________________
प्रास्ताविक-टिप्पनीसूचितपरिशिष्टसंग्रह
[१] B संग्रहगत ऋषिदत्ता कथानक । रथमईनं नगरम् , राजा हेमरथः, सुयशा राज्ञी, पुत्रः कनकरथः । इतश्च कौवेरी नगरी, राजा सुन्दरपाणिः, राज्ञी वासुला, सुता रुक्मिणी । प्राप्तवरा जाता, कनकरथस्य दत्ता । ततः परिणेतुं तस्यागच्छतो देशसीम्नि आवासेषु दत्तेषु केनापि पुरुषेण इति विज्ञप्तम्-यत् , अस्य देशस्य स्वामी राजा अरिदमन इति ज्ञापयति-मम सीम्नि राजचिन्हानि मुक्त्वा त्वया एकाकिना गन्तव्यम् । अन्यथा युद्धसज्जो भव । तथा तस्य दूत[स्य ] मुखादमुं श्लोकं श्रुत्वा
यदि मत्तोऽसि मतंगज! किममीभिरसारसरलदलनैः।
हरिमनुसर खरनखरं व्यपनयति स करटकण्डूतिम् ॥१। श्लोकमाकर्ण्य युद्धाय समागतः ।
एयति घोडा एअ बल एअति निसिआ खग्ग। इत्थ मुणीस जाणीअइ जो नवि वालइ वग्ग ॥२॥ धडु घोडइ सिरु धरणिअलि अंतावलि गिद्धेहिं । -
महु कंतह रिणसामीअह दिन्नं तिहु खंधेहि ॥ ३ ॥ . स राजा कुमारेण जितः । आज्ञाविधायी जातः । स व्रतं पालयित्वा मुक्तिं जगाम । कुमारेण श्रीनेमितीर्थ प्रति] प्रयाण कृतम् । एकस्मिन्नपि सरसि आवासेषु जातेषु वनमध्ये काञ्चित्कन्यकां दृष्ट्वा गतां ज्ञात्वा परिभ्रमन् श्रीयुगादिचैत्यं गतः । देवस्तवनानन्तरं यावत्पद्यायां निविष्टः, तावदेको वृद्धतपोधनः कन्यासहितः पूजोपचारयुत्तो 'दृष्टः । कन्या कुमार विलोक्येति चिन्तितवती
किमिन्द्रः किमु वा चन्द्रः किमु वासौ दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः ॥ ४ ॥
अथवा कलङ्की रजनीजानिस्तपनस्तपनः पुनः ।
अनङ्गास्तु मनोजन्मा तत्कोऽयं सुभगाग्रणीः ॥ ५ ॥ अथ कुमारेण स नमस्कृतः । मुनिना इत्युक्तः-त्वं कस्य सुतः?, केन कारणेनात्रायातः ? । कुमारस्य भट्टेन पूर्ववृत्तान्तः कथितः । कुमारेणापि मुनेः पार्थादिति पृष्टम् कथमत्र ?, के यूयम् ?, का कन्या ?, कथमत्र देवगृहम् ? । कारणं कथयत । ततो मुनिना देवपूजाऽनन्तरं कुमारं निजाश्रये नीत्वा खचरित्रमिति कथितम्-वत्स! श्रूयताम् , अस्मिन् भरते मंत्रिवती पुरी, हरिषेणो राजा, प्रिया प्रियदर्शना, पुत्रोऽजितसेनः । कदाचित्स राजाऽश्वापहृतो वनेऽस्मिन् कच्छ-महाकच्छानुक्रमे कुलपतिं विश्वभूतिं प्रणम्य उपविष्टः । आशीर्वादः प्रदत्तस्तेन । राजन् !
यस्यांशयोः खेलति कुन्तलाली श्रियेस्तु वः स प्रथमो जिनेन्द्रः ।
गम्भीरसंसारसमुद्रमध्यादुन्मजतः शैवलवल्लरीव ॥ ६॥ ततोऽनन्तरं लक्षणैर्नृपं विज्ञाय मुनिना पृष्टम् कुतो यूयमेकाकिनः ?, कथमिहागताः । तेन वृषभान्वयेन श्रीआदिनाथः प्रासादः कारितः । मुनिना तस्य विषापहो मंत्रो दत्तः । ततः स राजा खपुरं गतः । तत्र समये मंगलावती पुरी, प्रियदर्शननरेन्द्रस्य प्रीतिमती दुहिता । केनचित् पुरुषेण राज्ञः सर्पदष्टा कथिता । ततो हरिषेणस्तत्र गत्वा, तां निर्विषीकृत्य परिणीय च स्वपुरं समायातः । कियत्यपि काले वृद्धत्वे भार्यया सह तापसीं दीक्षां जग्राह । तां प्रकटगर्भी निरीक्ष्य, राजर्षिमुपालभ्य कुलपतिरन्याश्रमं तौ त्यक्त्वाययौ । तेन दुःखितो यावदास्ते तावत्पुत्री जाता, राज्ञी मृता च । पश्चात्तेनाष्टवर्षाणि यदृषभदत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org