________________
पुरातनप्रबन्धसचन्हे इति भित्तिपुरतः सुप्तेन मयूरेण-सुभ्रुशब्दस्थाने चण्डीत्याख्यां कथय, यतोऽस्या दृढकोपायाश्चण्डीशब्द उचितः। इति पितुर्वचनेन कुपिता लज्जिता भर्तृवचनं मानयित्वा सतीत्वप्रभावेण पितरं कुष्ठीभवेति शप्तवती । सञ्जातकुष्ठेन मयूरेण राजभणितेन सूर्याराधनाय पट्पादं रज्जुयत्रं बद्धा खदिराङ्गारचितां काराप्य तत्स्तवने एकैकवृत्ते छुरिकया एकैकरज्जुपादच्छेदे यावता पश्च च्छिन्नाः । षष्ठच्छेदे सूर्यपरितोषे नव्यदेहदानेन मयूरप्रमोदे बाणपक्षीयरुक्तं 5 राजसभायाम्
(४५) यद्यपि हर्षोत्कर्ष विदधति मधुरा गिरो मयूरस्य ।
___ घाणविजृम्भणसमये तदपि न परभागभागिन्यः ॥ राज्ञोक्तम्-यूयं गुणिषु मत्सरिणो यस्य शक्तिर्भवति किमप्यधिकं दर्श्यते । ततो बाणेनोक्तम्-मम हस्तपादौ छेदय, यथा नव्यान् करोमि । ततश्छिन्नेषु चण्डिकास्तुतौ सप्तमाक्षरे नव्या जाताः । तथाप्युभयोर्विवादे राज्ञो10 क्तम्-काश्मीरे श्रीसरस्वती विवादं भञ्जयति । यो हारयति तेन पुस्तकानि ज्वाल्यानि । इति प्रतिज्ञाय राजपुरुषैः समं काश्मीरगमने देव्या समस्याऽर्ण्यन्त । पदे पृष्टे बाणस्य शीघ्रपूरणे मयूरस्य सविलम्बे-तथाहि
(४५) दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ मरेण पराभूतत्वादागत्य पुस्तकज्वालने श्रीसूर्यशतकपुस्तकेऽदग्धे उभयोर्मानदानैः राजप्रसादः ।
६२६) अन्यदा राज्ञा मत्रिसम्मुखं भणितम्-पश्य भूमिदेवानां कीदृक् प्रभावः । मत्रिणोक्तम्-जिनशासनेऽपि 15 महाप्रभावोऽस्ति । यदि कौतुकं ततः श्रीमानतुङ्गाख्यं सूरिमाकार्य विलोकय । राज्ञोक्तमाकारयस्व । ततो मत्रिणा गत्वा भक्तिवचनैर्दर्शनप्रभावार्थ निरीहा अपि तत्रानीताः । राज्ञो धर्मलाभाशिषं दत्वा यथोचितासनसमासीनाः। मयूर-बाण-प्रशंसापूर्व राजोवाच-यदि भवतां काचिच्छक्तिरस्ति तत्किञ्चित् कौतुकं दर्शयत । गुरुभिरुक्तम्-अस्माकं किमपि कार्य नहि । जिनमते मोक्षार्थ एवाभ्यस्यते । तथापि शासनोत्कर्षाय दर्शयामः । ततो राज्ञा तमसि
आपादमस्तकं चतुश्चत्वारिंशल्लोहशृंखलाभिर्नियंत्र्यापवरके विश्वा तालकं दत्त्वा मोचिताः । ततो 'भक्तामरस्तवः' 20 कृतः। एकैकवृत्तपाठे एकैकनिगडभङ्गे निगडसंख्यया वृत्तभणनम् । सूरयो मुत्कला जाताः। तालकं भग्नम् , स्वयं
कपाटोद्घाटने निर्गत्य सभायां राज्ञ आशीर्वादं ददुः । राज्ञाऽनेकस्तुतीः कृत्वा सविनयं नत्वा कृत्यादेशेन प्रसीदत । सूरिणोक्तम्-अस्माकं कापीच्छा नहि । परं तव हिताय ब्रूमः-जिनधर्म प्रपद्यस्व । राजाऽङ्गीचकार । दानपात्रौचित्यात्रिधा दानं देयं-जीर्णोद्धारे(रं) नव्यविम्बकारणं चैत्यादिधर्ममादिश्य प्रभावनां कृत्वा सूरयः स्वाश्रयं
गताः । तदाख्यातो 'भक्तामरस्तवः' अद्यापि सर्वोपद्रवहर्ता । अन्यदा कर्मवशात् सञ्जातकुष्ठोऽनशनाय धरणेन्द्र 25 ससार । प्रत्यक्षीभूयायुःशेषतया धरणेन्द्रोऽष्टादशाक्षरं पार्श्वनाथमत्रं दत्तवान् । सूरयः सर्वोपद्रवहरं तन्मत्रगर्भितं 'भयहरस्तवं कृत्वा पुनर्नवतां प्राप्ताः।
६२७) एकदा तन्नगरेशसैन्ये परदेशं प्राप्ते तद्रिपवस्तमल्पवलं ज्ञात्वा सम्भूय भूरिसैन्यैस्तनगरमावेष्ट्य तस्थुः। पौरजने व्याकुले, भयभीते राज्ञि, गोपुरेषु पिहितेषु राज्ञा वाण-मयूरादिषु पण्डितेषु तदुपसर्गोपशमनायादिष्टेषु
पातालप्रवेशार्थमिव भूमिमालोकयत्सु श्रीसूरयो धवलगृहमूर्धानमारुह्य 'भयहरं' प्रकटीचक्रुः । तत्प्रभावात् तेषु 30वैरिषु स्तम्भितेषु गुरोराज्ञया तेषां घातमकुर्वन् सर्वस्वं हस्ति-हयाद्यं जग्राह नृपः। ततः सूरि राजानं नत्वाऽऽज्ञां
प्रपद्य प्रसादं च प्राप्य खं खं स्थानं ययुः । ततो 'भयहरस्तवः' पठ्यमानो भयहर्ता सर्वेषाम् । इत्थं प्रभावनां कृत्वाऽन्तसमयं प्राप्य श्रीगुणाकरसूरिं न्यस्य पदेऽनशनमरणेन सूरयो दिवं ययुः।
॥ इति श्रीमानतुङ्गसरिप्रबन्धः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org