________________
पुरातनप्रबन्धसङ्घहे असाकं पुरे एष देवो मुख्यः । नृपस्तु मध्ये गत्वा देवं नमस्कृत्य ध्वजर्जा प्रासादोपरि दृष्ट्वा जनानाह-मया मालवे रुद्रमहाकालं विना ध्वजा क्वापि न दृष्टा । अतः कथमत्र ? द्विजैरुक्तम्-उत्तारके चलत यथोच्यते । ततो नृपतिर्ब्रह्मदेवकुले गत्वोत्तारके गतः। तदनु ब्राह्मणैः श्रीयुगादिदेवभाण्डागारात्कांस्यतालार्द्ध गोष्ठिकैरानीय नृपाय दर्शितम् । देव ! असौ स प्रासादो यत्रैवं कांस्यतालान्यासन् । एवं प्रासादाः २१ सकलशा भूगताः सन्ति । एष 5 द्वाविंशतितमः । नृपस्तु चमत्कृतः । देवायाधिकं ग्रासं दत्त्वा पत्तनं गतः ॥ इति धाराध्वंसप्रबन्धः ॥
१४. सिद्धराजौदार्यप्रबन्धः (B.) ६४९) अथैकदा गुप्तिस्थाय यशोवर्मनरेश्वराय सिद्धराजेन पत्तनं दर्शितम् । तेन प्रासादपरम्परां दृष्ट्वा उक्तं च-देवासाकं वैरं सुखेन वलिष्यति । कथम् ? । एषु देवकुलेषु मानातीतो ग्रासोऽस्ति । पाश्चात्यास्तं लोपयिष्यन्ति । __ अतो देवद्रव्यभक्षणाद्विनश्यन्ति । सहस्रलिङ्गं दृष्ट्वा प्राह-वयं देवद्रव्यभक्षकाः, यूयं शिवस्नातजलपायिनः । अत 10 एवावां तुल्यौ।
(६४) न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् ।
__ अच्छोदमच्छोदकमप्यसारं सरोवरे राजति सिद्धभर्तुः ॥ ६५०) अथैकदा सिद्धनृपतिनगरचरितं ज्ञातुं छन्नं भ्रमति स्म । व्यवहारगृहश्रेणौ एकमिन्नावासे बहून् दीपानालोक्य प्रातस्तस्याकारणं प्रहितम् । तेन भयभीतेन कारणं पृष्टम् । आकारकेणोक्तम्-नाहं जाने । स गतः। 15 नृपेण पृष्टम्-कियन्तस्ते गृहे दीपाः । तेनोक्तम्-चतुरशीतिः। नृपेण भाण्डागारात्षोडशलक्षान् दत्त्वा ध्वजा कारिता, दीपका विध्यापिताश्च ।
१५. मदनब्रह्म-जयसिंहदेवप्रीतिप्रबन्धः (B.) ६५१) कान्तीपुरी सर्वपुरश्रेष्ठा । तत्र चतुरशीतिश्चतुष्पथानि । चतुरशीतिज॑नाः प्रासादाः । तावन्तो माहेश्वराः । तावन्त्यो वाप्यः । ८४ उद्यानानि । ८४ सरोवराणि । एवं ८४-८४ स्थानानि । तत्र मदनब्रह्मा राजा । 20 तस्य धवलं गृहम् । योजनप्रमाणः प्राकारस्तत्र धवलगृहं सप्तदशभूमिकम् । तस्य पाश्चात्यप्राकारमध्ये सर्वऋतूपयोगि उद्यानम् । तत्र सप्तदिश] भूमौ गवाक्ष ४ । आदौ विमानविभ्रमः पूर्वस्याम् । उत्तरस्यां कैलाशहासः । दक्षिणस्यां पुष्पाभरणः । पश्चिमायां गन्धर्वसर्वस्वः । एते चत्वारो मुख्या गवाक्षाः । सर्वे स्वर्णमयाः । नानाकौतुकोपशोभिताः । अपरे ११६ । एवं १२० तदुर्गे । वाप्यश्चतस्रश्चतुर्दिक्षु । क्षीरोदवापी १, कमलकेदारा २, हंसविश्राम
वापी ३, सुधानिधिः ४ एवं । तदनु पुरमध्ये चन्द्रज्योत्स्ना तटाकिका धवलगृहप्रवेशप्रत्यासन्ना नानारत्ने 25 तस्याश्चतुर्दिक्षु वाटिकाधारागिरिः सर्वञपयोगिभिवृक्षविराजितः । तस्य राज्ञोऽन्तःपुरसहस्र ५। एवं ३६००० पिंडविलासिन्यः । मुख्यदेव्यश्चतस्रः । बावन १, [चन्दना २,] सुमाया ३, सींघण ४ । बावनदेवीवाहिगि-सुगति १, हंसगति २, सुललित ३, लीलावती ४ मुख्य । चन्दनावाहिगि ४ साऊ १, सुसीला २, दक्षमणी ३, वल्लभा ४। सुमयावाहिगि ४-कांऊ १, कपूरी २, कामल ३, कस्तूरी ४ । अमृतमयी १, अमृतवत्सला २, वचनवत्सला ३, सहसकला ४-सींघणदेवीवाहिगि । मेरी १, हम्मीरी २, फतू ३, फलू ४-एता मुख्याः राज्ञः 30 प्रसादपात्राणि । आलि १, आलति २, अलवि ३, अलवेसरि ४, वीलू वामणी कौतुकपात्राः । गज ३३३०, तुरंगम लक्ष ५, पदाति लक्ष २१ । सर्वमत्रिश्रेष्ठो माईदेवः सर्वमुद्राधिकारी । सेनापतिः सांईदेवः । बारऑलगउ माधवदेवः । तथा वर्षमध्ये सर्वावसरः २-एको महानवम्याम् , अपरश्चैत्राष्टम्याम् । एवमिन्द्रसमानो राज्यं पालयति । सोलही सोल १६ नृत्यं सदा नृपाग्रे कुर्वन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org