________________
२३
धाराध्वंसप्रबन्धः। ६४५) अन्यदा डाहलदेशीयकर्णमात्रा देमतया सिद्धयोगिन्या प्रहरं यावत् शुभलग्नकृते प्रसवसमये कपालासनेन गर्भो धृतः । कर्णो जातः । सा तु मृता । शुभलग्नप्रभावात् षट्त्रिंशदधिकशतराजचक्राधिपत्ये क्रियमाणे राजा रोदिति । मत्रिभिः कारणं पृष्टम्-"मा स्म सीमन्तिनी काचित् ॥”
६४६) अन्यदा श्रीकर्णेन श्रीभोज प्रति कथापितम् यत् भवतश्चतुरुत्तरशतं प्रासादाः, गीतबद्धप्रबन्धाश्च वर्त्तन्ते । अतस्तुरगद्वन्द्वयुद्ध-विद्यात्यागयुद्धेन मां विजित्य एकं प्रासादं प्रबन्धाधिकसुररीकुरु । ततः पंचाशद्धस्त- 5 प्रासादप्रतिज्ञायां भोजे जिते मत्रिभिराहूयमाने शरीरापाटवे सति घाटमार्गेषु बद्धेषु रुद्धेषु श्रीभीमेन श्रीकर्णस्य शुकचरणेन कृत्वा लेखः प्रस्थापितः । “अंबय फलं०॥” इति योगपद्येन मालवभंगे कृते भागहेतो मरेण श्रीकर्णो बन्दी कृतः ॥ इति विविधा भोजनृपप्रबन्धाः॥
१३. धाराध्वंसप्रबन्धः (B.) ६४७) मालवमण्डले उजयिनी पुरी अपरा धारा । तत्र राजा यशोवर्मा । इतश्च पत्तने श्रीजयसिंहदेवः । स 10 मालवं जेतुं प्रयाणमकरोत् । समीपभूमौ गतः प्रतिज्ञामकरोत्-यद् धारां लात्वा भोक्ष्ये । इतो धारायां गव्यूति ५ मध्येऽयोमयाः क्षुरिकाः क्षिप्ताः सन्ति । प्रतोल्यो दत्ताः । कपाटेषु योजितेषु सम्मुखानि नाराचानि । तत्र गजस्याप्यवकाशो नास्ति । धारायाः प्रत्यासन्नैरपि भवितुं न शक्यते । अथ सिद्धराजप्रधानैः कणिकाया धारा कृता। तस्या भङ्गे ५०० परमारा युद्धा मृताः। द्वादशवार्षिके विग्रहे सिद्धनाथे खिन्ने बर्बरको वेतालः प्राह-देव ! यदि यशःपटहः करी किराडूवास्तव्यो जेसलपरमारस्तत्र प्रेष्यते, गजारूढेन तेन धारा गृह्यते अन्यथा न । राज्ञोक्तम्-15 स करी कास्ते ? । कान्त्यां मदनब्रह्मनृपतेरस्ति । जयसिंहदेवस्तु कियता परिकरेण तत्र गतः । वर्षाकालोऽस्ति । पुर्या द्वारे स्थितः। मांइदेवमत्रिणो मिलितः। आदिश्यतां कार्यम् । नृपदर्शनमवलोक्यते । नृपो महानवम्यां विना दर्शनं न ददाति । जयसिंहदेवः स्थितः । इतो गाढे धर्मेऽभिजायमाने नृप उपरितनभूमौ आकाशे प्राप्तः । पुरमवलोक्य पुराद् बहिदृशं ददौ । मदनकपटैः कृष्णान् चतुरकान् दृष्ट्वा प्राह-अरे ! पूरे किमिदं दृश्यते ? । देव ! गूर्जरत्रानृपतिर्देवदर्शनार्थी प्राप्तोऽस्ति । अरे! नृपो न किन्त्वेष कबाडी । य एवंविधे वर्षाकाले भ्राम्यति । 20 आकार्यताम् । जयसिंहदेवस्तूपायनमादायाययौ । श्रीमदनब्रह्मेण राज्ञा सत्कृतः। आगमनकारणं पृष्टम् । राज्ञोक्तम्-यशःपटहः करी विलोक्यते । किमर्थम् ? । देव! तेन विना द्वादशवार्षिको विग्रहो न भज्यते । राज्ञोक्तम्-गजानानयत । जनैरुक्तम्-प्रसिद्धानां मध्ये स नास्ति । सिद्धराजः कृष्णवदनो जातः । इत एकेनाधोरणेनोक्तम्-देव! स यशःपटहः करी । तं समानाय्यत । नृपेणोक्तम्-यद्यमुना कार्य सरति तदा गृहाणान्येपि हस्त्यश्वादयः। देव ! पूर्णमनेनैव । राजा परिधाप्य करिणं दत्त्वा चोक्तम्-अतः परं विग्रहो न कार्यः। यतः 25 खल्पायुषि जीवलोके राज्यस्य सौख्यं नानुभूयते तत्तस्य को गुणः । नृपस्तु धारायां गत्वा सगौरवं जेसलपरमार आहूतः । तं दृष्ट्वा चारणेनोक्तम्
(६३) तुह मुंडिए घणेहिं धार न लीजइ कर्णउत्त।
जिम जे हेडे(?)प्रऊंचेहि जोइ न जेसल आवतउ । स यश पटहमारुह्य प्रतोली गतः। कपाटयो राचानि सम्मुखानि तैः करी विध्यते । स पश्चात् स्थितः। जेस-30 लेन हक्कितः । करी कुपितः । कपाटाध ईषत् शुण्डाप्रवेशं प्राप्योद्धृतवान् । प्रतोली अतिबलेन पतिता । धारा गृहीता । नृपतिर्यशोवर्मा धृतः । श्रीजयसिंहदेव उपकारिणो जेसलस्यौद्धदेहिकं कृत्वा वलितः।
६४८) यावत्क्रमेण वृद्धनगरमायातस्तत्र ब्राह्मणैः प्रवेशोत्सवे कारिते श्रीयुगादिदेवप्रासादाग्रे नृपे प्राप्ते, द्विजैरुक्तम्-देव! देवं नमस्कुरुत । किमसौ ब्रह्मा ? । देव! असौ युगादिदेवप्रासादः । किमत्रापूर्वम् ? । देव !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org