________________
5
पुरातनप्रबन्धसङ्ग्र
(६७) प्रभाधिनाथैर्मुनिभिः कलाभृत् मुख्यैरुपेतो गुरुतारकौघैः । अनन्तलीलाकलितः किलास्ते गच्छो बृहद्गच्छ इति प्रतीतः ॥ (६८) तत्र चित्रचरितः परितापं हर्तुं मेघ इव भव्यजनानाम् । शिष्यवृद्धिकर संवर वानप्युज्वलोऽजनि गुरुर्मुनिचन्द्रः ॥
(६९) दुःषमाजलधौ येन मग्ना सुविहितस्थितिः । हेलयेव समुह धरित्रीवादिपोत्रिणा ॥ तच्छिष्य : - ( ७० ) पडिबोहिअमहिलओं निन्नासिअकुमततिमिरखरो । सचपबोहकरो जयउ जए देवसूरिरवी ॥ तावचिअ गलगजिं कुणंति परवाइमत्तमायंगा । चरणचवडचमकं न देइ जा देवसूरिहरी ||
(७१)
२६
10
९५३) तस्य चरितारम्भ: - * धन्याधारदेशे मड्डाहडपुरे वीरणागश्रेष्ठी प्राग्वाटज्ञातीयो वसति । तत्प्रिया जिनदेवी । साऽन्यदा स्वमे चन्द्रं मुखे विशन्तं ददर्श । अथ गुरूणां श्रीमुनिचन्द्रसूरीणामुक्तम् । तैरुक्तम् - चन्द्रवत्सौम्यः तो भावी । सा समये शुभदिने सं० ११४३ वर्षे वैशाखशुद्धदशम्यां सुतमस्त । पूर्णचन्द्र इति नाम कृतम् । कदाचिन्मड्डाहडेऽशिवमुत्पन्नम् । लोको दिशोदिशं गतः । वीरणागोऽपि भृगुकच्छे गतः । पूर्णचन्द्रस्तु अष्टवा - र्षिकः सन् शुष्कभक्षिकां विक्रीणाति । गुरवस्तत्रायाताः । स शुष्कभक्षिकां विक्रेतुं कस्यापि गृहे गतः । तद्गृहे15 शोऽपि निधानद्रव्यमङ्गाररूपं त्यजन् पूर्णचन्द्रेणोक्तः - स्वर्णं किं त्यजसि १ । तेनोक्तम् - मम भाग्यादङ्गारा जाताः, त्वं स्वकरे कृत्वा ममार्पय । तेनार्पितम् । धनिकेन कनकं दृष्टम् । धनिकेन शुण्डो भृत्वा स्वर्णस्यार्पितः । तेन पितुरर्पितः । पित्रा गुरूणामुक्तम् । सूरिभिरुक्तम् - एष न सामान्यः, यद्यस्माकं ददासि तदा प्रभावको भावी । पित्रोक्तम्-अहं वृद्धः; तथा एकमुतो निर्द्रव्यः । पूज्यानां च वचोऽन्यथा कर्तुं न शक्यते । गुरुभिरुक्तम्-मम तपोनानां पञ्चशत्यस्ति ते सर्वे तव सूनवः । स दयितां पृष्ट्वा पुत्रं गुरूणां ददौ । सं० ११५२ वर्षे दीक्षा । प्राज्ञ - 20 त्वात् समग्रशास्त्रपारङ्गतो जातः । रामचन्द्र इति नाम दत्तम् । स महावादी जातः । पूर्वं धवलकापुरे धन्धो नाम द्विजो जितः । काश्मीरदेशीयो द्विजः सत्यपुरे सागरो जितः । नागपुरे गुणचन्द्रो दिगम्बरो जितः । चित्रकूटे शिवभूतिर्भागवतो जितः । गोपगिरौ गंगाधरो द्विजः, धारायां धरणीश्वरः, पुष्करिण्यां पद्माकरः । इतो विमल'चन्द्र- हरिचन्द्र- पार्श्वचन्द्र-सोमचन्द्र-शान्तिकलश-अशोकचन्द्राद्याः सहायाः सञ्जाताः । गुरुभिः सं० ११६२ वर्षे पदे स्थापितः - देवर इति नाम जज्ञे । तथा वीरणागश्रेष्ठिना जिनदेवीसहितेन तथा सरस्वतीनाच्या पुत्र्या25 न्वितेन व्रतमात्तम् । पुत्र्याश्चन्दनबालानाम्ना गुरुभिर्महत्तरापदमदायि ।
१५४) अन्यदा धवलक्कके विहारे गताः । तत्र ऊदाश्रेष्ठिना श्री सीमन्धरप्रासादोऽकारि । तस्यायमभिप्रायःयत् सीमन्धरो यं कथयति तेन प्रतिष्ठां कारयामि । उपवासत्रयं जातम् । सङ्घो मिलितः । शासनदेवी स्मृता । कार्ये निवेदिते, देव्या उक्तम् - श्रीसङ्घः कायोत्सर्ग करोतु । तस्य बलात् देवी तत्र गता । श्रीसीमन्धरं नत्वा
* B सङ्ग्रहे एतच्चरितस्यारम्भः किञ्चिद्भिन्नपाठक्रमेणोपलभ्यते । यथा
मड्डाहम्मि नयरे निवसइ सेट्टी अ वीरणागु त्ति । सिरिपोरवाडवंसे जिणदेवी तस्स भज्जा य ॥
तयोस्तनूजः शुभस्वमसूचितो रामचन्द्र नामास्ति । अन्यदाऽवृष्टौ सत्यां दुर्भिक्षवशात् भृगुपुरे सुभिक्षं श्रुखा श्रेष्ठी तत्र गतः । रामचन्द्रस्तु नौवित्तवाक्यां वाणिज्याय यदपि तदध्यादाय याति । एकदा श्रीमुनिचन्द्रसूरयो विहारेणाजग्मुः । वीरणागो वन्दनायायातः । इतो रामचन्द्रेण षोडशवर्षदेशीयेन पौषधागारमागत्योक्तम्-तात ! मया चणकान् दत्त्वा तावत्यो द्राक्षाः समानीताः । गुरुभिर्लक्षणान्यवलोक्य श्रेष्ठी उक्तः श्रेष्ठिन् ! पुत्रो महाभाग्यवान्, त्वद् गृहे सन् तव कुलस्यैव द्योतको भावी; परं गृहीतदीक्षः सकलस्यापि जिनशासनस्य द्योतको भविता । ततः श्रेष्ठिना श्रेष्ठिन्या च क्षमाश्रमणं वृत्तम् । भगवन् ! सपुत्रयोरप्यावयोर्दीक्षया प्रसादं कुरु ।... ( इतोऽग्रे B सङ्ग्रहः खण्डितः )
Jain Education International
For Private Personal Use Only
www.jainelibrary.org