________________
भोजदेव-प्रबन्धाः ।
२१
स एव राजा भविता । इति निर्णीते दिने कस्यापि सौधस्योपरि पतिः कृष्णः पत्नी गौरीति वीक्ष्य राज्ञः समस्या समुत्पन्ना-‘दुल्लउ सामलउ धण चंपावन्नी ० ।' केनाप्यपूरिते भोजेन पठता पूरितेति - 'छज्जइ कणयारह कसवट्टइ दिन्नी० ।' पण्डितेनोक्तम् - मया पूरिता । सा राज्ञो दर्शिता । अर्द्धराज्ययोग्यं तं ज्ञात्वा भोजं विहाय यावत् युवराज्याभिलाषश्चिन्तयति, तावज्जालन्धरेण राज्ञी सुनाता प्रोक्ता । ततो निर्घृणशर्मा मारणायार्पितः । भोजेनोक्तम्- “मान्धाता स महीपतिः ० ।” इति तुष्टेन पुनर्मोचितः ।
5
९ ३७) अन्यदा श्रीभोजेन श्रीपत्तनाधिपतेः श्रीभीमस्य गाथाहस्ताः पण्डिताः प्रेषिताः । तथा गाथा“हेलानिद्दलिय॰ ।।” तत्प्रत्युत्तरेऽजायमाने नृपो विषि (प) ण्णो जातः । पण्डितैस्ततो विगोपनाय गाथायां संस्कार्यमाणायां सूरिभिरुक्तं - जीवमाना कथं मार्यते । भविता भवतां स्त्रीहत्या । इति निषिद्धे राज्ञा सन्मान्य गुरवः प्रत्युत्तरं पृष्टाः । तथा चोक्तं- "अंधयसुयाण कालो० ॥” इति प्रत्युत्तररुष्टेन भोजेन पत्तनोपरि बाह्यावासा दत्ताः । श्री भीमेन तत्परिज्ञाय डामरनामा सान्धिविग्रहिकः प्रहितः । राज्ञा भोजेन तं कुरूपं वीक्ष्य हसितम् । उक्तं च- 10 “ योष्माकाधिप० ।।" ततो राज्ञा स्नानोत्तीर्णेन गलद्भिः केशैः पृष्टं - मत्रिन् ! भीमडाको नापितः किं करोति । तेनोक्तं-अश्वपति - गजपति - नरपति नृपत्रयस्य शिरांसि भद्रितानि । चतुर्थस्य शिरसि सार्द्रीकृते क्षुरमा - चालयन्नस्ति । रञ्जितेन कौतुकिना राज्ञा स कौतुकवादी आत्मनः समीपं स्थापितः । नित्यं कौतुकवक्तृत्वेन राजानं रञ्जयति । अन्यदा राजविडम्बननाटके कारिते भीमे रूपे मार्दंगिके मृदंगं वाद्यमाने राज्ञोक्तं - मन्त्रिन् ! भीमडाकस्य करौ मृदंगपुटे भन्यौ पततः । तेनोक्तं - देव ! पुरा भीमेन पार्वतीपुरस्ताण्डवे क्रियमाणेऽभ्यस्तम् । एवं 15. विधावेव भीमस्य करौ कठोरौ वर्त्तते । अन्यदा तैलपदेवरूपे समागते मन्त्री प्रोक्तः - मत्रिन् ! भवद्देशीयोऽयं राजा उपलक्ष्यताम् । एवमुक्ते तेनोक्तं- अभिज्ञानं नास्ति । " मत्स्वामी तैलपदेवो यदि ० ||" इति प्रोक्ते रुष्टेन राज्ञा पितृव्यवैरीति तदैव सैन्यं तैलपदेवस्योपरि चालितम् । चलिते राज्ञि मत्रिणोक्तं - राजन् ! श्री भीमः पाष्णिघातं विधास्यति । राज्ञोक्तं- यात्वा वारय । वचनेन न स्थास्यतीत्युक्ते ततः अश्वसहस्र ४, जात्यगज ४, सुवर्णलक्ष ९एतत्सर्वं प्राभृते प्रेषितम् । मत्री सार्थे गृहीतः । तस्यैव बुद्ध्या योजन १६ शिक्षितगतिभिर्नवभिः तुरगसहस्रैः 20 पाद्रदेवतां नमस्कुर्वन् तैलपदेवो धृतः ॥
I
९३८) एकदा मन्त्रि डामरस्याग्रे उक्तं- विद्वान् यावान् लोकः श्रीमालवकेऽस्ति, न तादृशोऽपरदेशेषु । ततो डामरेणोक्तं- नृप ! यादृशो लोको गोपाल-वेश्यादिको विद्वानस्ति गौर्जरे, न ताहगत्र । नृपो मौनेन स्थितः । डामरेण चिन्तितं - राज्ञा धूर्त्तत्वेन स्थितम् । पुनः कदाचिदेषा वार्त्ता कर्त्ता । अतो भाणितं स्वनृपाये । यदेका विदुषी स्त्रीण्डिता देशसीमायां स्थाप्या । एको विद्वान् गोपालरूपो देशसीमायां स्थाप्यः । ततोऽन्यदा भोजे - 25 नोक्तं - आनयत । प्रधानैरानीतौ तावेव । प्रथमभेटायां राज्ञोक्तं-भण पण्डित ! वर्णय किंचन । स आह"भोयराय गलि कांठुलउ भण० ||" प्रशंसितो राज्ञा । सा उक्ता-इह किं । साह - "पृच्छंति० ॥"
(३९) अन्यदा निशीथे भोजराज्ञा परिभ्रमता कुलचन्द्र नामा क्षपणक एवं पठन् श्रुतः- “ तिक्खा तुरिअ न मा० ॥" "नव जल भरिआ० ||" ततो राजा निजपुत्रीस्वरूपं दृष्ट्वा प्रातराकार्य गूर्जरदेशोपरि सेनाधिपत्यं दत्तम् । तदा तेनोक्तम् - "देव दीपोत्सवे ० ॥" ततो गूर्जरदेशो विनाशितः समग्रोऽपि । श्रीपतनचतुष्पथे 30 कपर्दका उप्ताः । ततस्तस्यागतस्य राज्ञोक्तम् - रम्यं न कृतम् । अद्यप्रभृति मालवदेशदण्डः श्रीगूर्जरं यास्यति । कपर्दका मालवदेशीयनाणकम् ।
(४०) धारानगर्यां सीता नाम रन्धनी । केनापि दूरदेशान्तरिणा तस्या गृहेऽन्नं कारितम् । तया निशि घृतकुम्पकव्यत्ययेन कांगुणीतैलकुम्पकात् तैलं परिवेषितम् । स मृतः । तं तथा विलोक्यापवादभीतया तया तदे
Jain Education International
For Private Personal Use Only
www.jainelibrary.org