________________
माघपण्डितप्रबन्धः ।
७. माघपण्डितप्रबन्धः (BR. )
९२८) अथ दत्तत्रनोर्माघस्योच्यते । माघस्य जन्मनि पित्रा जातकं कारितम् । आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । पित्रा ऋद्धिप्राग्भारकलितेन षोडशवर्षादूर्द्ध दिनदिनसम्बन्धी लट्टितो हारको द्रम्माणां मुक्तः । अतिव्ययवानपीयता सुखं निर्वहिष्यते । स प्रौढः सन् पठितुं प्रवृत्तः । कवित्वं कृत्वा पितुर्दर्शयति । ईदृशानि कवित्वानि कुरुषे, पूर्वकवित्वानां शतांशेनापि न प्रभवन्ति । पुत्रेण शिशुपालवधो नाम - 5 काव्यं कृत्वा चुल्हकोपरि च्छन्नं धृतम् । एकदा पितुः पुस्तकं जीर्णप्रायं धूमेन कृत्वा दर्शितम् । पिता वाचयन् शिरोऽवधूनन् आह - वत्स ! ईदृशानि कवित्वानि क्रियन्ते । तेनोक्तम्-तात ! भव्यानि १ । किमुच्यते । तर्हि मया कृतानि । जनकेनोक्तम् - मया छलः कृतोऽतस्ते इयता कवित्वसीमा जाता । अतः परं तव कवित्वं न । स अधीत्य पितर्युपरते विलसितुं प्रवृत्तः । जन्मपत्रिकां दृष्ट्वा सशिखं हारकं व्ययीकुरुते ।
९२९) तस्य भोजनृपतिना मालवाधीशेन मैत्री जाता । एकदा श्रीभोजेन मिलितुमाकारितो माघस्तत्र गतः । 10 नृपेण सगौरवं धवलगृहे स्थापितः । स्नानं कुर्वता पण्डितेन मुखं कूणितम् । नृपेण भोक्तुमुपविष्टस्य दिव्यरसवती - समाना रसवती परिवेषिता । स मुखमेव कूणयति । नृपेण चिन्तितम् - स्वगृहे किमसौ भुनक्ति । उत्थितः । पृष्टो नृपेण - रसवती कीदृशी । देव ! कदशनेनोदरं पूर्त्तम् । भव्यशीतरक्षा पार्श्वे हसंतिका च रात्रौ सुप्तः । पण्डितो नृपस्य नातिदूरे । रात्रौ पण्डितः शय्यायां पुनः पुनः पार्श्वे घातं करोति । नृपेण- किमसौ भुनक्ति, कथं शेतेऽस्य गृहे ? | अवलोकनीयं गत्वा एतत् । प्रातरुत्थिते नृपेण पृष्टम् - सुखेन निद्रा समायाता ? | देव ! रासभवद्भारितानां 1.5 निद्रा कुतः । दिनचतुष्कं स्थित्वा पण्डितेन नृपो मुत्कलापितः । राज्ञा श्रीमाले भोजखामिप्रासादः कारितः । तस्य पुण्यं पण्डितस्य प्रदाय पण्डितः सम्प्रेषितः । पण्डितेनोक्तम् - देव ! कदाचिन्ममोपरि प्रसादं विधायास्मत्पुरे पादमवधारणीयम् । एवमित्यभिधाय सम्प्रेष्य नृपः प्रत्यावृत्तः, स्वगृहमायातः । इतो द्वितीये शीततौं नृपः प्रौढकटकेन श्रीमाल प्राप्तः । माघेन सम्मुखं गत्वा नृपः स्वगृहे एव सकटकोऽप्युत्तारितः । नृपस्तु आवासमवलोकितुं प्रवृत्तः । स्थाने स्थाने विचित्रकौतुकानि पश्यन् स्थाने स्थाने धूपघटीपरिमलमाजिघ्रन्, सञ्चारभूमिमतीव परिमलाढ्यां 20 पृष्टवान् किमेष देवतावसरोपवरकः ? । देव ! एष सञ्चारकोऽपवित्रः । नृपो लज्जितः । इतो मज्जनावसरे पूर्व मर्दनिकैर्मर्दनं दत्तं यथा नृपोऽतिरञ्जितः । स्नानपीठे स्वर्णमये महाविच्छित्या स्नानं कारितः । तदनु देवदूष्यसमा नि नासानिःश्वासहार्याणि वस्त्राण्याजग्मुः । महर्ज्या देवान् नत्वा भोक्तुमुपवेशितः । स्वर्णस्थाले द्वात्रिंशत्कञ्च्चोलकैर्वृते मण्डिते क्षीरमयं पक्वान्नं परिवेषितम् । क्षीरतन्दुलमयः कूरः । एवं वटकान्यपि तस्यैव । अपराणि नानाव्यञ्जनानि परिवेषितानि । नृपश्चिन्तयति स्म य ईदृशीं रसवतीं भुनक्ति तस्य मे रसवती कथं रोचते । भुक्तोत्तरं पञ्चसु - 25 गन्धिनामताम्बूले जाते वार्त्ता विदधतो रात्रिरजनि । सर्वोपरितनभूमौ नृपाय पल्यङ्कः सञ्जितः । राज्ञोक्तम्-मित्र ! शीतकालं न जानीथ ? | देव ! जानीमः । चन्दनं सञ्जितम् । नृपस्तत्र शय्यामलंचक्रे । तत्र महान् तापश्चन्दनमर्पितम् । तालवृन्तैर्विज्यमानस्य निद्राऽऽयाता । प्रातः पण्डितेन पृष्टम् - देव ! शीतकाल उष्णकालो वा १ । उष्णकाल इति प्रत्युत्तरं ददौ । पण्डितप्रीत्या कियन्ति दिनानि स्थित्वा मुत्कलाप्य नृपः स्वपुरीं ययौ ।
Jain Education International
१७
30
९३०) क्रमेणैवंविलसतः पण्डितस्य धनं क्षीणं वार्द्धक्यमपि चागमत् । इतः पण्डितेन प्रिया उक्ता(४६) न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिपरिवृढान् कारयति कः । अदत्त्वापि ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि ! गहनो जीवनविधिः ॥ इति निर्वाहमविमृश्येत माघेन माघकाव्यपुस्तकमर्पयित्वा प्रिया माल्हणादेवी नाम्नी धारायां नृपसमीपे प्रहिता - यदमुं ग्रन्थं ग्रहणकेऽङ्गीकृत्य लक्षत्रयं द्रम्माणां ददत । सा तत्र गता नृपेण शुद्धिः पृष्टा । पुस्तकमर्पितम् । लक्षत्रयी याचिता । राज्ञा शलाका क्षेपिता । प्रातर्वर्णने पण्डितस्वरूपसूचकं काव्यं निस्सृतम् -
पु० प्र० स० 3
For Private Personal Use Only
.
35
www.jainelibrary.org