________________
पुरातनप्रबन्धसङ्ग्रहे।
११. भोज-गाङ्गेययोः प्रबन्धः (B.) ३४) एकदा वाणारसीपतिः श्रीगाङ्गेयकुमारो गजसहस्र १ शत ४ एवं १४००, तुरङ्गमलक्ष ३ जीणसालानि , द्वयं उद्घाटं एवं लक्ष ५, मनुष्यलक्ष २१; एवं सामग्र्या मालवपतिं भोजं प्रति चचाल । गोलातीरे
आवास्य स्थितः। इतो भोजनृपोऽपि तुरङ्गसहस्र ४४, मनुष्यलक्ष ५, गज २०० एवं सामग्र्या सम्मुखो गोदावरी5 तीरे आवासान् ददौ । इतो गाङ्गेयस्य पण्डितेन परिमलेन भोज प्रति 'बकोटति' काव्यं प्रहितम् । नृपः कुपितः । परं किं कुरुते । इतो भोजेन काष्ठधवलोपरि स्थित्वा विलोकितम् । बहु सैन्यं दृष्ट्वा छित्तिपमहामात्यं सन्ध्यर्थमप्रैषीत् । स तत्र नृपसदसि गतः। नृपेणोक्तम्-अरे ! तव स्वामी मत्सैन्यं न पश्यति, यदभिमुखः समाययौ ? । देव ! सैन्यस्य को गर्वः । इति वार्त्तायां सत्यां कटके कलकलं नृपोऽश्रौषीत् । पृष्टम्-रे! किमिदम् ? । देव ! हस्ती परवशो जातस्तस्य कलकलोऽयम् । नृपस्तदाकर्ण्य उत्थाय काष्ठपञ्जरे प्रविश्य भुजार्गलां ददौ । छित्तिपस्तु 10 शनैरपसृत्य 'कथमिहे'त्यार्या वाणहीतले इङ्गालेन लिखित्वा जनमप्रेषीत् । स उपानहं नृपायादर्शयत् । नृपः
सज्जीभूय गाङ्गेयसैन्ये पपात । सर्वमात्तम् । नृपोऽप्यन्तस्थो धृतः । सुवर्णनिगडे क्षिप्त्वा गजमधिरोप्य धारायामानीतः। धवलगृहेऽपरे सिंहासने निवेशितः। पण्डितपरिमलोऽपि राजवर्गेण सहायातः। राज्ञा भोजेनोक्तम्पं० उपविशत । परमासनं न मोचयति । "इह निवसति मेरुः शेखरो भूधराणां०" । भोजेनोक्तम्-कोटकः (१)।
किं तस्य चरितें(तं) । मं(पं)डितेन "अयं वरामेके०" इति उक्त "जन्मस्थानं न खलु विमलं०" इत्युक्तवता15 पण्डित उक्तः-पारितोषिकं याचस्व । देव! अयं नृपतिर्मुच्यताम् । भोजेन सिंहासने निवेश्य तिलकं कृत्वा पुनर्वाणारसीराज्ये प्रहितः ॥ इति भोज-गाङ्गेययोः प्रबन्धः॥
१२. भोजदेव-सुभद्राप्रबन्धः (B.) - ६३५) इतो गोपगिरीश्वरो नरवर्मदेवस्तत्सुता सुभद्रा । सा भोजराजस्य 'अभिनवार्जुन' इति विरुदं पठ्य
मानं श्रुत्वा जनकं पाह-तात! मां प्रेषय । भोजो राधावेधं कृत्वा मां परिणयते, विरुदं वा मुञ्चति । सा 20 निर्बन्धे जनकमापृच्छय तुरगसहस्रैर्द्वादशभिः सह चचाल । नृपाग्रे कथापितम्-यदहं त्वां वरीतुमागतेति । श्रुत्वा
नृपश्चिन्तातुरो जातः । सा तु गोदावरीतीरमेत्य स्थिता । राधावेधं कुरु बिरुदं वा त्यज । एवं श्रुत्वा नृपः सम्मुखं प्रयाणमकरोत् , अभ्यासमारब्धवांश्च । सर्वः कोऽपि कौतुकान्वेपी सन्धेर्वार्तामपि को न विधत्ते । षण्मासान्ते तया कन्यया भतिः साहसमवलम्ब्य गोदावरीतीरमायातस्तत्र राधावेधो मण्डितः । तस्याधस्तैलकडाहिरुत्कलति । नृपस्तस्यास्तीरे स्थाने स्थितः । कवीन्द्र नावनमारब्धम् । तत्र वृद्धसरस्वतीति नाम्नाऽ25 चार्या नृपसेवकाः सन्ति । “तैर्विद्धा विद्धा शिलेयम्" इत्युक्तम् । नृपेण राधावेधे कृते कन्यया वरमाला क्षिप्ता । नृपेण काव्यस्य दूषणं पृष्टे कोऽपि न वेत्ति । नृप आह-"विद्धा विद्धा" इति मत्वा मया चिन्तितम्-मम कार्य सृतम् । “भवतु कार्मुकक्रीडितेन" अनेन भोजस षण्मासान्ते मृत्युः । स्वामिन्निति । प्रसीदेति । असदाचार्याणां षण्मासमायुः । “धारा ध्वस्ता" इति प्रकटम् । मालवश्ाप्रधानो विनंक्ष्यति । तदनु सा परिणीता । षष्ठे मासे
नृपोऽतीसारान्मृतः । सुभद्रया सहगमनं कृतम् । 30 (G.) सङ्ग्रहगतं भोजनृपवृत्तम् ।
३३६) *.........भोज जातके "पंचाशत्पंच वर्षाणि" इति श्लोके तेन गणको निषिद्धः । इतश्च मुझेन स एष गणका सन्तानहेतोः पृष्टो भवान् अपुत्र एवेत्यवादीत् । श्रावणसुदि पंचम्यां प्रथमप्रहरे यो भवत्समस्यां पूरयिता
* एतस्य सङ्ग्राहस्यात्रैकं पत्रं त्रुटितं तस्मिन्नस्य वृत्तस्य कियान् भागो नष्टः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org