________________
प्रास्ताविक-टिप्पनीसूचितपरिशिष्टसंग्रह। मूर्तिः । ततः सुरत्राणेन मुद्रघाते दत्तेऽग्निस्फुलिंगाः प्रकटीभूताः, परं न भन्नः । तेन प्रभावेण रखितेन स्थालं टङ्ककै(स्वा नेमिर्व पितः । रात्रौ केनापि म्लेच्छेन सर्वाः श्यामलप्रतिमा एकत्र मध्ये संस्थाप्य रात्रौ सुप्तम् । एवं च व्यवहारिणामने कथितम्-यद्यते भूता रात्रौ मम प्रत्ययं दर्शयिष्यति तदा छोटयिष्यामि नोचेत्सर्वाचूर्णीकरिष्यामि । एवं कथयित्वा सुप्तः । परं कालवशेन कोऽपि चमत्कारो न दृष्टः । प्रातः श्राद्धजनेन म्लेच्छव्यतिकरं बिम्बव्यतिकरं च सुरत्राणाने निवेदितम् । सुर० स आहूतः पृष्टश्च-भो! तवाने भूतैः किमपि कथितं न वा? । तेनोक्तम्-नहि नहि । ततः सुरत्राणेनोक्तम-सर्वैर्भतैर्ममाग्रे मीनतिः कृता, अयं दृष्टः अस्मानभिभवति तेन त्वया शिक्षा दातव्या। ततः स धृतो निर्घातनाथ श्राद्धैः कृच्छ्रेण मोचितः। एवं प्रकारेण गमनागमने सर्वजनाशां पूरयन् योगिनीपुरे सूरिभिस्सह महामहोत्सवपूर्वकं प्रावीविशत् सुरत्राणः ॥
॥ इति श्रीजिनप्रभसूरीणां प्रबन्धोऽयं ॥ लिखितं पं० रविवर्द्धनगणिभिः ॥
[४] G संग्रहस्थित जीव-इन्द्रियसंवादकथा । अन्यदा जीवस्येन्द्रियैः सह विवादः । तानि भणन्ति-वयं भव्यानि, अस्मद्विना न स्युः किञ्चन । स जीवो भणेदहं चारुः । एवं सति जीवेनोक्तम्-यान्तु भवन्तः । गते नेत्रे । ताभ्यां विनापि भ्रमणादिकाः क्रियाः कुरुते । ततः कौँ गतौ । ताभ्यां विनापि जातं सर्वम् । नाशिकापि जिह्वापि गता । स्वादं न लभते। गतैः सर्वैरपि जीवः सर्वानपि व्यापारान् कुरुते । ततो जीवेनोक्तम्-आयान्तु भवन्तः । अहं यामि । तथा कृतम् । जीवो वपुषो दूरे स्थित्वा स्थितः। ततः मृत इव स्थितः । वालोा (?) भणत-को गरीयान् ?। तैरुक्तम्-भवान् । एवं निर्णयः झकटकस्य । अतो जीवो नरके न क्षेप्य इन्द्रियाणां स्वार्थ साधयित्वा ॥ ३ ॥
[५] G संग्रहगत धनश्रेष्ठीकथानक । पृथ्वीपुरे धनश्रेष्ठी। तस्य चत्वारः पुत्राः । नियमाणेन पित्रा शय्याधःस्थिताश्चत्वारः कलशा विभज्य समर्पिताः। तेषु रजो-ऽस्थि-भूर्ज-हेमादि विद्यते । ततः पितुर्पतेरनन्तरं ते परस्परं विवादं कुर्वाणाः पशुपालेनैकेन वारिता एवम्रजा क्षेत्रम्, अस्थि पशुअश्वमनुष्यादि, भूर्ज लेख्यादि, कलाहीनः किमपि न वेत्ति सुवर्णम् ॥ १४ ॥
1 नास्त्येतत्पदं रविवर्द्धनप्रती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org