनप्रबन्धः (P.) 5 ६५९) श्रेष्ठीबोहित्थपुत्र अश्वेश्वरः । पुत्रयक्षना[ग]-पुत्रवीरदेव-पुत्रउदयनः । तत्पुत्रो मत्रिगुरुर्बाहडदेवः । श्रीकरणम् । लाटाह्वयदेशकरणमपि तस्य अर्पयति स नरेन्द्रो, येन वशेकरणपश्चकमनुष्यः (१) ॥ मरुस्थल्यां जावालिपुरसमीपे वाघराग्रामे श्रीमालज्ञातीय उदयनो वणिक् । भार्या धवलक्कक ठ० साम्बपुत्री महादेवी। स कूपिकां करोति । अन्यदा घृतकूपं मस्तके कृत्वा धनुरादाय मेघान्धकारयामिनी विभातप्रायां मत्वा रामशेनोपरि चचाल । इत एकस्मिन् क्षेत्रे कलकलं श्रुत्वा, धनुरारोप्य, पृष्टवान् के यूयम् ? । अस्य क्षेत्रधनिकस 10 कमा । उदयनेनोक्तम्-अस्यैव स्युः किं वा अन्यस्यापि । भवन्ति, परं स्थानान्तरिताः। मम क सन्ति । तैरुक्तम्-आशापल्या कर्णदेवोऽपरः शालापतिस्तिहुणसीहः । स ततः श्रुत्वा पश्चाद् व्यावृत्त्य, महिलामुत्थाप्य, सुतचाहड-चाहडान्वितः आशापल्लीं गतः । तत्र चैत्ये सुंडु मुक्त्वा देवं नन्तुं मध्ये गतः। तत्र तिहुणसिंहस्य पत्नी चेटीवृता देवं नन्तुमागता । अपूर्वान् दृष्ट्वा वन्दनां चकार । पृष्टं कस्यातिथयः? उदय०-आदौ देवो दृष्टः, पश्चात्वम् । ततः स्वसाथै स नीतः। सा घरं (गृह) मध्ये गता । द्वारपाल उदयनं न मुञ्चति । प्रतोल्युपरिस्थेन शाला15 पतिनोपरि आनायितः । उदयनेन नमस्कारे कृते, पृष्टम्-कुतःप्राघुणकाः । मरुस्थल्या भवन्तं ध्यात्वा वर्तनायागताः। भव्यं जातम् । भोजनाय सकुटुम्बो [उपवेशितः। भोजनादनु पृष्टम्-मध्ये स्थास्यथ पृथग्वा ? । तेनोक्तम्-पृथग् । स्तोकमपि स्थानमर्प्यताम् । तेन गृहद्वारेऽपवरको दर्शितः। तत्र भूमिशुद्धिं कृत्वा यावद्द्वारं ददाति तावन्निधानं निर्गतम् । स विलसति । तन्नृपस्य सारा जाता । शालापतिराहूतः। याचितं तत् । देव! मदीये [गृहे ] मारुक एक आगतः। तस्य गृहे किञ्चिनिस्सृतम् । तदहं न वेनि । ततः स नरैर्धत्वा नीयमानो निरो20 धार्थ शून्यं हट्ट विवेश । तत्रापि निधानं दृष्टम् । राजकुले गतः। राज्ञा पृष्टम् रे निधानं दर्शय । तेनोक्तम्-देव! बुभुक्षितेन भक्षितम् । ततो गुप्तौ क्षेपितः । स यदा शरीरचिन्तायां याति तदा निधानमेव विलोकयति । अन्यदा नृपेणोक्तम्-रे अर्पयसि ? । तेनोक्तम्-कियन्ति दर्शयामि । राज्ञोक्तम्-एतत्किम् ? देव ! यत्र यत्र यामि तत्र तत्र निधानानि । दर्शय । तेन ५-१० दर्शितानि । तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च । ६६०) एकदा मत्रिपनी विनष्टा । वाग्भटेनाचिन्ति-मम पिता दुःखितः । क्वापि कन्यां विलोकयामि । 25 वायडपुरे कोऽपि व्यवहारी तस्य सुता वृद्धाऽस्ति । सा वाग्भटेन वयं तत्र गत्वा याचिता । तेनोक्तम्-कस्सार्थे ? किं तेन ? ममैव देहि । तेन दत्ता । इतो वाग्भटदेवेन राणक उक्तः-तात ! वायडपुरे जीवितस्वामिनं श्रीमुनिसुव्रतमपरं श्रीवीरं नन्तुं चलत । सङ्घ सम्मील्य ततो गतः । तत्र गत्वा, पूजां विधाय, भोजनवारा प्रारब्धा । इतो वाग्भटदेवसङ्केतात् कोऽपि स्थालं न मण्डयति । मत्रिणोक्तम्-स्थालानि किं न मण्ड्यन्ते ? । यदि सङ्घवचः प्रमाणीकुरुत तदा सर्वः कोऽपि भुनक्ति । आदिशत । यत्परिणयनं मन्यध्वम् । मत्रिणोक्तम्-सप्तति वर्षाणि 30जातानि । अतः कोऽवसरः अवसरं विना न शोभते । अतो वाग्भटेनोक्तम्-ज्ञातिर्बलीयसी । उदय०-कः कन्या प्रयच्छति । सर्व निष्पन्नम्, भवतां वाक्यमेव विलोक्यते । ततः परिणीतः। तस्याः सुतो रायविड्डार आम्बडो जातः । उदयनेन खङ्गारो जितः। पश्चान्मेलगपुरे साङ्गणडोडीआकेन सह युद्धं जातम् । घाताः लग्नाः। तत्राभिग्रहद्वयम्-शत्रुञ्जयोद्धारे द्विवेलं भोजनम् , श्रीमुनिसुव्रतप्रासादोद्धारे स्नानम् । अभिग्रहद्वैविध्यं सत्याप्य कालं कृत्वा सुगती प्राप्तः ॥ इति मत्रिउदयनप्रबन्धः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220