________________
- विक्रमार्क प्रबन्धाः ।
वीकमद्यूतकारप्रबन्धः (B.)
1
९५) तथैकदा नृपतिरन्धकारपदमावृत्य पुरे भ्रमनेकां दिव्यरूपां स्त्रियं दृष्ट्वा प्राह-देवि ! क यासि ? । तयोक्तम्–तव पार्श्वे । तेनोक्तम् - चल । साऽग्रे नृपः पृष्ठे । एकस्मिन् प्रासादे गतौ । तत्र प्राहरिका आकृष्टखङ्गा उपविष्टाः सन्ति, परं चित्रलिखिता इव । तत्र शुनः सन्ति [ते]पि तथैव । सा मध्ये प्रविष्टा, नृपोऽपि । सा तं पञ्चमभूमौ निनाय । तत्र स्नानसामग्रीं कृत्वा स्नापितो नृपः । सा तु च्छद्मना नृपं वञ्चित्वा मध्ये पल्यङ्के विवेश । नृपस्तु द्वारमागत्य ऊर्द्धाभूय स्थितः । पल्यङ्कद्वयं दृष्ट्वा सन्देहपरः कं पल्यङ्कं श्रयामि । तत्र स्त्रीयुगमुपविष्टमस्ति । नृपे सन्देहपरे मुख्या जगाद - रे ! कोऽयं नृपशुः समानीतः । बहिः कृष्ट्वा कमपि नरमानय । चेटी उत्थाय नृपं बहिर्निनाय । तदनु नृपेण चिन्तितम् - मां विनाऽन्यं विदग्धं कमानेष्यति । तदनु चतु*पथान्तर्भ्रमति । इतो वीकमो द्यूतकारी द्यूतादुत्थितः । कान्दविकगृहे दत्ते, वहिः स्थित्वा द्वारमुद्घाटयेत्याह । तेनोक्तम्-कस्त्वम् ? । वीकमओं इत्युक्ते स आह-कस्ते द्वारमुद्घाटयति । मम किं त्रङ्गटकं ग्रहीतुकामः ? । तेनो- 10 क्तम्-वाढं बुभुक्षितः । द्रव्यमय, बहिःस्थस्यैवान्नं दनि । तेन किञ्चिदर्पितम् । कान्दविकेनोक्तम्- कथं गृह्णासि ? । भाजनमर्प्यय । तेनोक्तम्–गृहीत्वा यातुकामः । तर्हि कर्परे कृत्वा समर्प्यताम् । तेनार्पितम् । आदाय प्रपां प्रति व्रजन् तां चेटीं यान्तीं प्राह - रे ! दासि क यासि ? । तयोक्तम्-तवानयनाय । तर्हि भोज्यं गृहाण । तयोक्तम्परित्यज । तत्रापि भविष्यति भोज्यम् । तया सह चलितः । नृपः पृष्ठे लग्नः । तत्र नीतः स्त्रापितश्चीवराण्यर्पितानि भोजितश्च । नृपस्य पश्यतस्सा तद्दृष्टिं वञ्चयित्वा पल्यङ्के उपविष्टा । नृपे चिन्तातुरे स मध्ये प्रविश्य 15 एकस्मिन्पल्यङ्के उपविष्टः । सा स्त्री उत्थिता । पत्राण्यादायाग्रे कर्त्तनं कृत्वाऽर्पितवती । तेन बिष्टकर्त्तनं कृत्वा पुनरर्पितानि । तयोक्तम् - शयनं कुरु । स पल्यङ्के किञ्चिदृष्टिं दत्च्वोच्छीर्षके मस्तकं कृत्वा सुष्वाप । नृपो विस्मितः । कथमनेन स्वामिनी ज्ञाता, कथं पत्राण्यर्पितानि, कथमुच्छीर्षकं ज्ञातम् । स क्रीडितुं प्रवृत्तः । नृपस्तु स्वस्थाने गतः । प्रातर्वीकमो निष्कासितः । प्रपां गत्वा सुप्तः । रात्रिवृत्तं पृच्छ्यमानोऽपि न वक्ति । नृपेण शूलोपरि प्रहितः । यदि रात्रेर्वृत्तं वक्ति तदा न क्षेप्यः । स शूलोपरि नीयमानोऽस्ति । आरक्षकस्त्विति वक्ति-यन्नृपो रात्रि 20 वृत्तं पृच्छत्यसौ न वक्ति । तया नार्या गवाक्षस्थया शब्दः श्रुतः । स दृष्टः । चेटीं प्राह- अरे दृष्टौ बिल्वयुगं भञ्ज । तया तथाकृते तेनोक्तम् - कथयिष्यामि नृपनीतः । नृपेणानायितः । रे ! कथय-मया सा चेटीति [न] व्याहृता; त्वया चेटी किमिति ज्ञाता ? । तेनोक्तम् - देव ! चेटीजनस्य सुरभिवस्तुप्राप्तिः प्रस्तावे भवति । अतोऽस्याः शरीtsम्लो गन्धः । अतश्रेटीत्युक्ता । तत्र प्राहरिकाणां किं कृतमस्ति यत्ते न श्वसन्ते । धूपवशात् । कथं स्वामिनी'चेटी- पल्यङ्को ज्ञातः ? | देव ! उत्तमस्य मनुष्यस्य गृहस्य दक्षिणे भागे पल्यङ्कः स्यात् । पत्राण्यग्रं छित्त्वा तवार्षि - 25 तानि त्वया तु टिमपाकृत्य; तत्किम् ? । तयोक्तम् अहं तव खहृदयमर्पयामि परं बहिर्न वाच्यम् । मया व्याहतम् - यत् शिरो याति परं न वच्मि । तर्हि कथं कथयसि ? । तयैवोक्तम् । तया कथम् ? । चेटीं प्रेष्य मद्दृष्टौ बिल्वं बिल्वेनाहत्य भग्नम् | अत उक्तम्-तत्कथय । पल्यङ्के उच्छीर्षकं प्रान्तो वा कथं ज्ञातः ? देव ! उच्छीर्षके चूर्णेन पादः खरष्टितो भवति । एवं तस्य वचः श्रुत्वा राज्ञोक्तम्- द्यूतं त्यज । त्वया सदैव मत्समीपे स्थेयं मत्पुत्रवत् । स प्रसादपात्रं कृतः । इति वीकमद्यूतकारप्रबन्धः ॥
30
स्त्रीसाहसप्रबन्धः (B.)
९६) एकदा विक्रमादित्ये जननीं नन्तुं गते माता तस्याशिषं ददौ - वत्स ! स्त्रीणां ते साहसं भवतु । नृपे - णोक्तम्–मातः ! किमिदं साहसम् ? स्त्री तृणसमा । देव्याह-दर्शयिष्यते वत्स ! प्रातः प्रतोलीद्वारे आवासान् दत्त्वा स्थेयम् । नृपस्तत्र गतः । अथ देव्या मालिन्येका पृष्टा - रे ! कोऽत्र व्यवहारी मुख्य: १ । कस्य गृहे बाद गृहिणीरक्षा ? । तयोक्तम्- देवि ! सोमभद्रश्रेष्ठिनः । तत्र त्वं यासि ? । तयोक्तम् - पुष्पाण्यादाय यामि । तस्या 35
Jain Education International
For Private Personal Use Only
www.jainelibrary.org