________________
प्रास्ताविक - टिप्पनीसूचितपरिशिष्टसंग्रह ।
गयइ ( ? ) वइकेरइ देव मढि नहु केणइ परिभुत्त । निश्चोरइ गुज्जररज्जि जिम पाय पसारवि सुत ॥ नृपेण प्रातश्चरणयोगित्वा मानिताः । [४] BR संग्रहस्थितजिनप्रभसूरिप्रबन्ध* ।
खरतरपक्षे श्रीजिनसिंहसूरित: श्राद्धादिभेदेन पक्षद्वयमजनि । ततः श्रीजिनसिंहसूरिभिः पद्मावतीदेव्या 'राधनार्थं षण्मासान् यावदाचाम्लतपः स्मशाने गत्वा तदाराधनं चक्रे । ततः प्रत्यक्षीभूतया पद्मावत्योचे - किमर्थमाराद्धा ? । तैरुक्तम् - राज्ञः प्रतिबोधशक्ति देहि । देव्योक्तम्-तव षण्मास्येवायुः । तेन किं नृपबोधशक्त्या ? । तथापि वागडदेशे गच्छ । तत्र ग्रामे दश भ्रातरः सन्ति, तत्रैकस्य लघुः सप्ताष्टवार्षिकः सुतोऽस्ति पादे किञ्चिन्यूनांगुलित्वेन लंघायमानः । तान् प्रतिबोध्य †दीक्षय । तस्य च स्वल्पाराधनेनाप्यहं प्रत्यक्षा भाविनी । स च नृपप्रतिबोधकः शासनप्रभावको भावीत्युक्त्वा तिरोदधे देवी । स च सूरिः सर्वं तथा कृतवान् । तं चादीक्षयत् । स्वायुःप्रान्ते तस्य चायं पदमपि ददे योग्यतां ज्ञात्वा । ततः श्रीमल्लिषेणसूरेः स्याद्वादमञ्जरीकर्तुः पार्श्वेऽधीतवान् । [ स ]श्रीजिनप्रभसूरिः । तस्य च यदा यदा भाणने संशयो भवति तदा तदा निद्रायमाण इव किञ्चित् विमृशति । तदा सम्यग् बुध्यते च । ततो घूर्मा (र्ण ?)सरस्वती तस्य नाम तावता दत्तम् । श्रीजिनप्रभसूरिस्तु कियदु ग्रन्थाध्ययनानन्तरं बहुशुद्धप्रज्ञत्वेन तद्घूर्णनावसरे तमर्थं लिखति सम्यग् बुध्यते च । ततो गुरुभिस्तं तथा कुर्वन्तं दृष्ट्वा तस्य प्रत्यक्ष सरस्वती बिरुदं ददे । स क्रमेण म्लेच्छाधिराज पा० पीरोजादिप्रतिबोधकञ्चाभूत् । तेन च साहाय्येन स्याद्वादमञ्जरीवृत्तिः स्वगुरोः कृतिरिति शोधिता । ततः “श्रीजिनप्रभसूरीणां सहायोद्भिन्नसौरभे”त्यादि तत्प्रशस्तौ तैर्न्यस्तम् ॥ इति श्रीजिनप्रभसूरीणामुत्पत्तिप्रबन्धः ॥
एकदा सभास्थे सुरत्राणे सूरिभिः समं धर्मगोष्ठीं कुर्वाणे कोपि मुलाण आगतः । तेन निजटोपिका आकाशे स्थापिता । तदा च सभासदां चमत्कारः समजनि । तदनु सुरत्राणेन सूरेर्मुखं विलोकितम् । ततः सूरिणा निजरजोहरणमुच्छाल्य टोपिका पातिता, परं रजोहरणं नभसि स्थितम् । गुरुणोक्तम् - यस्य कस्यापि शक्तिरस्तु स पातयतु । परं केनापि नापाति । ततस्तैरेव दक्षिणकरेणाग्राहि । द्वितीयदिने तेनैव सजलकुम्भो नभसि स्थापितः । ततो गुरुणा सुरत्राणानुज्ञया रजोहरणेन कुट्टयित्वा घटो भग्नः पानीयं तत्रैव मोदकाकारण स्थितम् । तेन चमत्कारेण जिनशासने महती प्रभावना जाता । एकदा सुरत्राणेनोक्तम्- भोः सभ्याः ! शर्करा कस्य मध्ये क्षिप्ता मिष्टा स्यात् । ततः सभ्यैः स्वधियोक्तं परं तन्मनसि न चमत्करोति । ततस्तेन सूरिः पृष्टः । मुखमध्ये । तेन रञ्जितः । अन्येद्युः स्वमुद्रिकां स्वयं पर्यङ्कपादतले संस्थाप्य सूरिं प्रति प्राह- मम मुद्रिका गता सम्प्रति कास्ति ? सूरिणोक्तम् - योगिनीपुरमध्ये । पुनः पृष्ठे, राजभवनान्तः । पुनः पृष्टे, सभामध्ये । पुनः पृष्ठे पल्यङ्के पादचतुष्टयमध्ये । तत एकं पल्यङ्कपादमुत्पाट्यांगुल्यर्पिता । तेन स रञ्जितः ।
एकदा पृष्टम् - दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधियोक्तम्- परं तन्न मनचमत्कारकारि । सूरिणोक्तम् - वुणिफलं वृद्धम् । येन नवखंडपृथ्व्या लज्जा ढंक्यते । तेन हेतुना जगढंकणीति बिरुदं दत्तम् । एकदा ततः सुरत्राणः समुत्थाय सूरिणा सह स्वावास सोपान कानुल्लंघ्यमानः, एकस्मिन् सोपानके श्रीवीरबिम्बं म्लेच्छैः स्थापितमस्ति, तदुपरि सूरिणा पादो न दत्तः । सुरत्राणेनोचे - कुतोऽस्मिन् प्रस्तरे पादं न ददासि ? । तेनोचे - महावीरोऽसौ कथ्यते । सुरत्राणोऽवकूयद्यसावीदृग् नाम बिरुदं धत्ते तदा कस्मान्मौनेन स्थितः । सूरिराह - हे देव ! यतः कथितं देवेभ्योऽपि दानवा बलिनः स्युः । दुरवस्थापतितानां सर्वेषामीदृगवस्था स्यात् । तदनु सुरत्राणेन निजनरा निष्कासनहेतवे प्रहिताः परं सहस्रैरपि न निःसरति । तदनु सुरत्राणेन पृष्टः सूरिराह-यदि स्वयमेव गत्वोत्पाट्यते तदा निस्सरति नान्यथा । तथा कृत्वाऽऽकएष प्रबन्धः BR सङ्ग्रहे लिखितो लब्धः । तथैवैकस्मिन् अन्यकथासङ्ग्रहेऽप्युपलब्धः । अतोऽस्य पाठभेदा अपि अत्र सङ्ग्रहीताः 1 रविवर्द्धनप्रतौ 'देवी' नास्ति । + एतदन्तर्गता पंक्तिः पतिता प्राचीनादर्शे । 2 प्र० - अंगुलीयमर्पितम् ।
सन्ति ।
३०
*
प्रातर्नृपेण पृष्टा -
Jain Education International
For Private Personal Use Only
www.jainelibrary.org