________________
विक्रमार्कप्रबन्धाः ।
कृत्वा धवलगृहे गतः । केनाप्युक्तम् - देव ! पण्डितः कोऽपि देशान्तरीयश्चतुष्पथे सामुद्रिकशास्त्र पुस्तकानि ज्वालयन्नस्ति । नृपेणाकारितः । कथं ज्वालयसि ? | देव ! मया जन्मावधि इदमेवाभ्यस्तम् । तव देहमालोक्य एषु विरक्तिर्जाता । तव देहे तल्लक्षणं नास्ति येन कापि भद्रवेला भवति । त्वं तु राजराजेश्वरोऽसि । राज्ञोक्तम्पुनर्मे सर्वशरीरलक्षणान्यवलोकय । देहदर्शिते तेन विशेषतो मुखमोटनं कृतम् । नृपेण पृष्टम् । देव ! किमिदमुच्यते, किमपि न पश्यामि । पुनः किमपि गुप्तं प्रकटं वा स्मर । तेनोक्तम्- यदि वामकुक्षौ कर्बुरमन्त्रं भवति तदा 5 सर्वमेवास्ति । तन्न ज्ञायते । देवेनोक्तम् ज्ञास्यते । क्षुरिकां कृष्ट्वा यावद्विदारयति कुक्षिं तावत्तेन करे धृत्वोक्तम्देव ! सर्वलक्षणानि सन्ति । कथम् ? | यदि सत्त्वमस्ति तत्सर्वाण्यपि । देव ! भिक्षुरहम् मद्वचसा प्रवृत्तः । उक्तं च “सर्व सच्चे प्रतिष्ठितम् ।" नृपेण प्रसादं दत्त्वा विसृष्टः । इति देहलक्षणप्रबन्धः ॥
मनि-मनुप्रबन्धः (B. B. )
९९) एकदा विक्रमार्को भट्टमात्रं प्राह - भो ! 'मनि मनु' इति किमुच्यते । देव ! दर्शयामि । पुरोपान्ते पाद- 10 मवधारयत । द्वावपि पुरो बाह्ये गतौ । तदवसरे एकः काष्ठभारवाहको दृष्टः । भट्टेनोक्तम् - देव ! अस्योपरि तव चित्तं कीदृशम् ? । न वर्यम् । स भट्टेन चोदितः - अरे ! कस्ते काष्ठानि लास्यति । अद्य नृपः परासुरासीत् । तेनोक्तम्-बलिस्ते जिह्वाया अद्य विशेषतो मम काष्ठानि महार्घ्याणि विक्रेष्यन्ते । बहवो जनाः काष्ठभक्षणं करिष्यन्ति । अग्रे चलितौ । अग्रे महीरीआ एकाऽभ्येति । भट्टेनोक्तम् - अये मध्ये क्क यासि १ । अद्य नृपः परोक्षो जातः, कस्ते दधि लास्यति ? । तया तत्कालं गोलिका त्यक्ता । रुदितुं प्रवृत्ता । भट्टेनोक्तम्- तव नृपेण किं 15 दत्तम् । न किमपि । स पृथिव्या आधार आसीत् । भट्टेनोक्तं नृपस्य । अनेन नरेण पश्चादागतेन क्षेममुक्तम् । साहृष्टा । नृपेण मुद्रारलं दवा प्रहिता । अतो मनसि मनो भवति । नृपः स्वगृहे गतः । इति मनि-मनुं -
सम्बन्धप्रबन्धः ॥
ܕ
(१०) एकदा राजपाट्यां राजा व्रजन् द्विजमेकं कणावचयं कुर्वाणं दृष्ट्वा प्राह
(४) निअउअरपूरणंमि वि असमत्था किं पि तेहिं जाएहिं । [ द्विज:- ] सुसमत्था वि हु न परोवयारिणो तेहि वि न किंपि ॥ (५) 'तेहि विन किं पि' भणिए विक्रमराएण देवदेवेण । दिन्नं मायंगसयं जच्चसुवन्नस्स दो कोडी |
विक्रमपुत्र-विक्रमसेनसम्बन्धप्रबन्धः (B. G.)
६११) अथ विक्रमार्के दिवं गते विक्रमसेनकुमारस्य राज्याभिषेकसमये पुरोधसाऽऽशीर्वचः प्रोक्तम् - यत्त्वं 25 महाराज ! विक्रमार्कस्याधिको भावी । तदा राज्याधिष्ठात्रीभिर्देवीभिरधिष्ठिताभिः सिंहासनस्थाभिश्चतसृभिः पुत्तलिकाभिरीषद्धसितम् । राज्ञा पृष्टाः - किमिति हस्यते । । ताः प्रोचुः - देव ! तेन सह साम्यमपि न घटते, कुतोऽधिकत्वम् ? ।
Jain Education International
20
1. आद्याह- तव पिताऽपूर्वां वार्तां श्रुत्वा [G वार्ता कथकाय ] दीनारपंचशतीं ददाति । एवं श्रुत्वा खापरका - चौरेण दीनारपंचशती याचिता । [G वार्ता चैका कथिता ] देव ! पातालविवरं गन्धवहश्मशानतीरेऽस्ति । तत्र 30 विवरे देवीहरिसिद्धिक्षिप्तो दीपः पतन्मया दृष्टः । तस्यानुपदिकेन मयापि झम्पा दत्ता । पाताले दिव्यं सौधं दृष्टम् । तत्रोत्कलमाना तैलकटाहिका दृष्टा । तत्पार्श्वे एको नरो दृष्टः । पृष्टच किमर्थमिह ? । तेनोक्तम् - अत्र सौधे
1 प्रत्यन्तरे — जानेऽमुं पापं मारयामि । तर्हि पश्यताम् । 2 प्र० - मनई मन । 3G खर्परक० ।
For Private Personal Use Only
www.jainelibrary.org