________________
विक्रमार्कप्रबन्धाः। (६) विप्रे प्राहरिके नृपो निजगजस्याङ्गेऽविशद्विद्यया,
विप्रो भूपवपुर्विवेश तदनु क्रीडाशुकोऽभूत्ततः। पल्लीगावनिवेशितात्मनि नृपो व्यामृश्य देव्या मृति
विप्रः कीरमजीवयन्निजतनुं श्रीविक्रमो लब्धवान् ॥ एवं यः परोपकारी कथं तेन समो भविष्यसि । .. 4. तुर्ययोक्तम्-एकदा विक्रमार्केण उत्तमं सौधं कारितम् । राजा तत्र गतः। तत्र चटकयुग्ममस्ति । चटकेनोक्तम्-साधु सौधमस्ति । चटकयोक्तम्-यादृशं स्त्रीराज्ये लीलादेव्या बाह्यगृहमस्ति तादृशमेतत् । राज्ञा श्रुतं तत् । नृपस्तत्र गमनोत्सुकः। स्थानं तु न वेत्ति । सचिन्तं नृपं दृष्ट्वा भट्टमात्रस्तदाशयं परिज्ञाय तत्स्थानविलोकनाय चलितः । तन्मार्गे लवणसमुद्रः । तमुत्तीर्याने रात्री मदनायतने स्थितः । निशीथे हयहेषारवसूचितं दिव्यालङ्कारभूषितं दिव्यं स्त्रीवृन्दं आगतम् । तत्स्वामिन्या कामपूजनं कृतम् । व्यावर्त्तमानानां तासामेकस्याश्वस्य पुच्छे लगित्वा 10 तत्र गतः । दासीभिदृष्टः । स्वामिनीसमीपे नीतः। तया स्नानादि कारितः। रात्रौ तत्रैव सुप्तः। तया स्वपन्त्योक्तम्-मम विक्रमार्कः पतिर्भावी, किं वा मां यश्चतुर्भिः शब्दैर्जागरयति । इत्युक्त्वा सुप्ता । तेन चिन्तितम्चतुर्भिरपि शब्दैन जागर्ति तर्हि एनामहमेव जागरिष्यामि । शब्दाः कृताः। न जागर्ति । तदा पादाङ्गुष्ठश्चम्पितः। तया पादेनाहत्य तत्र क्षिप्तः, यत्र विक्रमार्कः प्रसुप्तोऽस्ति । राज्ञा पृष्टं किमिदम्-तेन वृत्तान्तःप्रोक्तः । राजाऽग्निकवेतालमारुह्य तत्र गतः । वेतालश्छन्नं स्थितः । राजा दासीभिस्तत्र नीतः। तयोपचरितः । तद्रूपदर्शनात्सरागा 15 जाता। परं शयानया पूर्ववत्प्रतिज्ञा कृता । ___A. राज्ञा दीपस्थो वेताल उक्तः-भो दीप! तावदद्य कुवासको जातः। यस्या गृहे आगताः, सा वक्त्येव न । अतस्त्वं कामपि कथां वद । तेनोक्तम्-देव ! कोऽपि विप्रस्तस्य सुता चतुण्णां वराणां दत्ता । एकस्य पित्रा, परस्य मात्रा, एकस्य मातुलेन, एकस्य भ्रात्रा । एवं चतुण्णां दत्ता । चत्वारोऽपि आगताः। विवादे जाते कन्यया काष्ठभक्षणं कृतम् । एकश्चितायां तामनु विवेश । एको देशान्तरं गतः। एकस्त्वस्थीन्यादाय गङ्गां गतः। एकस्तु उटजं कृत्वा 20 तत्र स्थितः श्मशानं रक्षति । देशान्तरिणा सञ्जीविनी विद्या शिक्षिता । चत्वारोऽपि मिलिताः। देशान्तरिणा विद्यया जीविता। पुनर्विवादो जातः। सा राजश्चतुण्णां मध्ये कस्य पत्नीराज्ञोक्तम्-नाहं वेभि, ब्रूहि । स आह-यश्चित्तायाः सहोत्थितः स भ्राता । योऽस्थिनेता स पुत्रः । येन जीविता स पिता । यो भमरक्षकः स भर्ता, पालकत्वात् । ___B. द्वितीययामे राज्ञा ताम्बूलस्थगिका पृष्टा-रे ! कथां काश्चित्कथय । वेतालाधिष्ठाता साऽप्याह-क्वापि पुरे एका मृता ब्राह्मण्यस्ति । तस्या जारेण सह सुता जाता । सा तां त्यक्तुं रात्रौ बहिर्गता । इतस्तत्र कोऽपि 25 शूलाक्षिप्तो जीवन्नस्ति । तस्याः पादेन स्खलितः । तेनोक्तम्-कः पापी दुःखिनोऽपि दुःखमुत्पादयति । तयोक्तम्. * G सझके सङ्ग्रहे एषा कथा किञ्चिद्भिन्नरूपेण लिखिता लभ्यते । यथा
- तृतीययोक्तम्-एकदा विक्रमार्को निजपूर्वास्तव्यखल्वाटकुम्भकारयुक्तो देशान्तरं गतः। परकायाप्रवेशविद्यावेदी योगी मिलितः । स आवर्जितः । तुष्टश्च विद्यां दातुमारेभे । राज्ञोक्तम्-प्रथमं मम मित्रस्य । तेनोक्तम्-अयोग्योऽसौ । निबंधात्तस्यापि दत्ता । अवंतीं गतो राजा राज्य करोति । एकदा पहाश्वो मृतः । विद्यापरीक्षार्थ राज्ञा स्वजीवस्तत्र क्षिप्तः। कुंभकारेण स्वजीवो नृपदेहे । कुंभकारो राज्यं करोति । अश्वो मारणाय चिंतितः। नृपजीवस्तु पूर्वमृतशुकदेहे प्रविष्टः । शुकोऽपि सोमदत्तश्रेष्ठिभार्या-प्रोषितभर्तृका-कामसेनागृहं गतः। सा तच्चातुर्येण हृष्टा । राज्ञीसमीपं न गच्छति । श्रेष्ठी समागतः । सा राज्ञीसमीपं गता । अनागमनकारणं पृष्टा । शुकचातुर्यकारणं प्रोक्तम् । तया याचितः सः । सा रंजिता तेन-यथा राज्ञा पूर्वमेकदा शुकेन भूत्वा राज्ञीस्नेहपरीक्षार्थ गृहगोधिकादेहे गतः । राश्या तद्वियोगेन काष्ठभक्षणमारब्धम् । नृपजीवेन शुको जीवापितः । सा व्यावृत्ता । शुकेन सर्वो वृत्तांतो राज्य कथितः । राश्या कुंभकारस्थावर्जना कृता । तेन तुष्टेन विद्याप्रदर्शनाय मृतबोत्कटदेहे स्वजीवः क्षिप्तः । नृपो निजदेहं गतः । अजो भयात्कम्पते । राज्ञोक्तम्-न भेतव्यम्, नाहं त्वत्समो भावी । सकृपोऽस्मि । त्वं सुखं जीव चर पिब । ततः कथं तेन समो भविष्यसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org