Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 59
________________ पुरातनप्रबन्धसङ्ग्रहे गृहिण्याने वाच्यम्-यद्विक्रमार्कस्त्वामभिलषति । तया तत्र गत्वा निवेदितम् । तयोक्तम्-अहं सप्तमभूमेरध उत्तरितुं न लेभे । तया देव्यग्रे व्याहृतम् । देव्या द्वितीयदिने प्रेषिता । अहं रज्जु प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । मालिनी पुष्पस्थाने रज्जुमादाय गता । तस्या अर्पितः। तया स्तम्भे बद्धवा बहिः क्षिप्तः । देव्यादेशाद्राज्ञा गुड्डरस्य स्तम्भे बद्धः। सा भर्तरि सुप्ते दवरकेण भूत्वा बहिर्गता। नृपशय्यान्ते उत्तीर्य 5 नृपं प्राप्ता । नृपेण पृष्टा-का त्वं देवि ? । व्यवहारिपत्नी । राज्ञोक्तम्-सभर्तृकां नाहमभिलषामि । सा तेनैव प्रयोगेण गृहं गता । सुप्तं पति हत्वा पुनरागता । नृपेणोक्तम्-पतिमारिकां न भेजे । तयोक्तम्-देव ! यज्जातं तन्नान्यथा भवति । परं प्रातर्मे साहसमवलोकनीयम् । सा वेश्मनि गता। रजु क्षिप्त्वा पूचक्रे यत् धावत धावत, श्रेष्ठी केनापि हतः । कलकले जाते जनो मिलितः। किमिदं न ज्ञायते । सा मुक्तकेशा काष्ठारोहणे सज्जा जाता। जनो वारयति सा तु न निवर्त्तते । इतःप्रातर्नृपस्तत्र जनाज्ज्ञात्वा तदावासे आयातः। नृपेणोक्ता-रात्रिवृत्तं तत् , 10 आधुनिकमिदं निवर्तस्व । मद्वपुरलंकुरु । कोऽपि न ज्ञास्यति । देव ! नैतद्वक्तव्यम् । बीटकं देहि । अस्य व्रतस्यैत देवोद्यापनम् । सा विसर्जिता । पत्या सहाग्नौ प्रविष्टा । नृपस्तु जननीं नन्तुं गतः । वत्स ! स्त्रियः साहसं तेऽस्तु । नृपेणोक्तम्-देवि! तथ्यमिदं दृष्टम् । इति स्त्रीसाहसप्रबन्धः॥ स्त्रीचरित्रप्रबन्धः (P.) ७) कएदा नृपविक्रमेण देव्यै धावनाय वामपादः पूर्वमर्पितः । तयोक्तम्-यदि स्त्रीचरितं वेत्सि तदा वाम 15 पादं प्रक्षालयामि । नृपस्तमन्वेष्टुं चचाल । मार्गे कसिंश्चित्पुरे जलहारिणीमेकां ददर्श । तया व्याहृतं कुतः समायातः ? तेनोक्तमुज्जयिन्याः। क्व यास्यसि ? नारीचरितमन्वेष्टम् । तर्हि मया सह मगृहे एहि, यथाऽत्रैव ज्ञापयामि । परमहं यद्वच्मि तत्त्वया पृष्ठानुगेन वाच्यम् । नृपो गृहे नीतः। सकलेऽपि कुटुम्बे इति व्याहृतम्-एष मदाता बाल्यादपि मातृशाले वर्द्धितः । अधुना मम मिलनाय समायातः। राज्ञा नतिः कृता । तत्प्रियो भगिनीपतिरिति कृत्वा नतः। गौरवेण भोजितः । तया रात्री स्वपतिरुक्तः यदावयोः सम्बन्धो जन्मावधि । परम20 द्यतनो दिनो भ्रातालभ्यः । एकान्ते भूत्वाऽस्य पार्थापितगृहवार्ता शृणोमि सुखदुःखकरां च । दिवा वक्तुमपि प्रस्तावो नाऽभूत् । उपवरकान्तर्नृपस्य शय्या । राजा भगिनीपतिना सह वार्ता कृत्वा शय्यायां गतः । सा स्वयं पृथक् शय्यां क्षिप्त्वा मध्ये विवेश । पत्युरग्रे प्राह-तालकं दत्त्वा खं समीपे गृहाण । मा जनापवादो भवतु । तेनोक्तम-को जनापवादो मयि सति ?। तयोक्तम-एवं कुरु । तथा कृते वार्ताप्रसङ्गादन तयोक्तम-मदभिलषितं कुरु । राज्ञोक्तम्-त्वं मे भगिनी । तयोक्तम्-कुतः ? त्वं पथिकः। को भ्राता का भगिनी । तयो(तेनो)क्तम्25 जियोक्ता, तदहमकृत्यं [कथंकरोमि ? । न विधाससि, तर्हि पश्य यद्भवति । तया पूत्कृतम्-धावत धावत सत्वरम् । द्वारमुद्घाटयत । नृपेण विनष्टमपि सञ्चित्योक्तम्-मा मारय यत्कथयसि तत्करिष्ये । तमुधःपत श्वासस्तु न ग्राह्यः। तया पादेनाहत्य करम्बकरोटं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् । तावत्पत्या द्वारमुद्घाटितम् । दीपः कृतः । जनेन पृष्टम्-किमिदम् ? । पापाहं किं जाने । अस्य मद्धातुः पानीयरसो जातः । उदरव्यथाऽस्य रवात्पपात । मया तु भीतया पूत्कृतम् । जलमानीय वदनं क्षालितम् । शकटिकामाधाय उदरसेकः कृतः। 30 नृपस्तु श्वासमेव न गृह्णाति । सर्वः कोऽपि निष्कासितो मध्यात् । क्षणं सुखासिकाऽस्ति । यदि निर्जनं भवति तदा निद्रा एति । इति कृत्वा जने गते द्वारं दत्त्वोक्तम्-इदं स्त्रीचरितम् । ज्ञातं न वा ? । राज्ञोक्तम् स्वकुलादि आगमनकारणं च । प्रातर्मुत्कलाप्य स्त्रियो मुद्रारत्नं दत्त्वा स्वपुरे गतः। पत्यै वृत्तान्तमावेदितवान् । तयोक्तम्कथं वामपादमर्पयसि ? । तेनोक्तमतः परं न । इति स्त्रीचरितप्रबन्धः ॥ देहलक्षणप्रबन्धः (B.) 356) एकदा नृपो राजपाव्यां व्रजन् केनापि पण्डितेन दृष्टः। तं दृष्ट्वा पण्डितः शिरःकम्प चक्रे । नृपस्तु राजपाटी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220