________________
पुरातनप्रबन्धसङ्ग्रहे ६२) एकदाऽग्निकवेतालेनोक्तम्-त्वं नारीहृदयं वेत्सि परं चरित्रं न । एकदा नृपस्तदन्वेषणाय चलितः । कसिंश्चित्पुरे गतः। तत्रैको द्विजस्तत्सुता कुमारिकाऽस्ति । नृपेण भोजनार्थे द्विजोऽभ्यर्थितः । कुमार्या......(अत्र कियान् पाठो मूलादर्श पतितः प्रतिभाति)...चिन्तितम्-मृत्युरुपस्थितः । सेवोक्ता । तव किङ्करः। मां किं मारयसि । तयोक्तम्-तर्हि अवाझुखो भूत्वा पत । तया दधिकरम्बोध्ये त्यक्तः । मुखं च खरण्टितम् । जनेन पृष्टं 5 किमिदम् ? । असौ देशान्तरिको भोजनाय भणितोऽस्य ऊर्द्ध गाढं जातं अतो पूत्कृतम् । खस्थे जाते जनो गतः। तयोक्तम्-त्वं स्त्रीहृदयं वेत्सि परं चरितं न वेत्सि । नृपः स्त्रीहृदयपरीक्षां कृत्वा स्वराज्ये गतः॥
३) इत एकदा नगरमध्ये दन्तकः श्रेष्ठी नृपमान्योऽस्ति । तेन गृहार्थे भूराता । सूत्रधारानाहूयोक्तम्तादृग्गृहं मण्डयत यत्र सप्तान्वयिनः खादन्ति पिबन्ति च । द्रव्यं खेच्छया दास्यामि । निमित्तज्ञानाहूय शुभमुहूर्ते गर्तापूरः कृतः। भव्येष्टिकासश्चयेन भव्यकाष्ठैः कृत्वा सप्तषणः (खण्डः ) प्रासादो नृपप्रासादसदृक्कारितः । 10 पूणे निष्पन्ने सूत्रधारैरुक्तम्-एष ईदृशोऽस्ति यादृशे धनिकभाग्यात् सुवर्णपुरुषः पतति । तेन सत्कृतास्ते
सूत्रधाराः । निमित्तर्मुहूर्त दत्तम् । तत्र प्रवेशे प्रारब्धे राजपर्यन्तो जनो भोजितः। द्विजातीनां दानं दत्तम् । तदन्ता रात्रौ सुप्तस्तदा 'पतामि' इति वचनमशृणोत् । चिन्तितमभिनवगृहे धूंसकः। द्वितीयवेलायामुक्तम्-पतामि। तावत्परिजन प्राह-रे। रे! उत्तिष्ठत बहिर्निस्सरत । एष पतिष्यति। यावदुत्तिष्ठति तावत्पतामीति श्रुत्वा निःसृतः। कुपितो गत्वा नृपं प्राह-देव ! तव राज्ये सूत्रधारैर्निमित्तज्ञैश्च मुषितः । कथम् ? । स्वरूपमुक्तम् । नृपेण 15 सूत्रधाराः पृष्टाः । देवासौ निर्दोष ईदृशोऽस्ति यस्मात्सुवर्णनरः पतति । निमित्तज्ञैर्मुहूर्ते निर्दोषतोक्ता । राज्ञोक्तम्कियद्रव्यं लग्नम् ?......| वससि नवा । तेनोक्तम्-देव! तृप्तोऽहम् । राज्ञा द्रव्यं दत्तम् । रात्रावारात्रिकानन्तरं तत्र गतः । शय्यापार्थे खगमाकृष्य स्थितः। पतामीति स्वरत्रयमशृणोत् । पतेत्युक्तम् । खट्वाग्रे सुवर्णपुरुषः पपात । प्रातर्नृपेण सर्वेषां दन्तकस्य च दर्शितः । सपश्चात्तापः स प्राह-देव ! यादृग् तव भाग्यं तव सत्त्वं च, तादृग् न
कस्य । इति सुवर्णनरप्राप्तिः सत्त्वात् ॥ इति श्रीविक्रमार्कसत्त्वप्रबन्धः॥ 20 दरिद्रक्रयप्रबन्धः (B. BR.)
६४) अथैकदा सर्वत्र देश-देशान्तरे इयं वार्ता-यदुजयिन्यां सर्व विक्रयमामोति । एकेन राज्ञोक्तम्-तदर्ह प्रेषयिष्यामि यत् कोऽपि न लाति । तेनायोमयो दरिद्रनरः कारितः। एकस्मिन् करे सूर्य्यमन्यसिन् प्रमार्जनी । एवं कृत्वा व्यवहारिणोऽर्पितवान् । उज्जयिन्यां गतः सर्व वस्तु विक्रीय एष दर्शनीयः । लक्षं मूल्ये वाच्यम् ।
यदि कोऽपि न गृह्णाति तदा नृपप्रतोल्यां शब्द क्षिप्त्वा पुरस्य दोषं दत्त्वा व्यावर्त्तनीयम् । तेन तत्र गत्वा सर्व 25 विक्रीतम् । व्यवहारिभिरुक्तम्-किमस्मिन् शकटे ?, उद्घाट्यताम् । तेन दर्शितो दरिद्रनरः। किमिदम् ? । नाम्युक्ते सर्वः कोऽपि नेत्रे निमील्य नष्टुं प्रवृत्तः । तेनोक्तम्-लक्षं दत्त्वैष गृह्यताम् । पुर्या दोषं नानयतेति वदतोऽपि जनो दूरं गतः । तेन नृपद्वारे नीत्वा व्याहृतम्-अस्माकं दरिद्रनरं न कोपि गृह्णाति । पुरदूषणं दत्त्वा यामः । नृपेणाहूतः। दरिद्रपुत्तलः समानीतः । सभाजनस्तु नेत्रे निमील्य स्थितः । नृपेण लक्षं दत्त्वा क्रीतः । भाण्डागारे क्षिप्तः। इतो रात्रेः प्रथमे यामे सुप्ते पुमानेकः समेत्य नृपं प्राह-देवाहं यामि । कस्त्वम् ? । गजाधिष्ठाता । कथं 30 यासि ? । दरिद्रक्रयात् । यत्र दारियं तत्र गजाः क्व ? । तर्हि याहि । तस्मिन्गते द्वितीये यामेऽप्येकयोक्तम्-देव! मुत्कलापयामि । का त्वम् ? । श्रीः। कथम् ?-दारिये क्रीते श्रीः क । मत्संघातो याति । सत्वरं याहि । इतस्तुरीययामे पुमानेत्य बभाषे-देव! मुत्कलाप्यसे । कस्त्वम् ? साहसपुमान् । नृपेणोक्तम्-त्वं मा व्रज । कथं त्वया दारियं क्रीतम् ? । यत्र तत् तत्र साहसं व? । नृपेणोक्तम्-यदि सत्त्वमासीत्तदा क्रीतम् । येषां न, तैः कथं न क्रीतम् ।
यदि यासति तदा विक्रमादित्ये मृतेइत्युक्त्वा क्षुरिका कृष्टा । तेनोक्तम्-देव ! मैवं कुरु । सकलः सार्थो मयि 85 स्थिते स्थितः। प्रातर्नृपेण दरिद्रपुत्तलकं सभायामानाय्य रात्रिवृत्तान्तं निवेद्य दूरीकृतः।इति दरिद्रक्रयप्रबन्धः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org