________________
नीलपटवध-प्रबन्धः।
नृपेण चिन्तितम्- नैष सामान्यः । प्रातराहूय उक्तः- तव किं नाम ? । देव ! कुलचन्द्रः।
(५४) देव ! दीपोत्सवे रम्ये प्रवृत्ते दन्तिनां मदे । एकच्छवं करिष्यामि सगौडं दक्षिणापथम्॥ राज्ञा गृहिवेषं ग्राहितः । इतो राजकुमारी तमिन्ननुरक्ता जाता । सा एकदा वर्षारात्रौ प्राह
(५५) नव जल भरिआ मग्गडा सजल धड्डुक्का मेहु।
इअ वारि जइ आविसिइ तउ जाणीसिइ नेहु ॥ द्वारस्थेन श्रुतम् । स कटकमादाय गूर्जरत्रोपरि गतः। पत्तनं भनम् । नृपस्तु नंष्ट्वा गतः । वलमानस्य स्तम्भनकाचार्यैर्घाटे रुद्धे, घाता जाताः । तेन सङ्कटस्थेन भोजं प्रति पत्रिकामादाय [ नरः] प्रहितः। तत्र(५६) विस्फारस्फारधन्वा मृगयुरनुपदं पार्श्वयोवदाघः
क्ष्वेडानादः पुरस्तात् तपति च तपनो मूर्ध्नि तापर्तुतीव्रः । अन्तःशल्यं शिरस्सु स्थपुटगिरिनदी दुस्सहा क्षुद् तृषार्ति
__10 दुर्दैवादद्य जातं व्रजतु हि हरिणः कां दिशं कांदिशीकः ॥ राज्ञा दृष्ट्वा 'का' स्थाने 'किं' कृत्वा प्रहितः । स तु युवा मृतः॥ इति कुलचन्द्रप्रवन्धः ॥
९. षड्दर्शनप्रबन्धः (B. Bk.) ६३२) एकदा श्रीभोजराजेन दर्शनानि सम्मील्य उक्तम्- मोक्ष एकः पन्थानः पञ्च । एकसम्मती भव । लचिताः । कः कं मन्यते । कः कं न । इतस्तैर्नृपो विज्ञप्त:-देव! देवी भारती षड्दर्शनानां सम्मता । सा तव 15 प्रत्यक्षाऽस्ति तां पृच्छ । नृपेण उपोषितेन पूजापूर्व प्रत्यक्षीकृता । देवी उवाच- कथं स्मृता । नृपेणोक्तम्मम तथ्यं कथय, कस्सिन्मार्गे यामि । देवी आह(५७) श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनराहतः।वैदिको व्यवहर्त्तव्योध्यातव्यः परमः शिवः॥ इत्यभिधाय देवी अदृश्याऽभूत् । प्रातर्नृपेण सर्वे सम्भूय सत्कृत्य प्रहिताः ॥ इति षड्दर्शनप्रबन्धः॥ १०. नीलपटवध-प्रबन्धः (B.)
20 ६३३) श्रीभोजराजवारके नीलपटा दर्शनिन आसन् । ते तु, एका स्त्री एकः पुमान् नीली दोटी प्रावृत्य मध्ये ननीभूय विजहतुः। एकदा धारायां प्राप्तास्तत्रापूर्वान् दृष्ट्वा सर्वः कोऽपि तेषां समीपे याति । ते त्वित्थं प्ररूपयन्ति-वयमीश्वरस्य तथ्याः सन्तानिन अर्द्धनारीश्वरत्वात् । इतश्च कौतुकाद् भोजपुत्री समागमत् । कर्त्तव्यं पृष्टम् । तैरुक्तम्
(६८) पिव खाद च चारुलोचने ! यदतीतं वरगात्रि! तन्न ते ।
नहि भीरु ! गतं निवर्त्तते समुदयमात्रमिदं कलेवरम् ॥ तया व्याहृतम्-भवन्मतमङ्गीकरिष्ये । नृपं मुत्कलापयितुं गता। ताताहं नीलपटानां धर्ममङ्गीकरिष्ये । नृपेण आहूताः, पृष्टाश्च- सुखिनः स्थ ? । मुख्येनोक्तम्(५९) न नद्यो मद्यवाहिन्यो न च मांसमया नगाः। न च नारीमयं विश्वं कथं नीलपटः सुखी॥
नृपेणोक्तम्- यूयं कियन्तः स्थ ? । एकोनपञ्चाशद् युगलानि । नृपेणोक्तम्- सर्वानप्याकारयत, अहं त्वद्भक्तो 30 भविष्यामि । ते सर्वे मिलिताः । नृपेण पुरुषाः सर्वे मारिताः, स्त्रियश्च निष्कास्य मुक्ताः । अतस्तेषां वीजमपि नाशितम् ॥ इति नीलपटवधप्रबन्धः॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org