________________
२२
15
पुरातनप्रबन्धसङ्ग्रहे वानमुपभुक्तम् । तत्प्रभावात्सारखतमजनि । राज्ञो मानपात्री सीता पण्डिता जाता । एकदा राज्ञा तस्याः स्तनयुगं वीक्ष्यापाठि
(६०) किं वर्ण्यते कुचद्वन्द्वमस्याः कमलचक्षुषः। सप्तद्वीपकरग्राही भवान् यत्र करमदः ॥
सीतया उत्तरार्द्ध पठितम् । तथा राज्ञा पुनः पठितं-"सुरताय नमस्तस्मै० ॥” अन्यदा तया जालान्तरे 5 चन्द्रकरस्पर्शे इदमपाठि-"अलं कलंकशृंगार०॥"
६४१) अन्यदा राजपाटिकायां गच्छतो राज्ञो भोजस्य सर्वैरपि नमो विहितम् । परमेकेन पुरुषेण हट्टमध्यस्थितेन राजा न नमस्कृतः। ततो राज्ञा तत्सम्मुखमालोकितम् । तेनांगुलित्रयमूर्वीकृतम् । राज्ञा चिन्तितम्-किमनेनांगुलित्रयेण का सञ्ज्ञा विहिता । द्वितीयदिने तथैव तेनांगुलिद्वयम् , तृतीयदिने एकांगुलिः । आकार्य
राज्ञा पृष्टम् । तेनोक्तं-राजन् ! दिनत्रयं चूणिरस्ति, किं राज्ञा । इति तुष्टेन तस्मै वर्षाशनं दत्तम् । 10 ६४२) केनापि पण्डितेन श्लोकद्वयमिदमपाठि
__"ग्रासादर्द्धमपि ग्रासमर्थिभ्यः॥१॥” “यदनस्तमिते सूर्ये० ॥२॥" एतत् द्वयमपि राज्ञा भोजेन कुण्डलयोः समुत्कीर्णम् । द्वयस्यापि दाने लक्षद्वयी दत्ता। ६४३) श्रीभोजेन सिद्धरससिद्धिहेतोः सुवर्णसप्तकोटी क्षिताः। रत्तिकामात्रापि न सिद्धिरजनि । ततो रसविडम्बननाटकममण्डि । तत्र पात्राण्यागत्य विजल्पन्ति
(६१) कालिका नट्ठा नट्ठा कस्स कस्स नागरस वा वंगस्स वा।
नहि नहि धम्मंत फुकंत अम्ह कंत सीसस्स कालिम... ॥१॥ इति राजा हसति । अत्रान्तरे सिद्धरसयोगी तनिशम्य समागतः । प्रदीपिकाधूमवेधेन राज्ञस्ताम्रमण्डिका सुवर्णीकृता । राज्ञा दृष्टं किमेतदिति ? भ्रान्तेन नाटकनिवारितम् । राज्ञोक्तं तदा भोक्ष्ये यदा स सिद्धयोगी मिलिष्यति । एवं दिनत्रयेण मिलितः । तेनोक्तं-राजन् ! रसो दैवतम् ।
(६२) अत्थि कहंत किंपि न दीसइ। [नस्थि] कहउ त सुहगुरु रूसइ । जो जाणइ सो कहह न कीमइ । अजाणं तु वियारइ ईमइ ॥
__ इत्यवगत्य मानितः। ६४४) श्रीभोजेन लोकोपकारकरणाय सप्तोत्तरशतवैद्यग्रासो विहितः। चतुष्पथचत्वरके जयघण्टा बन्धापिता। इत्युक्तं च-रोगिणा घण्टा वादनीया । यथा वैद्या मिलन्ति, चिकित्सां कुर्वन्ति च । अपरं च रोगिणा बलहट्टेषु 25 भेषजान्नादि ग्राह्यम् । एवं कियति काले गते सति एकदा कोऽपि जलोदरी समेतः। घण्टारवादागतेन भिषजाऽसाध्यः कथितः । ततो रोगी राज्ञो मिलितः । राज्ञापि कृपयोक्तं वैद्या! अमुं जीवयत । राजन् ! असौ न जीवत्येवास्माभिः । इत्युक्ते दीनारपंचशतीं दत्त्वा रोगी प्रस्थापितः। स निदाघे मध्यन्दिने सार्थरहिते पथि वटच्छायायां विश्रामायागमत् । तत्र सर्प एक आगच्छन् तदुर्गन्धेन नष्टः। स च विषि(ष)ण्ण आत्ममरणाय पृष्ठे धावितः। ततस्तेन सर्पवान्तगरललिप्तार्कपत्राणि भक्षितानि । तैर्विरेको लग्नः । ततः कयाचिन्नायिकया स्वगृहं 30 नीत्वा निरामयो व्यधायि । पुनावृत्त्य घण्टारवो विहितः। तन्नादागतैषिग्भिस्तं सजं वीक्ष्य प्रोक्तं-त्वया कथं
घण्टारवोऽकारि । तेनोक्तं-मम राजैव वेत्ति । तैस्तत्रानीतः सः। राज्ञा पृष्टः-को रोगोऽस्ति ? । तेनोक्तं-अहं वैद्यमुक्तः स एव जलोदरी । त्वत्प्रसादाजीवितः । किमेतदिति दोषज्ञवैद्यमुख्येनोक्तं स एवायम् । परमेकौषधसाध्य एव । तदौषधं कर्मयोगेनैव मिलितम् , नार्थेन । किमौषधम् ? । राजन् ! निदाघमध्याह्ने कृष्णसर्पवयंमुक्त
गरललिप्तान्यर्कपत्राण्येव । तदौषधं विना यदि जीवितो भवति तदा मम काष्ठानि । इत्युक्ते राज्ञा पृष्टं-किमहो। 35 तेनोक्तमेवमेव । ततो राज्ञा द्वयस्यापि प्रसादो दत्तः।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org