________________
प्रास्ताविक - टिप्पनीसूचितपरिशिष्टसंग्रह ।
३१
र्षितः । निजावाससम्मुखं प्रौढं जिनालयं कारयित्वा स्थापितः । पृष्टम् - भोः सूरे ! श्रीवीरः पृष्टस्सन् किमप्युत्तरं दत्ते वा । सूरिराह-सर्वं कथयति । तदनु, अन्ते जवनिकां बद्धा सुरत्राणेनोक्तम्-अस्मिन्नगरे कियन्तः सुरत्राणा जाता: ? । वीरेणोक्तम्- सर्वेषां नामायूराज्यपदपालनपूर्वकं संख्यादि । तेनातीव हृष्टोऽभूत् । पुनः पृष्टम् - भवन्तः कियन्तः सन्ति ? । वीरेणोक्तम्-वयं ऋषभप्रभृतयः २४ संख्याः स्मः । तदनु अतिहृष्टेन तेन पंचाशतं द्रम्माणां प्रतिदिनं भोगपुष्पादि पूरितम् । परमेतत्सर्वं सूरिध्यानबलेनैव । तस्मिन्मेले जिनालयं कारितं येन निजावासस्थितो नित्यं प्रणामं करोति । एकदावसरे सूरिणा विजययत्रप्रभावः प्रोक्तः । तदनु पंचाशतद्रम्मैः स कारितः । सुरत्राणेन पृष्टम् - कः प्रभावः ? । सूरिणा कथितम् - यत्रायं यत्रो भवति तत्रारिः कोऽपि नायाति । ततः सुरत्राणेन निजच्छत्राधराखुर्व्यस्तः । ततो मा मुक्ता परं छत्रच्छायायां कथमपि ओतुनैति । अपरः प्रभावः - यस्य देहे असौ बध्यते तस्य प्रहारो न लगति । तदनु सुत्रान छागमानाय्य तस्य देहे विजययत्रो बद्धः । बहवः खड्गप्रहारा मुक्ताः परमेकोऽपि न लग्नः । एकदा सुरत्राणो गूर्जरधरित्रीं प्रति यात्राभिप्रायेण सूरिं प्राह- पांडे ! अहं कस्यां प्रतोत्यां निस्सरिष्यामीति पृष्ठे सूरिणा चिठडिकां लिखित्वा सर्ववृत्तान्तयुतां गोलकान्तस्तां क्षित्वा मुद्रां दत्त्वाऽर्पितो गोलकः । हे देव ! त्वया योगिनीपुर बहिर्गत्वा गोलकं स्फोटयित्वा वाचनीयमिति प्रोक्तम् । सुरत्राणेन तथा कृतम् । यत् सुराणः काकराख्यकोटस्य' एकत्रिंशच्छराणि पातयित्वा निस्सरिष्यति । तेनाभिज्ञानेन स हृष्टः । सच्छायमंजरीफल भ्राजिष्णोराम्रस्य तले सर्वकटकं मेलयित्वा प्रस्थानं साधितम् । तेन सूरिः पृष्टः - भो पांडे ! कीदृशो नयनानंदकारी सहकारोऽस्ति ? । सू० सत्यमेतत् । ततः सूरिणा
वृक्षः प्रयाद्विकं सुरत्राणोपरि छायां कुर्वन् सार्द्धं चालितः । सूरिः सुरत्राणेन पृष्टः - भो पांडे ! असौ वृक्षः कस्मात्सार्द्धं समेति ? | सूरिणोचे-यदि सुरत्राणो विदाहिं ददाति तदा पश्चाद्वलित्वा स्वस्थाने याति नान्यथा । तदनु सुरत्राणेन विसर्जितश्चतो निजस्थाने गतः । स सूरिः कियत्प्रयाणैर्नागपुरादिमार्गेण मरुस्थल्यां प्राप । प्रतिग्रामं तन्निवासिनार्योऽक्षतनालिकेरकुसुममालाचन्दनादिभिः [ सूरिराजं ' ] सुरत्राणं च वर्द्धापयन्ति । स ताः सर्वा विलोक्य कंचन पार्श्वस्थ नरं प्राह - एताः स्त्रियो विभूषणपट्टकूल मौक्तिकादिभिर्विवर्जिताः कथम् ? । केनापि दंडिता वानीपाते पातिता वा; येनेहशीनिःश्रीका दृश्यते । (?) तदनु तेन नरेणोचे - हे देव ! अयं देशो निर्द्धनः स्वभावेनैव, अन्यत्किमपि कारणं नास्ति । ततः सुरत्राणेन परोपकारधिया प्रतिस्त्रियं । दीनारङ्ककाः स्वर्णमया: समर्प्य प्रणामं कृत्वा स्वगृहे प्रहिताः । एवं प्रतिग्रामं समस्तबिर्द्धन जनानामाशाः सफलयन पत्तनं यावत्पूर्वरीत्या प्राप । जंघरालनगरे बहिः कटकमुत्तरितम् । श्रीजिनप्रभसूरयः पत्तननगरं गच्छन्तः तपापक्षश्री सोमप्रभसूरिशालायामीयुः । श्रीसोमप्रभसूरिभिस्तेषां प्रशंसा कृता । श्रीप्रभूणां प्रभावादेव सम्प्रति श्री जिनधर्समाहात्म्यमस्ति इति । तैः प्रत्युक्तम्-वयमविरताः सुरत्राणेन सार्द्धं रात्रिंदिवं व्रजामः । सर्वदाऽस्वतन्त्राः । यूयँ चारित्रिणः । युष्माकमाधारे चारित्रमस्तीति । एवंविधप्रस्तावै साधुभिः प्रतिलेखनार्थं सिक्किको-' तारिता । एकस्य साधोः सिक्किका मूषकैर्जग्धा । तद्वचः श्रुत्वा श्रीसूरिभी रजोहरणं भ्रामितम् । ततः सर्वे मूषकाः शाला [तो बहिः ] निःसृत्य सूरेर उपविष्टाः । सूरिभिरुक्तम् - अहो आखव ! एते साधवः कीटिकाया अपि विरूपं न चिन्तयन्ति; भवद्भिः कस्माद्विनाशोऽकारि ? । पुनरुक्तम् वयं कस्यापि विरूपं न चिन्तयामः, एवं यः कश्चिदपराधी स तिष्ठतु, अन्ये गच्छन्तु । ततस्तस्य मूषकस्य देशपट्टी दत्तः, शालान्तर्न स्थेयम् । ततः स द्वारेण निःसृत्यान्यत्र गतः । कियद्दिनानि पत्तने स्थित्वा गूर्जरत्राव्यवहारिभिः सह सुराष्ट्रं प्रति चलितः । एकदा सूरिः पृष्टः - भो पांडे ! हीन्दूजनमध्ये किं तीर्थं बृहत् ? । सूरिराह - राजादनो दुग्धेन वर्षति । तदनु पातसाहिना संघपतीभूय पूजामहाध्वजाऽऽवारिकारात्रिकादिकं कृत्वा संघेन सार्द्धं सहस्रलोकेन सूरिभिः सह त्रिः प्रदक्षिणां कृत्वा राजादनितरोरधः स्थितम् । तावता सूरेर्ध्यानबलेन संघसहितसुरत्राणोपरि कुंकुमकेसरकर्पूरमिश्रं दुग्धं राजादनितो ववर्ष । ततश्चमत्कृतचित्तेन सुरत्राणेन सह गिरिनारं प्रति चलितः । तीर्थासन्नगतेन तेन सूरिः पृष्टः-अस्य तीर्थस्य कः प्रभावः ? । सूरिराह अच्छेद्येोऽभेद्योऽयम् । किन्तु वज्रमयी 1 प्र० - कोष्टस्य । 2 प्र० - वदाहि । 3 प्र०- 'वलित्वा' नास्ति । 4 प्र० - नागपुरनगरमार्गेण । ॐ प्रठ - एतैत्पदं नास्ति । -
I
Jain Education International
For Private Personal Use Only
www.jainelibrary.org