________________
प्रबन्धचिन्तामणिसम्बद्ध:
॥ पुरातनप्रबन्धसङ्ग्रहः ॥
[ P. B. BR. G. Ps. सञ्ज्ञकसङ्ग्रहग्रन्थेभ्यः सङ्गृहीतः । ]
१. विक्रमार्क-प्रबन्धाः ।
'विक्रमार्कसत्त्वप्रबन्धः (B. )
(१) अकार्षीदनृणामुर्वी विक्रमादित्यभूपतिः । स्वर्णे प्राप्ते तु है रंकस्तुरष्काकुलितां व्यधात् ॥ (२) हूणवंशे समुत्पन्नो विक्रमादित्यभूपतिः । गन्धर्वसेनतनयः पृथिवीमन्नृणां व्यधात् ॥
९१) उज्जयिन्यामुच्छिन्नवंशो विक्रमादित्यनामा जननीसहायोऽस्ति । तस्य भट्टमात्रो नाम मित्रम् । स एकदा द्रव्यार्जनाय मित्रेण सह जननीमापृच्छ्य चचाल । वज्राकरं स्मृत्वा तदुपरि प्रस्थितः । क्रमेण रोहणाचले 5 गतस्तत्र ग्रामे रात्रौ वसितः प्रातः खनित्रमादाय रोहणाद्रौ गतः । तत्र कौपीनमाधाय त्रिवेलं ' हा दैव' इत्युक्त्वा ललाटं करेण हत्वा घातो दीयते । अतो भट्टमात्रेण चिन्तितम् - असौ सत्त्ववानस्ति । अपूर्ववार्ता विना न 'हा दैव' इति वक्ष्यति । अतो भट्टमात्रेणोक्तम् - देव ! उज्जयिन्या एको जनः समायातस्तेन तव मातुरनिष्टमुक्तम् । इति श्रुत्वा विक्रमार्केण 'हा दैव' इत्युक्त्वा करात्कुद्दालकः क्षिप्तस्तस्य संघातेन दिव्यं रत्नं प्रादुरास । विक्रमेणात्ते मित्रेणोक्तम्– कुशलं गृहे, कोऽपि नायातः । तर्हि कथमलीकमुक्तम् ? । तदनु इमं श्लोकं पठता 10 विक्रमार्केण करात्यक्तं दूरे
(३) धिग रोहणगिरिं दीनदारिद्र्यव्रणरोहणम् । दत्ते हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥
इत्युक्त्वा यथागतं ययौ । पुनरुज्जयिन्यामायातस्तत्र पटही वाद्यमानः श्रुतः । कमपि नरं पप्रच्छ - को हेतुरत्र ? । तेनोक्तम्- अत्र राजा विलोक्यते । कथम् ? । योऽत्र राजा भवति स रात्रौ विपद्यते । विक्रमेणोक्तम्- अहं भविष्यामि । इत्युक्ते प्रधानै राज्ये स्थापितस्तेन सन्ध्योपरि नैवेद्यानि कारितानि । पुष्पाद्युपस्करः सकलोऽपि सञ्जी-15 कृतः । पल्यङ्कपार्श्वे पुष्पगृहं तत्र नाना नैवेद्यानि ढौकयित्वा स्वयं खड्ग माकृष्य जाग्रन्नस्ति । इतो गवाक्षविवरात् धूमो विस्तृतः । क्रमेण बर्बरो वेतालः प्रकटीभूतः । नैवेद्यं खेच्छया भुक्तवान् विलेपनं च । पश्चात्तुष्टः सन् विक्रममाहूय बभाषे - राजन् ! तव भक्त्याऽहं तुष्टः । त्वं राज्यं कुरु । परमियद्दिने दिने देयम् । तस्मिन् गते नृपः सुप्तः । प्रातर्नृपकर्षकाः समाजग्मुः । ते नृपं जीवन्तमालोक्य हर्षकोलाहलं चक्रुः । प्रधानपुरुषैर्नृपोऽभिषिक्तः । नित्यं नित्यं तावन्नैवेद्यं निष्पद्यते । एकदा नृपेणोक्तो बर्व्वरः - कस्त्वम् । । तेनोक्तम् - इन्द्रसेवकः । तर्हि मद्वाक्यादिन्द्रं 20 पृष्ट्वा कल्ये 'वाच्यम्–यद्विक्रमस्य कियदायुः । स द्वितीयदिने वादीत् - वर्ष १ शतम्, नाधिकं न न्यूनम् । तर्हि इन्द्रपार्श्वान्मे वर्षद्वयमधिकं कुरु । तेनोक्तम् - इन्द्रेणाप्यनेनायुरधिकं न भवति । तर्हि वर्षद्वयं न्यूनं कुरु । तदपि न भवति । इति विमृश्य द्वितीयदिने नैवेद्यं नाकार्षीत् । स क्षुधितः सन् नृपं प्राह-त्वं स्ववाक्याच्युतः । अतः शस्त्रं कुरु । शस्त्रे कृते नृपेण भूमौ पातयित्वा कण्ठे चरण ः प्रदत्तः । तेनोक्तम्- मा मारय । तवाहं किंकरः । स्मृतेरनु समेष्यामि ॥
1
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org