________________
प्रास्ताविक-टिप्पनीसूचितपरिशिष्टसंग्रह । सुता पालिता । ततस्तां रूपवती ज्ञात्वा लोकापहारभयेनादृश्यीकरणमञ्जनं दत्तम् । सा बाला, या, हे राजकुमर ! त्वया दृष्टा । तया च त्वं दृष्टः । परस्परानुरागतः सांप्रतं मम सुतामिमां त्वं परिणय । तेन सा ऋषिदत्ता परिणीता । ऋषिणा कुमार प्रत्युक्तम्-अस्यास्त्वं जीवितेशवत् इति ज्ञेयं भवता ।
युक्तोऽसि भुवनभारे मा नम्रां कन्धरां कृथाः शेष! । त्वय्येकसिन् दुःखिनि सुखितानि भवन्ति भुवनानि ॥७॥ सम्प्रति न कल्पतरवो न सिद्धयो नैव देवता वरदाः।
जलद ! त्वयि विश्राम्यति जगतोऽपि हि जीवितारम्भः ॥८॥ मुनिः पुत्रीं प्रति शिक्षां ददाति
रक्खाकंडयमंतोसहीभि मा खिवसु पुत्ति ! अप्पाणं । छंदाणुवत्तणं पिअयमस्स एअं वसीकरणं ॥ ९॥ कुलवध्वा विधातव्यं श्वश्रूशुश्रूषणव्रतम् । दैवतं हि पतिः स्त्रीणां माता तस्यापि दैवतम् ॥ १० ॥ संसारभारनिर्वाहे वामा वामानवाहिनी ।
प्रसादपात्रं मोहस्य तेनैवालमलंकृता ॥ ११ ॥ अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता
तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो जह्याच शय्यामिति प्राच्यैः पुत्रि! निवेदिताः कुलवधूशुद्धान्तधर्माश्रमाः॥१२॥
. इति शिक्षा प्रदत्ता । मा भूः सुखे च दुःखे च वत्से ! धर्मपराअखी।
धर्म एव हि जन्तूनां पिता माता सुहत प्रभः॥१३॥ पश्चान्मुनिः राजसुतं सुतां मुत्कलाप्य खयं नमस्कारपरः सन् अग्नौ प्रविष्टः । तत आत्मीयकलत्रं रुदन्निवार्य प्रेतकृत्य कृत्वा तत्स्थाने वेदी विधाय निजपुरं प्रति कुमारश्चलितः । तया मार्गे सर्वत्रापि देवतादत्तबीजैर्वृक्षा रोपिताः, उद्गताश्च । प्रयाणैः पश्चाद्गृहं गतौ । पित्रा मात्रा वर्धापनं कृतम् । सुखेन तिष्ठन्ति ।
___ इतश्च, राजसुता रुक्मिणी ऋषिदत्तां परिणीतां श्रुत्वा कुमारं वाञ्छती महादुःखिता योगिनीं सुलसाभिधां षट्कर्मनिरतां सपन्यास्त्यागाय रथमईनपुरे प्रेष्य तयाऽवखापिनी विद्यां दत्वा पुरुषवध-नरमांसभक्षणे ऋषिदत्तायाः कलंकमारोप्य श्वशुरपार्थाद देशमध्यान्निष्कासिता । सा केनापि सार्थेन सह औषधप्रभावेण पुरुषवेषं विधाय खजन्मभूमौ पैत्रिकं वनं गता । सा योगिनी खपुरं गता । तया रुक्मिण्या अग्रे सर्व निवेदितम् । ततो रुक्मिण्या पितुरग्रे ऋषिदत्तामृतवृत्तान्तं कथयित्वा पाणिग्रहणार्थ कुमारस्याकारणाय विज्ञप्तेन जनकेन मनुष्यान् प्रेष्य सुतादानं विधाय प्रगुणितः । तैर्मनुष्यैः समं पाणिं ग्रहीतुं पूर्ववनं यावकुमारः समायातः, तां पूर्वभूमिकां दृष्ट्वा ऋषिदत्तागुणान् स्मृत्वा मुक्तकण्ठं रोदनं विधाय यावच्चैत्यं गतः, तावद्दक्षिणाङ्गस्फुरणं विचार्य, अत्र किं शुभं भावि ? इति किञ्चिच्चिन्तयन् यावदास्ते तावत्पुष्पो[प]हारहस्तः तपखिकुमाररूपधारी कोऽपि मुनिः समायातः । रूपपरावर्तेन पुष्पाणि कुमारस्य समर्प्य स्वयं देवपूजादिकृत्यं विधाय इति चिन्तितम्-यत् एष परिणेतुं गच्छति । ततः कुमारेण स मुनिः पृष्टः-कुतो यूयम् ? कथमत्र ? । मुनिनोक्तम्-अत्राश्रमे पूर्व हरिषेणराजर्षिः सुतां ऋषिदत्तां कस्यापि आगतस्य राजकुमारस्य दत्वा काष्ठभक्षणं कृतवान् । अस्मिन् शून्याश्रमेऽहं तस्य शिष्यतुल्यः देशान्तरे तीर्थयात्रां विधाय समागतः । पञ्चवर्षाणि बभूवुः । निजगुरुतीर्थमोहेन अत्राश्रमेऽहं तपःकुर्वाणोऽसि । ततः कुमारोऽतीव स्नेहोल्लासात्तं मुनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org