________________
प्रास्ताविक-टिप्पनीसूचितपरिशिष्टसंग्रह । नेहाट्यभाषणपूर्व भोजनवस्त्राभरणादिदानं विधाय कौबेरी प्रति तेन मुनिना समं गृहीत्वा गतः । रुक्मिणी परिणीता । तया रुक्मिण्या एकान्ते महास्नेहे जाते पतिः ऋषिदत्तावृत्तान्तः पृष्टः । तेन कथितम्-ऋषिदत्तायाः शीलगुणो विनयगुणो रूपगुणादिकोऽनिर्वचनीयस्तत्र किं कथ्यते । उक्तं च
रूपलक्ष्मीयुषो यस्याः समस्या कामकामिनी । कर्णिका-मेनिका-नागयोषितः पदपांशवः ॥१४॥ जाते तद्विरहे दैवादासी त्वमसि मे प्रिया ।
यत् क्षीरेण विना घृष्टिरपि प्रीतिकरी न किम् ॥१५॥ तदभावे त्वं मया परिणीता । यथा षट्रसपेशलस्य भोजनस्याप्राप्त्या किं कथितान्नं न भुज्यते । तद्वचनं श्रुत्वा गृहवासमवगणय्य सा रुक्मिणी पूर्वकारितं निजं पौरुषं सर्वं कथितवती । कुमारस्तदाकर्ण्य महासकोपस्तामात्त्यक्त्वा, रे! पापिष्ठे ! आत्मानं मां च नरके कथं क्षिपसि? गच्छ, मम नेत्रादपसर । अदृष्टमुखी भव । सा रूपवती महासती कथाशेषी कृता। लोकद्वयविरुद्धमप्रेक्ष्य तदा मुनिस्तद्वचनं श्रुत्वा निजकलङ्कगमनेनातीव हृष्टः । निशान्ते राजाङ्गणे चितां कारयित्वा कुमारः काष्ठभक्षणाय श्वशुरेण लोकेन च वार्यमाणोऽपि यावचलितः, तदा सर्वलोकवचनोपरोधात्तपखिमुनिनोक्तम्-हे कुमार! कोऽपि मृत्वा कर्मवशाद् भिन्नगतिक आत्मप्रियस्य मिलितः ? । इति वारितोऽपि यदा न तिष्ठति तदा मुनिनेत्युक्तम्-देव! तव खेहाकृष्टा सा मृताऽपि मिलिष्यति, इति ज्ञानेन जानामि । कुमारः पृच्छति-भवद्भिः क्वापि सा दृष्टा ज्ञाता वा । कथं किंवा हास्यपदम् ?-इति पृष्टे यमपुरे कृतान्तमन्दिरे तव प्रिया विद्यते । यदि तस्याः स्थाने ग्रहणके कोऽपि मुच्यते, तदा समेति । इत्युक्ते कुमारश्चिन्तातुरः तत्र को याति, कस्तिष्ठति?; इत्युक्ते मुनिनोक्तम्-देवाहं यास्यामि । यतो दुस्त्यजः स्नेहस्त्वया समम् । यदि भवान् ममादेशं दास्यति तदाहं यास्यामि । कुमारः प्राह-मयाग्रे तुभ्यं जीवितव्यं हृदयं दत्तम् , शेषं जीवितव्यं विद्यते तदपि गृहाण । तेनोक्तं पुनर्मूते कार्ये यत्किञ्चिदहं याचि (?) तन्निषेधयितव्यं नहि । ओमित्युक्ते प्रतिश्रुते स मुनिलक्षसंख्यलोकसमक्षं पटान्तरे प्रविष्टः । क्षणान्तरे मुक्तं पूर्वम् । दृष्टिः क्षिप्ता । ततोऽतीव हृष्टः कुमारः । ऋषिदत्तायुतः श्वशुरेण पूजितः । निजा सुता निर्भसिता । अकृत्यकारिणीति भणित्वा । पश्चात्प्रयाणकमुहूर्ते ऋषिदत्ताया अग्रे इति भणितम्-अहं खमित्रं यममन्दिरे तत्र (व.) स्थाने मुक्त्वा कथं यामि गृहम् ? । अहं मित्रसमीपे गमिष्यामि । तदा हसित्वा प्रिया प्राहदेव! एतत्सर्वं जनकदत्तौषधविलसितम्। भवद्भिरन्यन्नावधारणीयम् । परं यथा रुक्मिण्यां प्रसादो भवति तथा कर्तव्यम् । यतः
न हसंति परं न थुणंति अप्पयं विप्पिअंपि न चवंति ।
एसो जाण सहावो नमो नमो ताण पुरिसाण ॥ १६ ॥ प्रियावचनं श्रुत्वा हृष्टः । श्वशुरेण प्रेषितः । प्रियाद्वययुतो निजपितृगृहं ययौ । ततो हेमरथो राजा निजापराधविलक्षो वधूमनुनीय कुमारं राज्ये संस्थाप्य भद्राचार्यपाधैं व्रतं गृहीत्वा मुक्तिं गतः ।
ततः कनकरथस्य पृथ्वीं पालयतः ऋषिदत्तायाः सिंहरथो जातः । हर्षपूरितस्य राज्ञः कियत्यपि गते काले गवाक्षोपविष्टस्य मेघमण्डलं संपूर्ण दृष्ट्वा प्रचण्डपवनेन खण्डीकृतं गलितं च विज्ञाय चेतसि विरागवान् जातः संसारोपरि । इति चिन्तयति
जजरइ जहा देहं खणेण तहा जोवणं विणासेइ ।
खणदिट्ठनहरूवा इह इट्टसमागमा सवे ॥ १७ ॥ ऋषिदत्तायाः समं यावत् रात्रौ इति चिन्तयति, तावत्प्रभाते उद्यानपालकेन तत्रायातसूर्यागमनं कथितम् । ततः प्रियया सह गुरुं प्रणम्य देशनां श्रुत्वा प्रियाया राक्षसीकलङ्ककारणं निष्कारणं पृष्टवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org