________________
पुरातनप्रबन्धसङ्ग्रहे गृहिण्याने वाच्यम्-यद्विक्रमार्कस्त्वामभिलषति । तया तत्र गत्वा निवेदितम् । तयोक्तम्-अहं सप्तमभूमेरध उत्तरितुं न लेभे । तया देव्यग्रे व्याहृतम् । देव्या द्वितीयदिने प्रेषिता । अहं रज्जु प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । मालिनी पुष्पस्थाने रज्जुमादाय गता । तस्या अर्पितः। तया स्तम्भे बद्धवा बहिः क्षिप्तः । देव्यादेशाद्राज्ञा गुड्डरस्य स्तम्भे बद्धः। सा भर्तरि सुप्ते दवरकेण भूत्वा बहिर्गता। नृपशय्यान्ते उत्तीर्य 5 नृपं प्राप्ता । नृपेण पृष्टा-का त्वं देवि ? । व्यवहारिपत्नी । राज्ञोक्तम्-सभर्तृकां नाहमभिलषामि । सा तेनैव प्रयोगेण गृहं गता । सुप्तं पति हत्वा पुनरागता । नृपेणोक्तम्-पतिमारिकां न भेजे । तयोक्तम्-देव ! यज्जातं तन्नान्यथा भवति । परं प्रातर्मे साहसमवलोकनीयम् । सा वेश्मनि गता। रजु क्षिप्त्वा पूचक्रे यत् धावत धावत, श्रेष्ठी केनापि हतः । कलकले जाते जनो मिलितः। किमिदं न ज्ञायते । सा मुक्तकेशा काष्ठारोहणे सज्जा जाता। जनो वारयति सा तु न निवर्त्तते । इतःप्रातर्नृपस्तत्र जनाज्ज्ञात्वा तदावासे आयातः। नृपेणोक्ता-रात्रिवृत्तं तत् , 10 आधुनिकमिदं निवर्तस्व । मद्वपुरलंकुरु । कोऽपि न ज्ञास्यति । देव ! नैतद्वक्तव्यम् । बीटकं देहि । अस्य व्रतस्यैत
देवोद्यापनम् । सा विसर्जिता । पत्या सहाग्नौ प्रविष्टा । नृपस्तु जननीं नन्तुं गतः । वत्स ! स्त्रियः साहसं तेऽस्तु । नृपेणोक्तम्-देवि! तथ्यमिदं दृष्टम् । इति स्त्रीसाहसप्रबन्धः॥ स्त्रीचरित्रप्रबन्धः (P.)
७) कएदा नृपविक्रमेण देव्यै धावनाय वामपादः पूर्वमर्पितः । तयोक्तम्-यदि स्त्रीचरितं वेत्सि तदा वाम 15 पादं प्रक्षालयामि । नृपस्तमन्वेष्टुं चचाल । मार्गे कसिंश्चित्पुरे जलहारिणीमेकां ददर्श । तया व्याहृतं कुतः
समायातः ? तेनोक्तमुज्जयिन्याः। क्व यास्यसि ? नारीचरितमन्वेष्टम् । तर्हि मया सह मगृहे एहि, यथाऽत्रैव ज्ञापयामि । परमहं यद्वच्मि तत्त्वया पृष्ठानुगेन वाच्यम् । नृपो गृहे नीतः। सकलेऽपि कुटुम्बे इति व्याहृतम्-एष मदाता बाल्यादपि मातृशाले वर्द्धितः । अधुना मम मिलनाय समायातः। राज्ञा नतिः कृता । तत्प्रियो भगिनीपतिरिति कृत्वा नतः। गौरवेण भोजितः । तया रात्री स्वपतिरुक्तः यदावयोः सम्बन्धो जन्मावधि । परम20 द्यतनो दिनो भ्रातालभ्यः । एकान्ते भूत्वाऽस्य पार्थापितगृहवार्ता शृणोमि सुखदुःखकरां च । दिवा वक्तुमपि प्रस्तावो नाऽभूत् । उपवरकान्तर्नृपस्य शय्या । राजा भगिनीपतिना सह वार्ता कृत्वा शय्यायां गतः । सा स्वयं पृथक् शय्यां क्षिप्त्वा मध्ये विवेश । पत्युरग्रे प्राह-तालकं दत्त्वा खं समीपे गृहाण । मा जनापवादो भवतु । तेनोक्तम-को जनापवादो मयि सति ?। तयोक्तम-एवं कुरु । तथा कृते वार्ताप्रसङ्गादन तयोक्तम-मदभिलषितं
कुरु । राज्ञोक्तम्-त्वं मे भगिनी । तयोक्तम्-कुतः ? त्वं पथिकः। को भ्राता का भगिनी । तयो(तेनो)क्तम्25 जियोक्ता, तदहमकृत्यं [कथंकरोमि ? । न विधाससि, तर्हि पश्य यद्भवति । तया पूत्कृतम्-धावत धावत
सत्वरम् । द्वारमुद्घाटयत । नृपेण विनष्टमपि सञ्चित्योक्तम्-मा मारय यत्कथयसि तत्करिष्ये । तमुधःपत श्वासस्तु न ग्राह्यः। तया पादेनाहत्य करम्बकरोटं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् । तावत्पत्या द्वारमुद्घाटितम् । दीपः कृतः । जनेन पृष्टम्-किमिदम् ? । पापाहं किं जाने । अस्य मद्धातुः पानीयरसो जातः । उदरव्यथाऽस्य रवात्पपात । मया तु भीतया पूत्कृतम् । जलमानीय वदनं क्षालितम् । शकटिकामाधाय उदरसेकः कृतः। 30 नृपस्तु श्वासमेव न गृह्णाति । सर्वः कोऽपि निष्कासितो मध्यात् । क्षणं सुखासिकाऽस्ति । यदि निर्जनं भवति तदा निद्रा एति । इति कृत्वा जने गते द्वारं दत्त्वोक्तम्-इदं स्त्रीचरितम् । ज्ञातं न वा ? । राज्ञोक्तम् स्वकुलादि आगमनकारणं च । प्रातर्मुत्कलाप्य स्त्रियो मुद्रारत्नं दत्त्वा स्वपुरे गतः। पत्यै वृत्तान्तमावेदितवान् । तयोक्तम्कथं वामपादमर्पयसि ? । तेनोक्तमतः परं न । इति स्त्रीचरितप्रबन्धः ॥
देहलक्षणप्रबन्धः (B.) 356) एकदा नृपो राजपाव्यां व्रजन् केनापि पण्डितेन दृष्टः। तं दृष्ट्वा पण्डितः शिरःकम्प चक्रे । नृपस्तु राजपाटी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org