________________
पुरातनप्रबन्धसङ्घहे भोगीन्द्रः समागतः । राज्ञा पृष्टं-कथं त्वं कारणं विना नित्यं तीर्थकरणप्रवणपात्राणि मारयसि । तेनोक्तं-कथय] किं पात्रं ? । राज्ञोक्तं-'भोगीन्द्र ! बहुधा०।' इति तुष्टो मनुष्यपात्राणि ररक्ष ।
६१४) केनापि सामुद्रिकशास्त्रवेदिना मध्याह्ने चतुःपथे कस्यापि काष्ठभारवाहकस्य चरणलक्षणानि भुवि प्रतिबिंबितानि वीक्ष्य शास्त्रं वितथमिति विचार्य पुस्तकैः सह राजद्वारे काष्ठभक्षणं प्रारब्धम् । ततो राज्ञा पृष्टं-मम 5 लक्षणानि कथय । तेनोक्तं नैकमपि । तत्कथं राज्यम् ? | पुनरुक्तं-यदि वामकुक्षौ करडांत्रं भवति । तदा राज्ञा क्षुरिकामाकृष्योक्तं स्थानं दर्शय । तेनोक्तं-सत्त्वेनैव राज्यम् । राज्ञापि दरिद्रमुखे कणिकगोलिकाप्रयोगेन तालुनि काकपदं दर्शितम् ।
६१५) अन्यदा सिद्धसेनदिवाकरेण गुरुचरणसंवाहनां विधीयमानेन गुरव उक्ताः-यदि यूयमादेशं ददत, तदाहमागर्म संस्कृतेन करोमि । गुरुभिरुक्तं-तव महत्पातकमजनि । त्वं गच्छयोग्यो न, गच्छ ! । तेनोक्तं-प्रायश्चित्तं 10ददत । गुरुभिरुक्तं यत्र जिनधर्मो न तत्र जिनप्रभावनां विधाय पुनः समागन्तव्यं । इत्यवधूतवेषेण चलितः। ततः सप्तवर्षानन्तरं मालवके गूढमहाकालप्रासादे शिवाभिमुखं चरणौ विधाय सुप्तः। तत्र वारितोऽपि तथैव । अत्रान्तरे राज्ञा रक्षकपुरुषान् प्रेषयित्वा उपद्रुतः । तावतान्तःपुरे प्रदीपनकं लग्नम् । ततो राज्ञा समागत्य पृष्टःकथं शिवनमस्कारं न विदधासि । तेनोक्तं-मम नमोऽसौ न सहते । राज्ञोक्तं-विधेहि । तेन सकललोकसमक्षं
द्वात्रिंशतिका विहिता । तदा लिंगमध्यादवन्तीसुकुमालद्वात्रिंशत्पत्नीकारितप्रासादे श्रीपार्श्वनाथविम्ब प्रकटीभूतम् । 15 तन्नमस्कृतम् । अस्मन्नमस्कारमसौ सहते । तदाप्रभृति गूढमहाकालोऽजनि ।
६१६) अन्यदा सकलकवीनां दानं ददानं राजानं वीक्ष्य शिवतपोधनचतुष्टयं कविताकृतेऽरण्यमगमत् । तत्र गजवर्णनमारब्धं तैः, एकैकेन प्रहरेण एकैकश्चरणो विहितः । तद्यथा(८) च्यारि पाय विचि दुडगुसु दुडुगुसु, जाइ जाइ पुणु रुडुघुसु रुडघुसु ।
, आगलि पाछलि पुंछु हलावह,...... 20 तुर्ययामे तुर्यपादो न भवति । तदा श्रीकालिदासकविना वृक्षान्तरितेन चतुर्थश्चरणः पूरितः
......अंधार किरि मूला चावइ ॥ तुर्यतपोधनेनोक्तं-मम सरस्वतीप्रसादो जातः । तैर्नृपो विज्ञप्तः। नृपेणोक्तं-तुर्यचरणोऽमीषां न भवति । इदमुपमानं कालिदासस्यैव नान्यस्य ।
६१७) अथ कुमारसम्भवमहाकाव्ये नवभिः सर्गः शृंगारसुरतवर्णनकुपितयोमया कालिदासकवेः शापो दत्तः। 25 यत्-त्वं स्त्रीव्यसनेन मरिष्यसि । तेन वेश्याव्यसनी बभूव । राज्ञा श्रीविक्रमेण व्यसनिनं मत्वा तिरस्कृतः। वेश्या
सदने स्थितः। अत्रान्तरे राजपाटिकायां गतेन राज्ञा सरसि कमलं कम्पमानं विलोक्योक्तं-'पवनस्थागमो नास्ति ...।' कैरपि कविभिः प्रत्युत्तरं न दत्तम् । राज्ञा नगरे पटहो वादितः। यः कोऽपि समस्यां पूरयति तस्य सुवर्णलक्षं दनि । इति वेश्यया कालिदासस्य निवेदितम् । तेनोक्तं-अहं पूरयित्वा तव समर्पयिष्यामि । पूरिता । तया सुवर्णलोभेन
स मारितः। तदनु तया राज्ञोऽग्रे न्यगादि समस्या। यत्-'पावकोसिष्टवर्णाभः शर्वरी।' राज्ञोक्तं-केन पूरिता । 30 तयोक्तं-मया । 'कांते.' इति पदेन त्वया न बद्धा । ततस्तयोक्तं-कालिदासेन । स च मया मारितः । राज्ञो विषादोजनि।
६१८) अन्यदा श्रीविक्रमस रोगः समजनि । वैयेन कुचेष्टां वीक्ष्य काकमांसभोजनेनाऽऽरोग्यं कथितम् । राज्ञोक्तं-भवतु । ततो वैद्येनोक्तं-राजन् ! धौषधं विधेहि । त्वं प्रकृतिव्यत्ययेन न जीवसि ॥
॥ इति विक्रमप्रबन्धः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org