SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ____ 10 देवाचार्यप्रबन्धः । पप्रच्छ-भगवन् ! धवलक्कपुरे श्रेष्ठिना ऊदाकेन भवतां प्रासादः कारितः। तस्य प्रतिष्ठां कः करोतु ? । स्वामिना उक्तम्-श्रीदेवाचार्याः कुर्वन्तु । निवृत्य उक्तम् । कायोत्सर्गः पारितः श्रीसद्धेन । प्रतिष्ठा जाता । ऊदावसहीति नाम जज्ञे ।-इत्याद्यनेकवर्णनानि, तथापि किञ्चित् खण्डितसम्बन्धा लिख्यन्ते । ६५५) अथ कर्णावतीसङ्घप्रार्थनया कर्णावतीं गताः । चतुर्मासकं स्थिताः । तत्र श्रीमदरिष्टनेमिनः प्रासादे व्याख्यानं भवति । इतः कर्णाटनृपगुरुश्चतुरशीतिवादान-एवं देशे देशे जित्वा मालवमण्डलस्य मध्ये भूत्वा 5 गूर्जरत्रां प्रति चचाल । क्रमेण आसापयामाययौ । तस्य वादाः(७२) बंभ अह नव बुद्ध भगव अट्ठारस जित्तय, सइव सोल दह भट्ट सत्त गंधव विजित्तय। जित्त दिगार सत्त च्यारि खत्तिय दुय जोइय, इकु धीवर इकुभिल्लु भूमिपाडिऑइकु भोईऔं। ता कुमुदचंदि इय जित्त सवि अणहिल्लपुरि जौं आइयाँ । वडगच्छतिलइ पहुदेवसूरि कुमुदह मदु उत्तारियओं ॥ __वासुपूज्यचैत्ये स्थितः । इतो धावस्तत् श्राद्धोऽमन्दतरमायातः । कुमुदेनोक्तम्-किं चिरेण दृष्टः १ । तेनोक्तम्श्वेताम्बरश्रीदेवाचार्यपौषधागारे समर्थनमजनि । तत्र वेला लग्ना । कुमुदेनोक्तम्-मयि आगते श्वेताम्बराणां समर्थनमेव युक्तं न त्वारम्भणम् । तेनोक्तम्-मैवं वद । (७३) आस्तां सुधा किमधुना मधुना विधेयं, दूरे सुधानिधिरलं नवगोस्तनीभिः। श्रीदेवसूरिसुगुरोर्यदि सूक्तयस्ताः पाकोत्तराः श्रवणयोरतिथीभवन्ति ॥ 15 इति श्रुत्वा सकोपः सन् साहारणं नाम भट्टमाहूय प्राहिणोत् । स पौषधागारे कुमुदबिरुदान्यवादीत्-सकलवादिवेताल, वादितरुप्रबलकालानल, वादीन्द्रमानपर्वतदावानल, वादिगजघटापश्चानन, वादिसिंहशार्दूल, मुक्तिनितम्बिनीकण्ठकन्दलालंकारहार, श्वेताम्बरदर्शनप्रहसनसूत्रधार, पट्दर्शनपाठी जयति वादीन्द्रश्रीकुमुदचन्द्र । (७४) हहो श्वेतपटाः किमेष कपटाटोपोऽस्ति सण्टङ्कितैः संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते। 20 तत्त्वातत्वविचारणासु यदि वो हेवाकलेशस्तदा । - सत्यं कौमुदचन्द्रमझियुगलं रात्रिन्दिवा ध्यायत ॥ ततः प्रभोः शिष्येण माणिक्येनोक्तम्(७२) कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यंहिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । का सन्नद्धति पन्नगेश्वरशिरोरत्नावतंसश्रिये । यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ अन्यदा प्रभोर्भगिनी सरस्वती तनुगमनिकायां गता। कुमुदः प्राह-केयं गंडरिका श्वेताम्बरी ? कुमुदेनोक्तम्आर्ये ! नृत्यं कुरु । नमाट! त्वं मृदङ्गं वादय । ततः सा पौषधागारे गत्वा रोदितुं प्रवृत्ता । गुरुभिर्निमित्तं पृष्टा तयोक्तम्. . (७६) हा कस्स पुरोहं पुक्करेमि असकन्नया महं पहुणो। नियसासणनिकारे जोऽवयरइ वरं सुगओ॥ दिगम्बरविडम्बना उक्ता । गुरुभिश्चिन्तितम् -25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy