________________
पुरातनप्रबन्धसङ्ग्रहे अस्स किं दुःखम् ? । देहपीडादिकमेकमपुत्रत्वमपरम् । चौरेणोक्तम्-त्वमपि कथय का त्वम् ? कथमिहागतासि । निजचरितं तयोक्तम् । शूलास्थनरेणोक्तम्-मां विवाहयेमाम् । मया पुरादाहृतं भूक्षिप्तं द्रव्यं गृहाण च क्रये । ब्राह्मणी आह-त्वं मरिष्यसि । सुता लघ्वी, पुत्रः क्व ? । तेनोक्तम्-अस्या ऋतुकाले कस्यापि द्रव्यं दत्त्वा पुत्रमुत्पादयः । तया सर्व कृतम् । यावत्पुत्रो जातः । मात्रा छन्नं नृपद्वारे मुक्तः । केनापि राज्ञे निवेदितम् । 5 नृपेणापुत्रेण पालितः । राज्यं दत्तम् । राजा मृतः । स पितुः श्राद्धं कर्तुं गङ्गायां गतः । जलात्करत्रयं निर्ययौ ।
राजा विमितः । कसिन्करे पिण्डं मुश्वामि । वेतालेनोक्तम्-देव ! वद । स पिण्डं कस्य करे मुञ्चतु । राज्ञोक्तम्चौरस्य । येन परिणीता यस्य बित्तम् । ____c. राज्ञा सुवर्णपालकं जल्पितम् । तदपि कथां प्राह-कसिन्नपि ग्रामे कश्चित् कुलपुत्रः । स परिणीतोऽन्य
ग्रामे । तत्पत्नी श्वशुरगृहे न याति । स जनैर्हस्यते । एकदा जनप्रेरित आनयनाय गतो मित्रान्वितः। मार्गे 10 सरस्तीरे यक्षदेवकुलम् । तत्र यक्षं नत्वा प्राह-देव ! यदि मे पत्नी समेष्यति तदा वलमानस्ते शिरो दास्यामि ।
तत्प्रभावाच्छ्शुरकुले सत्कृतः। सा हृष्टा तेन सह चलिता । स चलन् मार्गे वाहिन्या उत्तीर्य यक्षं नन्तुं गतः। यक्षाग्रे स्त्रीलाभाच्छिरश्छेदितम् । स नायाति । मित्रं तु तमनुगतम् । विनष्टं दृष्ट्वा जनापवादात् भीतेन तेनापि शिरश्छिन्नम् । तस्मिन्नप्यनागच्छति, सा गता । द्वावपि तदवस्थौ दृष्टौ । चिन्तितम् जनोऽग्रेऽपि मां पतिद्वेषिणी
कथयति । अधुना पतिघ्नीं कथयिष्यति । ततः सापि शिरश्छेत्तुं प्रवृत्ता। यक्षेणोक्ता साहसं मा कुरु । तयोक्तम्15 द्वावपि जीवापय । तेनोक्तम्-निज २ कबन्धे शिरोदानं कुरु । तयोत्सुकभावादन्यान्यकबन्धयोय॑स्ते । द्वावपि
जीवितौ । परस्परं भार्याविवादो जातः । एको मदीयां वक्ति, द्वितीयस्तु मदीयाम् । तेनोक्तम्-देव! सा कस्य भवति ? । नृपेणोक्तम्-यस्य शिरस्तस्य भार्या । [ 'सर्वस्य ] गात्रस्य शिरः प्रधानमिति वचनात् । . __D. वेतालवशात्कर्पूरसमुद्गकः पृष्टः-रे! कामपि कथां कथय । देव ! कुतोऽपि पुराच्चत्वारः कलाविदग्धा
श्चेलुः । एकः काष्ठघटकः सूत्रधारः । अपरः स्वर्णकारः। तृतीयः शालापतिः । तुर्यो द्विजः । क्वापि वने रात्री 20 स्थिताः। प्रथम[ यामे] सूत्रधारः प्रहरके स्थितः। काष्ठमयी पुत्तलिका कृता । स सुप्तः। द्वितीयग्रहरे सुवर्णकार
उत्थाय [ यामिके] स्थितः। तेन सा पुत्तलिकाऽऽभरणैर्मण्डिता। तृतीये शालापतिस्तेन दुकूलं परिधापिता । चतुर्थे द्विजेन सजीवा कृता । प्रातः सजीवां दृष्ट्वा विवदितुं प्रवृत्ताः। इतस्तेन वैतालेनोक्तम्-देव ! विक्रमादित्य ! सा कस भवति ? । [G नाम श्रुत्वा सा चुक्षोभ ] राज्ञोक्तम्-नाहं वेनि, यदियं सुप्ता वेत्ति । [G तयोरकथयतोश्च तया जल्पितम्-भो राजन् ! ] कस्य सा ?। राज्ञोक्तम्-स्वर्णकारस्य । पति विना को नारी मण्डयति । 25 [G सा पप्रच्छ के यूयम् १ । दीपस्थेन वेतालेनोक्तम्-असौ स विक्रमादित्यः।] सा हृष्टा, राज्ञा परिणीता च । [G तामादायावन्तीमागमत् ।] य ईदृग् हे महाराज! तत्समः कः?; आधिक्ये तु का कथा इति हसितम् । इति श्रुत्वा विक्रमसेनेन गर्वस्त्यक्तः । इति विक्रमसेनगर्वत्यागप्रबन्धः ॥ विक्रमसम्बन्धे रामराज्यकथाप्रबन्धः ( B. P. G.) - ६१२) अथैकदा विक्रमसेनः पुरोधसमप्राक्षीद्-यदेताः काष्ठपुत्रिका मम पितरमद्भुतगुणं वर्णयन्ति, तर्हि स 30 एव लोके प्रथमः। [G तत्प्रथमतयोत्तमत्वेनावतीर्णो भविष्यति । प्राक् तु न कोऽपि तागुत्तमोऽभूत्-इति ब्रूमः।] पुरोधाः प्राह-राजन् ! अनादिर्भू रत्नगर्भेयम् । [G अनादिश्चतुर्युगी ।] युगे युगे रत्नानि जायन्ते । अहमेव प्रधान इति गर्वो न श्रेयःकारी [G न निर्वहते]। तव पितुर्मनसि एकदा इत्यभूत-यथा रामेण जनः सुखी कृतः तथाऽहमपि करिष्यामि [G ततो रामायणं व्याख्यापितम् । तत्र यथा-] रामस्य दानं सत्रागार
स्थापनं वर्णाश्रमव्यवस्थादि गुरुभक्त्यादि तथा सर्वमारब्धम् । ततोऽभिनवो राम इत्यात्मानं पाठयति । मत्रिभि___35 रचिन्ति-असावनुचितकारी । [G असत्प्रभुर्यो गर्वादात्मानं तद्वन्मनुते ] यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org