________________
देवाचार्यप्रबन्धः।
२५ ६५२) एकदा गूर्जरत्राधिपतिर्जयसिंहदेवो दिविजयं विधाय व्यावृत्तः कान्तीपरिसरे प्राप्तः। चिन्तितम्मम रणश्रद्धा केनापि नापूरि । “पुष्पेषु जाती नगरेषु कान्ती*...” सा तावद्विलोकनीया । परिग्रहोऽप्यनुत्साहोऽपि नृपमनुययौ । क्रमेण पुरीद्वारभूमावावासान् दत्वा स्थितः । मध्ये कोऽपि न वेत्ति । नृपेण बहिःस्थेन पुरीप्राकारे कनककपिशीर्षाणि दृष्टानि । प्रासाददण्डकलशैः सर्वसुवर्णमयी लंकेव भाति । सिद्धराजेन चिन्तितम्वयमविमृश्य प्राप्ताः । इतः सेनानीः सन्नद्धीभूय पुराद्धहिर्निर्गत्य फेरकं दत्त्वा मध्ये याति । अमात्येन पुरीरोधः 5 कृतः । सैन्यसामग्री च सर्वा विहिता । इतो मत्रिणा लेखद्वारेण नृपो विज्ञप्तः-देव ! किमपि सैन्यं द्वारि केनापि हेतुनाऽगतमस्ति । नृपेणोपरितनभूमिस्थितेन दृष्टम् । द्वारावलगकस्य प्रति वरूपपत्रमर्पितम् । मत्रिणा स्वरूपमालोक्य षोडशतुरङ्गमानपरवस्तु नृपयोग्यमर्पयित्वा माधवदेवद्वारावलगका प्रहितः। स सिद्धनाथं गतः। नृपेणोक्तम्-किमिदम् ? । मत्रिणाऽतिथ्यं भवतां प्रहितम् । प्राघुणका यूयं सत्कारार्हाः। नृपेणोक्तम्-वयमातिथ्यार्थिनो न, किन्तु युद्धार्थिनः । स तत् श्रुत्वा मत्रिणे निवेदितवान् । मत्रिणा नृपो विज्ञापितः । राज्ञा पत्रकेण द्वारि 10
। भव्यमेतत् । आगामि के मङ्गलवारे तव श्रद्धा पूरयिष्यावः। मत्रिणा द्वारि रणक्षेत्रं नृपस्य जयसिंहदेवस्य वचनात्सजीकृतम् । चतुर्दिक्षु वृक्षादि क्षत्रियैश्छिन्नम् । मत्रिणा युद्धार्थे सैन्यसामग्री कृता । नृपादेशमेव विलोकमानस्तिष्ठति । नृपस्तु किमपि न कथापयति । इतो निर्णीतदिनोपरि जयसिंहदेवेन जगदेवस्य परमारवंशोद्भवस्य पट्टबन्धः कृतः । पञ्चदश चान्येऽपि तत्सदृशाः सजीकृताः। इतो मङ्गलवारदिने नृपः प्रबुद्धो दन्तशौचं स्नानं शृङ्गारं च विधाय देवतावसरमकरोत् । तत्र प्रेक्षणीयं जातम् । पश्चाद्रसवती निष्पन्ना । भोजनं विधाय 15 ताम्बूलमादाय तुरगान् सजीकृत्य स्वयं सन्नाहं जगृहे । षोडश नार्यः सन्नाहं ग्राहिताः। तदनु ताभिर्युक्तो युवत्या धृतातपत्रो द्वाभ्यां वीजितवालव्यजनः स्थाने २ प्रेक्षणकान्यवलोकयन् पुर्यन्तरेवाष्टौ दिनानि कौतुकेनैव [निर्गम्य] नवमदिने बहिरायातः । इतो रणभूमौ पटो विधृतोऽन्तरा तावजयसिंहदेवसुभटाः सन्नह्य समाजग्मुः । यावपटोऽपाकृतः, तावन्नारीवेष्टितं नृपं दृष्ट्वा जगदेवाद्याः पश्चाद्ववलुः । नृपेणोक्तम्-किमिति भनाः स्थ । जगदेवेनोक्तम्-केन सह युध्यते । स्वयमवलोकयतु देवः। तावजयसिंहदेवः स्वयं सम्मुखे धावितस्तुरङ्ग मुक्त्वा पाद-20 चारेण । मदनब्रह्मनृपोऽप्युत्तीर्णः । द्वयोरालिङ्गने जाते द्वयोरपि प्रीतिर्जाता । प्रवेशमहोत्सवे जायमाने सिद्धनाथस्त्वनेकानि कौतुकानि विलोकयन्ननेकानि वाद्यानि शृण्वंश्च राज्ञा समं प्रतोल्यामागतः। एवं नवभिर्दिनैश्चन्द्रज्योत्स्नातटाकिकायां प्राप्तौ । तत्र स्नातौ । सुवर्णवेष्टितपादपां धारागिरिवाटिकामवलोकयन्तौ धवलगृहद्वारमायातौ । मत्रिणा कारितमङ्गलोत्सवौ धवलगृहं प्राप्तौ । सिद्धनाथस्तु सर्वरमणीयतामालोक्य ग्रामीण इव विस्मयातुरः स्थितः । भोजनाद्या सर्वा सामग्री तथा जाता यथा बाढं चेतसि चमत्कृतः । मासान्ते मुत्कलापयामास 125 राज्ञा हस्त्यश्वादीन्युपढौकितानि । जयसिंहदेवस्तु पात्राष्टकं ययाचे । नृपेणार्पितम् । राजा मुत्कलाप्य पत्तनोपरि चलितः । पात्राष्टकं यावत्पुरप्रतोल्यामागतं सुखासनादि संहृत्य......तावनिर्गमे उक्तम्-अग्रे पत्तनं क्व । जनैरुक्तम्-'पत्तनं दूरे' इति श्रुत्वा षण्णां हृदयसङ्घहो जातः । इतो द्वयस्योपर्याच्छादनं दत्तम् । द्वयं जीवितम् । तन्नृपेण सह क्रमेण पत्तने प्राप्तम् । माऊनाम एकस्याः, परस्साः पेथू । अद्यापि माऊहराणि पेथूहराणि च पात्राणि श्रूयन्ते । एवं श्रीजयसिंहदेवः कान्तीं गत्वा समायातः॥ इति मदनब्रह्मनृपतेर्जयसिंहदेवस्य प्रीतिप्रबन्धः॥ 30
१६. अथ श्रीदेवाचार्यप्रबन्धः ( BR.); (६५) वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्यान्ते सुखप्रश्नेषु साधवः ॥ (६६) नग्नो यत्प्रतिभाधर्मात् कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवमूरिMदेऽस्तु सः॥
अत्र पद्यस्य पूरणार्थे मूलादर्श तत्प्रमाणा पंक्तिः रिक्ता मुक्ताऽस्ति ।
पु०प्र० स० 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org