Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 80
________________ देवाचार्यप्रबन्धः। २५ ६५२) एकदा गूर्जरत्राधिपतिर्जयसिंहदेवो दिविजयं विधाय व्यावृत्तः कान्तीपरिसरे प्राप्तः। चिन्तितम्मम रणश्रद्धा केनापि नापूरि । “पुष्पेषु जाती नगरेषु कान्ती*...” सा तावद्विलोकनीया । परिग्रहोऽप्यनुत्साहोऽपि नृपमनुययौ । क्रमेण पुरीद्वारभूमावावासान् दत्वा स्थितः । मध्ये कोऽपि न वेत्ति । नृपेण बहिःस्थेन पुरीप्राकारे कनककपिशीर्षाणि दृष्टानि । प्रासाददण्डकलशैः सर्वसुवर्णमयी लंकेव भाति । सिद्धराजेन चिन्तितम्वयमविमृश्य प्राप्ताः । इतः सेनानीः सन्नद्धीभूय पुराद्धहिर्निर्गत्य फेरकं दत्त्वा मध्ये याति । अमात्येन पुरीरोधः 5 कृतः । सैन्यसामग्री च सर्वा विहिता । इतो मत्रिणा लेखद्वारेण नृपो विज्ञप्तः-देव ! किमपि सैन्यं द्वारि केनापि हेतुनाऽगतमस्ति । नृपेणोपरितनभूमिस्थितेन दृष्टम् । द्वारावलगकस्य प्रति वरूपपत्रमर्पितम् । मत्रिणा स्वरूपमालोक्य षोडशतुरङ्गमानपरवस्तु नृपयोग्यमर्पयित्वा माधवदेवद्वारावलगका प्रहितः। स सिद्धनाथं गतः। नृपेणोक्तम्-किमिदम् ? । मत्रिणाऽतिथ्यं भवतां प्रहितम् । प्राघुणका यूयं सत्कारार्हाः। नृपेणोक्तम्-वयमातिथ्यार्थिनो न, किन्तु युद्धार्थिनः । स तत् श्रुत्वा मत्रिणे निवेदितवान् । मत्रिणा नृपो विज्ञापितः । राज्ञा पत्रकेण द्वारि 10 । भव्यमेतत् । आगामि के मङ्गलवारे तव श्रद्धा पूरयिष्यावः। मत्रिणा द्वारि रणक्षेत्रं नृपस्य जयसिंहदेवस्य वचनात्सजीकृतम् । चतुर्दिक्षु वृक्षादि क्षत्रियैश्छिन्नम् । मत्रिणा युद्धार्थे सैन्यसामग्री कृता । नृपादेशमेव विलोकमानस्तिष्ठति । नृपस्तु किमपि न कथापयति । इतो निर्णीतदिनोपरि जयसिंहदेवेन जगदेवस्य परमारवंशोद्भवस्य पट्टबन्धः कृतः । पञ्चदश चान्येऽपि तत्सदृशाः सजीकृताः। इतो मङ्गलवारदिने नृपः प्रबुद्धो दन्तशौचं स्नानं शृङ्गारं च विधाय देवतावसरमकरोत् । तत्र प्रेक्षणीयं जातम् । पश्चाद्रसवती निष्पन्ना । भोजनं विधाय 15 ताम्बूलमादाय तुरगान् सजीकृत्य स्वयं सन्नाहं जगृहे । षोडश नार्यः सन्नाहं ग्राहिताः। तदनु ताभिर्युक्तो युवत्या धृतातपत्रो द्वाभ्यां वीजितवालव्यजनः स्थाने २ प्रेक्षणकान्यवलोकयन् पुर्यन्तरेवाष्टौ दिनानि कौतुकेनैव [निर्गम्य] नवमदिने बहिरायातः । इतो रणभूमौ पटो विधृतोऽन्तरा तावजयसिंहदेवसुभटाः सन्नह्य समाजग्मुः । यावपटोऽपाकृतः, तावन्नारीवेष्टितं नृपं दृष्ट्वा जगदेवाद्याः पश्चाद्ववलुः । नृपेणोक्तम्-किमिति भनाः स्थ । जगदेवेनोक्तम्-केन सह युध्यते । स्वयमवलोकयतु देवः। तावजयसिंहदेवः स्वयं सम्मुखे धावितस्तुरङ्ग मुक्त्वा पाद-20 चारेण । मदनब्रह्मनृपोऽप्युत्तीर्णः । द्वयोरालिङ्गने जाते द्वयोरपि प्रीतिर्जाता । प्रवेशमहोत्सवे जायमाने सिद्धनाथस्त्वनेकानि कौतुकानि विलोकयन्ननेकानि वाद्यानि शृण्वंश्च राज्ञा समं प्रतोल्यामागतः। एवं नवभिर्दिनैश्चन्द्रज्योत्स्नातटाकिकायां प्राप्तौ । तत्र स्नातौ । सुवर्णवेष्टितपादपां धारागिरिवाटिकामवलोकयन्तौ धवलगृहद्वारमायातौ । मत्रिणा कारितमङ्गलोत्सवौ धवलगृहं प्राप्तौ । सिद्धनाथस्तु सर्वरमणीयतामालोक्य ग्रामीण इव विस्मयातुरः स्थितः । भोजनाद्या सर्वा सामग्री तथा जाता यथा बाढं चेतसि चमत्कृतः । मासान्ते मुत्कलापयामास 125 राज्ञा हस्त्यश्वादीन्युपढौकितानि । जयसिंहदेवस्तु पात्राष्टकं ययाचे । नृपेणार्पितम् । राजा मुत्कलाप्य पत्तनोपरि चलितः । पात्राष्टकं यावत्पुरप्रतोल्यामागतं सुखासनादि संहृत्य......तावनिर्गमे उक्तम्-अग्रे पत्तनं क्व । जनैरुक्तम्-'पत्तनं दूरे' इति श्रुत्वा षण्णां हृदयसङ्घहो जातः । इतो द्वयस्योपर्याच्छादनं दत्तम् । द्वयं जीवितम् । तन्नृपेण सह क्रमेण पत्तने प्राप्तम् । माऊनाम एकस्याः, परस्साः पेथू । अद्यापि माऊहराणि पेथूहराणि च पात्राणि श्रूयन्ते । एवं श्रीजयसिंहदेवः कान्तीं गत्वा समायातः॥ इति मदनब्रह्मनृपतेर्जयसिंहदेवस्य प्रीतिप्रबन्धः॥ 30 १६. अथ श्रीदेवाचार्यप्रबन्धः ( BR.); (६५) वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्यान्ते सुखप्रश्नेषु साधवः ॥ (६६) नग्नो यत्प्रतिभाधर्मात् कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवमूरिMदेऽस्तु सः॥ अत्र पद्यस्य पूरणार्थे मूलादर्श तत्प्रमाणा पंक्तिः रिक्ता मुक्ताऽस्ति । पु०प्र० स० 4 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220