________________
प्रास्ताविक - टिप्पनीसूचितपरिशिष्टसंग्रह ।
२९
उक्तं च-- इह भरते गंगापुरे गंगदत्तराज्ञः गंगाकुक्षिसमुद्भवा गंगसेना सुताऽऽसीत् । चंद्रयशासाध्वीसमीपे सुता सम्यक्त्वसारं धर्मं प्राप्यातीव सदाचारचतुरा बभूव । कदाचित्तत्रैव पार्श्वे गंगाभिधा तपोधना तपस्तपति । तां लोको नमति स्तौति च । अस्याः सदृशी तपःपात्रं साध्वी क्वापि न दृश्यते जगति - इति प्रशंसावाक्यं श्रुत्वा गंगसेनाऽसहमाना लोका इति कथयति - इयं गंगा दम्भपरा दिवा तपः करोति रात्रौ राक्षसीव मृतकमांसं भक्षयति । अस्या नामापि न ग्राह्यम् । सा गंगा क्षमापरा सती सर्वं सहते न किमपि वदति । तदलीकदूषणेन दूषिता गंगसेना महत्तपः कृत्वा मिथ्यादुः कृतस्यादानात् मृत्वा स्वर्गं गता । पश्चाद् भवं भ्रान्त्वा मुहुर्मुहुः, गंगापुरे राज्ञः सुता जाता । ततो मुनिसुव्रततीर्थनाथस्य पार्श्वे धर्मं प्राप्य सकपटं विकटं तपो विधाय पर्यन्तेऽनालोच्यानशनान्मृत्वा ईशानेन्द्रस्य प्रिया जाता । ततः पश्चाद् हरिषेणमहीपतेः सुता जाता ऋषिदत्ताभिधाना । अस्याः स कलङ्क उदयं गतः । सा गंगा साध्वी भवान् भ्रान्त्वा रुक्मिणीसपत्नी जाता । तेन कलंकोडदाय रुक्मिण्याः । अतो भवशतैरपि कर्मभ्यो न छुट्यते । ततः सूरिवचनाज्जातिस्मरणतः पूर्वभवस्वरूपं विज्ञाय राजा सुतं सिंहरथाभिधानं राज्ये संस्थाप्य सकलत्रो व्रतमग्रहीत् । ऋषिदत्तासाध्वी भद्दिलपुरे श्री शीतलतीर्थे[ रा ] जन्मभूमौ केवलज्ञानं प्राप्य मुक्तिं जगाम ।
॥ इति ऋषिदत्ताकथानकं समाप्तम् ॥ १७ ॥
[२] B और BR संग्रहस्थित मोरनागप्रबन्ध ।
एकदा श्रीशत्रुंजये राजादनतरोरधः श्रीआदिनाथे (Br श्री ऋषभदेवे) समवसृते मयूरमुखात् सर्पश्चरणाये पपात । मयूरः पृष्ठिमाययौ । खामी विस्मितः । वैरं दृष्ट्वा तयोर्भगवानाह - भोः ! पूर्वभवाभ्यासादिहापि वैरमारब्धम् ? । शृणुतःवालाकदेशमध्ये सुग्रामग्रामे दत्तः श्रेष्ठी । तस्य द्वौ सुतौ । एकदा श्रेष्ठी अनशनं जगृहे । निर्व्यजनं मत्वा लघुना कटाहि: कृष्टा । इतो वृद्धो भ्राता आययौ । तेन दृष्टा.... गार्थे कलहं कृत्वा मृतौ । तत्रैव सर्वौ जातौ । युद्धा मृतौ । तृतीयनरकं गतौ । तदनु संडौ जातौ । मिलितौ, युद्धा मृतौ । तदनु सर्प - मयूरौ जातौ । अत्रापि तदेवारब्धम् ! । ततो जातजातिस्मृती भगवता दत्तमनशनमादाय मृतौ । चतुर्थदेवलोकं गतौ ॥
॥ इति मोरनागप्रबन्धः ॥ १८ ॥
[३] Be संग्रहोपलब्धबप्पभहिरिकथाप्रकरण ।
एकदा प्रेक्षणे जायमाने गुरूणां बप्पभट्टिसूरीणां पुस्तकं (?) दृष्टिस्तिमिरेणावृता बप्पभट्टिसूरिभिर्नर्त्तक्या नीलीकंचुके दृष्टिः क्षिप्ता । आमनृपेण ज्ञातं मम मित्रस्यैतस्यामभिलाषोऽस्ति । अत्र किं दुष्करम् । कांठुलीमाहूय रात्रौ मम मित्रमंठे वसनीयम् । इतः सा रात्रौ छन्ना मठं गत्वा गुरूणां चरणसंवाहनं चक्रे । गुरुभिरुक्तम् - का त्वं ? । अहं नर्तकी देवेन प्रहिता । इतो गुरवो रोदितुं प्रवृत्ताः । तया ज्ञातं दशम्यां कामावस्थायामेते । यथा
नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः ।
निद्राच्छेदस्तनुता स्वभावव्यत्ययस्वपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥
तयोक्तम्-मयि स्वाधीनायां किमिति रुद्यते ? । ताभ्यामु (तैरु ?) तम् - अस्माकं गुरवः स्मृताः । कथं ? - शिशुत्वे गुरूणां पाश्चात्यप्रदेशेषु लुठनं तव पयोधरैः स्मृतम् । तदनूक्तम्
चक्षुः संवृणु वक्रवीक्षणपरं वक्षः समाच्छादय रुद्ध स्फूर्जदनेकभङ्गि चतुरं शृङ्गाररम्यं वचः । अन्ये ते नवनीतपिण्डसदृशा मर्त्या भवन्ति क्षितौ मुग्धे ! किं परिखेदितेन वपुषा पाषाणकल्पा वयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org