________________
पुरातनप्रबन्धसङ्ग्रहे शापभ्रष्टा देव्यस्ति । योऽत्र झम्पां यच्छति स तस्या वर्षशतं पतिर्भवति । अतोऽहं तदिच्छयात्रासि । [G परं साहसं नास्ति ] इत्युक्ते दीनारपंचशतीं दत्त्वा नृपोऽपि तेन खर्परदर्शितेन पथा गतस्तत्र सत्वरं कटाहिकायां झम्पां ददौ । स तया नार्या जीवितः'। यावत्सा राजानं वृणोति तावन्नृपेणोक्तम्-अमुं नरं वर, मे पूर्णमित्युक्त्वा परोपकारं कृत्वा स्वपुरे समायातः । एवं यः परोपकारी । [G तदधिकोऽयं कथं भावी ।] 52. द्वितीययोक्तम्-एकदा काशीतो द्वौ द्विजौ समागतौ । नृपेणापूर्व पृष्टौ । ताभ्यामुक्तम्-अस्मद्देशे [G पाताल विवरमस्ति । तत्रान्धो राक्षसोऽस्ति । असद्देशस्वामी यशोवर्मस्तैलकटाहिकायां झम्पां दत्ते [G दत्त्वा स्वमांसेन राक्षसस्य पारणं कारयति ] स राक्षसस्तं पुनर्जीवयति । प्रतिदिनं रात्रौ सप्तापवरिकाः सुवर्णाः करोति । नृपस्तु प्रातर्दत्ते । इदं श्रुत्वा तयोजियोर्दीनारसहस्रमदात् । नृपस्तत्र गत्वा कटाहिकायां झम्पां ददौ । राक्षसेन भक्षितो
जीवितश्च । राक्षसस्यान्ध्यशापस्यान्तोऽभूत् । नेत्रनिरीक्ष्य विक्रमं प्राह-तुष्टोऽसि तव सत्त्वाद् । विक्रमार्कः-परं 10 यदि तुष्टस्तदाऽस्य नृपतेझम्पां विना नित्यं सुवर्णं देयम् । इत्युक्त्वा परोपकारं कृत्वा स्वस्थाने गतः। तत्कथं विक्रमादधिकस्त्वं भवसि ।
3. तृतीययोक्तम्-एकदा केनाप्युक्तम्-देव ! त्वं परकायप्रवेशविद्यां न वेत्सि । नृपेणोक्तम्-को जानाति १ । श्रीपर्वते भैरवानन्दोऽस्ति, स जानाति । नृपः खल्वाटं कुम्भकारमादाय तत्र गतः। योगी मिलितः। स शुश्रूषया तुष्टः प्राह-विद्यां गृहाण । पूर्व मम मित्रस्य देहि । तेनोक्तम्-असौ कुपात्रं विद्यायोग्यो न । नृपेणाग्रहाद् 15 दापिता । नृपस्त्ववन्त्यां गतः । नृपस्तु द्वारे स्थित्वा कश्चिन्नरं नगरस्य शुद्धिं पप्रच्छ । तेनोक्तम्-नृपस्य पट्टहस्ती अद्य विपन्नः । नृपस्त्वन्तःपुरपरीक्षायै मित्रं प्राह-भो ! यदि मम शरीरं रक्षसे, तदाहं परीक्षां करोमि । तेनोक्तम्-करिष्ये। शरीरमेकान्ते मुक्त्वा तं प्रहरके मुक्त्वा गजे प्रविश्य गजं सजीवमकरोत् । स स्वपादैः पुरान्तगर्गतः। इतो मित्रेणाचिन्ति-अमुं भुण्डतरं त्यक्त्वा नृपशरीरमधिष्ठाय भोगान्भोक्ष्ये । स खशरीरं त्यक्त्वा नृप
शरीरे प्रविश्य मध्ये आयातः । नृपे आयाते गजो जीवितः इति वर्धापनकान्यभूवन् । गजेन चिन्तितम्-असौ 20 पापो ममोपरि चटिष्यति । इति सश्चिन्त्य गजः स्तम्भमुन्मूल्य बहिर्गत्वा प्राणानौज्झत् । इतः प्रत्यासन्ने आखेटक
एकः शुकान् व्यापादयन्नस्ति । नृपजीवस्त्वेकस्स शुकस्य देहे विवेश । स शुको लुब्धकं प्राह-रे! रे ! शुकान्मा मारय । मां गृहाण । यदि ते द्रव्यस्पृहा पुरे चल । परमहं यत्र कथयामि तत्र विक्रेयः। सर्वोऽपि जनो याचते । शुको न वक्ति । मुख्यदेवीचेच्या याचितः । तेन पृष्टम्-दनि । देहि । तेन दीनारानादाय चेट्या अर्पितः। सा
देवी शुकं दृष्ट्वाऽऽकृष्टा । सुवर्णपञ्जरे चिक्षेप । मृपोऽन्तःपुरमाययौ । देवी तं दृष्ट्वा खिन्ना सती पाह-देव ! त्वयि 25 देशान्तरं प्रस्थिते मया चिन्तितं क्षेमेणागतेऽपि देवे ततोऽपि मासं यावद्ब्रह्मचर्यम् । तदनु कुलदेवीपूजनं कृत्वा नियममपाकरिष्ये । स पश्चाद् गतः। जनस्तु चिन्तयति-कथं नृपतिरन्य एव जातः १ । देहमस्ति परं सम्यग् न ज्ञायते । देवी शुकेन बाढं संस्कृत-प्राकृतकाव्यैस्तथा रञ्जिता यथा त्वयि जीवति जीवामि । इतो देव्या शुक आकारितः । तेनोक्तम्-देवि! मार्जार्या विभेमि । देव्याह-यदि मरसि तदाहमपि त्वामनु मरिष्यामि । एकदा
शुकोऽपि परीक्षार्थ मृतां गृहगोधां दृष्ट्वा शुकदेहमुत्सृज्य तत्र विवेश । सा भित्तौ चटिता। शुकं मृतमालोक्य देवी 30 तेन सह काष्ठाधिरोहणसजा नृपेण वारिता । सा वक्ति यदि शुको जीवति तदा जीवामि, नान्यथा । नृपस्त्वपवरिकां प्रविश्य देहमुत्सृज्य शुकदेहे प्रविष्टः । इतो विक्रमार्कः पल्लीदेहमुत्सृज्य स्खशरीरमादाय बहिरायातः। शुको जीवितः, परं देव्या दृष्टोपि न सुखायते । नृपं दृष्टा तत्कालमभ्युत्थानं चके । नृपेण शुको भाषितस्तेनोक्तमदेवाहमदृष्टव्यमुखः। मां वामपादेन हत्वा मुश्च । नृपेणोक्तम्-तव सानिध्येन मया देवीपरीक्षा लब्धा । स कीरदेहो द्विजो गतः ।
1G कन्ययासौ मृतेन जीवितः। 2G राज्यस्वरूपं । 3 G निर्बन्धात्तस्यापि दापिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org