________________
विक्रमार्कप्रबन्धाः। (७) *उत्क्षिप्य टिभिः पादावास्ते भङ्गभयाद्भुवः।
खचित्तकल्पितो गर्वः कस्यान्यस्य न विद्यते ॥ [G उपायेनोत्तारयितव्यः प्रस्तावे ] एकदा राज्ञोक्तम्-स कोऽप्यस्ति योऽश्रुतपूर्वा रामकथा कथयति । एकेन वृद्धमत्रिणा प्रोक्तम्-राजन् ! कोशलायामेको वृद्धद्विजोऽस्ति । स पारम्पर्येण कामपि रामवात्तां वक्ति। [G आहूय पृच्छयते] स राज्ञा सगौरवमानीतः पूजितश्च । पृष्टं च-हे वृद्ध ! कांचिद्रामवार्ता [ नव्यां] वद । सोऽभाणीत्-5 देव ! कोशलायां यद्यागच्छसि तदा किमप्यपूर्व दर्शयामि [G इह स्थितस्य तु वक्तुं न पारयामि] राजा मत्रिषु राज्यं न्यस्य स्वयं कटकेन सह कोशलां प्रति चचाल । तत्र गत्वा बहिःस्थितः । वृद्ध ! दर्शय । देव ! अत्र जनपार्धात्खानय । तथा कृते, स्वर्णकलशः प्रकटो जज्ञे; तदनु हैमी मण्डपिका च । पुनः खनिते एकक्षण-द्विक्षणतृतीयक्षण-चतुर्थक्षणे प्रकटीकृते महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । वर्णनं कुर्वति, द्विजेनोक्तम्-देव ! चर्मकारपल्या उपानदेषा न 10 स्प्रष्टुमर्हति । नृपेणोक्तम्-सा चर्मकार्यपि धन्या, यस्या ईगुपानत् । परं कथ्यतां कथम् ? । देव ! श्रीरामे सत्यत्र चर्मकारगृहाण्यासन् । इदमेकस्य गृहम् । तत्पनी लाडबहुला, अतः सगर्वा । विनयं न करोति । सा भर्ना हकिता शिक्षिता च । उक्तञ्च-मट्टहाद् याहि । सा वाणहीमेकां पतितां मुक्त्वा एकां च पादे कृत्वा पितृगृहं गता। पत्युरपमानमूचे । पित्रा दिनद्वयं स्थापिता पश्चादुक्ता-वत्से ! कुलस्त्रियः पतिरेव शरणम् । त्वं तत्र याहि । सा द्वित्रिवारं भणिताऽपि न याति । तदा पित्रा प्रोक्तम्-वत्से ! श्रीरामः सलक्ष्मणः सप्रियश्च त्वामनुनेष्यति । 15 साऽप्यलीकाभिमानिनी पाह-यदि समेष्यति तदैव यास्यामि [G नापरथा]। इयं वार्ता छन्नैर्नुपपुरुषैः श्रुता । तैर्नृपाय न्यवेदि । श्रीरामस्ततः श्रुत्वा तद्नेहद्वारे स्थितः । तेन कथितम्-देव ! पादमवधार्यताम् । मम रङ्कस्य गृहेऽद्य कल्पद्रुमागमनम् । तव पुत्रीमानयितुं वयमागताः स्मः । मात्रा सा त्वरितं पत्युर्गृहे नीता । तस्या औत्सुक्येन व्रजन्त्या इयमत्रैवोपानद्विस्मृता । श्रुत्वा देवस्तु स्वस्थानं गतः । देव ! रामराज्यमीदृशमासीत् । तच्छुत्वा विक्रमादित्यः गर्वं त्यक्त्वा निजपुरीं प्राप ॥ इति विक्रमादित्यविविधप्रबन्धाः ॥
20 (G.) सङ्ग्रहगतं विक्रमवृत्तम् ।
६१३) श्रीविक्रमादित्यसत्रागारे नित्यं कार्पटिका विनश्यन्ति । तदपवाददोषभयेन राजा प्रच्छन्नः स्थितः । तावता
* G नास्ति एष श्लोकः। एतदन्तर्गतपाठस्थाने G सङ्ग्रहे कियानधिको विस्तृतश्च पाठः प्राप्यते । यथा
ततो देवः श्रीरामः प्रजावत्सलः प्रातः ससीतः सलक्ष्मणः समागत्य तञ्चर्मकारभवनमगात् । तन्मध्यं प्रविष्टः पूजितः कारुभिर्विस्मित विज्ञप्तश्च-देवायमस्मान् कीटकान् प्रति कियान् प्रसादः कृतः । स्वप्नेऽपि नेदं संभाव्यते, यद्देवोऽस्मानुपतिष्ठते । किं कारणमागमनस्य । श्रीरामः प्राह-स्वरपुत्र्याः स्वशुरकुलप्रेषणायायातोऽस्मि । तस्या हि वराक्यास्तथाविधा सन्धाऽऽस्ते । ततो हृष्टस्तजनकः । अपवरकं गत्वा दुहितरमाह स-मुग्धिके ! तव प्रतिज्ञा पूर्णा । रामदेवोऽप्यायातः सदेवीकः । एहि वन्दस्व तं जगत्पतिम् । ततस्तुष्टा रामान्तिकमागता । ववन्दे तम् । आलापिता प्रजातातेन-वत्से ! गच्छ स्वशुरमन्दिरम् । तया भणितम्-आदेशः प्रमाणम् । ततो गता पितृ(पति)गृहम् । रामः स्वस्थानमयासीत् । श्रीविक्रमस्य द्वितीया उपानत् तत्रापि गृहे खन्यधोमाने (अधःखन्यमाने) लप्स्यते । स्वामिन्नायाति तत्र खान्यते। गत्तो राजा तत्र । खानितं तत् । लब्धा द्वितीया उपानत् । दृष्टं हेमगृहम् । एवमन्यान्यपि तेन विप्रेणाखानयिषत । लातं तद्धेम । राज्ञा विप्रः पृष्टःविन! कथमीदृशं सम्यग् जानासि? । विप्रेण गदितम्-पूर्वजपारंपर्योपदेशात् ज्ञातं तुभ्यमुक्तं च । परं गर्व माधाः । स रामः स एव । तस्याज्ञया जलज्वलनौ स्तंभ्येते स । पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूता द्विचत्वारिंशत् , अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विड्वराणि दोषाश्च सर्वे व्यनेशन् । या तु तद्देवी सीता, ये तद्भातरः, ये तद्भुत्या हनूमत्सुग्रीवादयस्तेषां महिमानं वर्षशतेनापि वाक्पतिरपि वक्तुं न शक्तः । इति श्रुत्वा विक्रमेण गर्यो मुक्तः । बिरुदं निषिद्धं 'अभिनवराम' इति । पुनरुज्जयिनीमगात् । यथाशक्ति लोकमुदधरत् । तस्य हि अग्निवेताल-पुरुषसिद्धिभ्यां सुवर्णसिद्ध्या चोपकारैश्वर्य तदा निरुपममासीत् । ततो विक्रमो धन्य एव । ततोऽधिकास्तु परे कोटाकोटयोऽभूवन् । इत्याकर्ण्य विक्रमसेनो विवेक्यभूत् ॥
पु०प्र० स०2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org