________________
15
पुरातनप्रबन्धसङ्ग्रन्हे (४७) कुमुदवनमपथि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ नृपेण विमृश्य ही इति अक्षरस्य लक्षत्रयं दत्तम् । ग्रन्थस्तावत् दूरेऽस्तु काव्यं च । पण्डितपल्या नृपकुलादुत्तरन्त्या पण्डितविरुदान्यधीयानानां लक्षत्रय्यपि दत्ता । नृपेण पुनराहूयोक्ता-पुनद्रव्यं गृहाणेत्युक्तो5 वाच-अधिकं नानायितमतोऽहं न गृह्ने । सा क्रमेण स्वगृहं प्राप्ता । यथा गता तथा आगता । पण्डितेनोक्तम्पुस्तकं राज्ञा किमिति नात्तम् ? । तया वृत्ते उक्त पण्डितेनोक्तम्-सत्यं आवयोर्योगो विधिना कृतः। अद्य त्वं परीक्षाशुद्धा निवृत्ता । एतावन्ति दिनानि चेतस्येवं विकल्प आसीत् यन्मे रोहिनी ममानुरूपा न वा । अद्य सन्देहो भनस्तव दानेन । यत्त्वया गृहदौस्थ्यं न गणितम् ।।
(४८) अर्था न सन्ति न च मुञ्चति मां दुराशा दानान्न सङ्कुचति दुर्ललितः करो मे। 10 यात्रा च लाघवकरी खवधे च पापं प्राणाः खयं व्रजत किं परिदेवितेन ॥ - इतो दर्भस्रस्तरसुप्तः चरणयोः श्वयथुर्जातः । अस्मिन्नवसरे कोऽपि विप्रः क्षुधार्थी पण्डितावासे प्रविष्टः। भोजनं याचितम् । पण्डितेनोक्तम्(४९) क्षुत्क्षामः पथिको मदीयभुवनं पृच्छन् कुतोऽप्यागतः
तत्किं गेहिनि ! किश्चिदस्ति यदसौ भुङ्क्ते बुभुक्षातुरः। वाचाऽस्तीत्यभिधाय सत्वरपदं प्रोक्तं विनैवाक्षरं स्थूलस्थूलविलोललोचनगलवाष्पाम्भसां बिन्दुभिः॥
इतोऽर्थी विमुखीभूय गतः । पण्डित आह(५०) व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क सार्थः पुनरीदृशः॥
इति कथनादनु प्राणैस्त्यत्यजे । पत्न्यानु सहगमनमकारि । इतः श्रीभोजराजो वित्तस्य करभी त्वा 20 त्वरितमाययौ । पृष्टम्-पण्डितः क्व ? । जनैर्वृत्तमुक्तम् । नृपः प्राह-रे रे इदं श्रीमालं न, भिल्लमालमिदम् । यत्र मम मित्रस्य मयि सत्यपि केनाप्युद्धारकेऽपि किमपि नार्पितम् । अतः पुरेष्वपि [अप]वित्रमिदम् । शेषकार्याणि तस्यार्थस्य व्ययेन विधायेति विमृशन् मनसि(५१) शशिदिवाकरयोग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च समीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः॥
__ क्रमेण स्वपुरीं गतः। (५२) उदयति यदि भानुः पश्चिमायां दिशायां विकसति यदि पद्मं पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्निः तदपि न चलतीयं भाविनी कर्मरेखा ॥
॥ इति माघपण्डितप्रबन्धः॥
८. कुलचन्द्रप्रबन्धः (B.) 30६३१) एकदा श्रीभोजो वीरचर्यायां भ्रमन् दिगम्बरं मठोपरिस्थं इति वदन्तमशृणोत्
(५३) तिक्खा तुरिअन माणिआ भडसिरि खग्ग न भग्गु ।
एह जम्म नग्गहं गयउ गोरी कंठि न लग्गु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org