________________
सातवाहनप्रबन्धः ।
२. सातवाहन प्रबन्धः (P.)
(१९) मरहट्ठदेशे प्रतिष्ठानपत्तनम् । नरवाहनो नृपः । सुभटोऽङ्गरक्षः । तत्पत्ती मनोरमा । गर्भाधाने सति शुभदोहदे जाते नैमित्तिकाः पृष्टाः । तैरुक्तम् - सुतो भावी, परं षोडशवर्षाणि भूमिगृहे स्थाप्यश्छन्नम् । तेन तथा कृते, पञ्चवार्षिकः कलाभ्यासं करोति । इतश्च नृपो रात्र्यर्द्ध स्त्रीविलापं श्रुत्वा प्राहरिकानाह [ कोऽत्र ? ] सुभटेनोक्तम्- देवाहमस्मि । इमां पृष्ट्वा समागच्छ कथं रोदति ? । स गतः । पुरे भ्रान्त्वा समेतः । देव ! नगरमध्ये कापि 5 न दृष्टा । तर्हि बहिर्गत्वा विलोकय । पृच्छां कुरु । स विद्युत्किरणात्सनृपस्तत्र गतः । वने स्त्रियं दृष्ट्वा पप्रच्छ - कथं रोदिषि ? राज्याधिष्ठात्री देवी । तर्हि कथं रोदिषि ? । तया क[ थितम् ] षण्मासान्ते नृपः पञ्चत्वं प्रयास्यति ।
(९) वैधव्यसदृशं दुःखं स्त्रीणामन्यन्न विद्यते । धन्यास्ता योषितो यास्तु म्रियन्ते भर्त्तुरग्रतः ॥ तत्कथं निवर्त्तते । इति सुभटे पृष्टे तयोक्तम्-यदि चामुण्डाग्रे द्वात्रिंशल्लक्षणो वध्यते, तदा नृपस्य क्षेमम् । इत्युक्त्वाऽदृश्या जाता । नृपाग्रे उक्तम् । नृपः स्वस्थानं प्राप्तः । प्रातर्नृपेण सुभटाग्रे उक्तम्- यदि द्वात्रिंशल्लक्षणं 10 नरमानयसि तदाऽर्द्धराज्यं ददामि । तेन गृहे गत्वा स्वपत्नी पुत्राय याचिता । षोडशवाह (हाय ) नः सुतो दत्तः । नृपायोक्तम्-देव ! स्थाने कृतोऽनिष्कास्य वध्यस्य नेपथ्यधरं कृत्वा चामुण्डाग्रे नीतः । नृपस्तत्र गतः । नैवेद्येन सह कल्पितः । मात्रा केशैर्धृतः पित्रा खङ्गं कृष्टम् । तेन .... ...द्धसितम् ।
(१०) राजा स्वयं हरति मां यदि जीवितार्थे द्रव्येच्छ्यान्धबधिरौ पितरौ मदीयौ । त्वं देवता मनुजमांसरसस्पृहासि प्राणाः स्वयं हसत किं [प]रि[ दे] वितेन ॥
(११) ताण पुरओं य मरीहं कयलीथंभाण सरिसपुरिसाणं । जे अत्तणो विणासं फलाई दिंता न चिंतंति ॥ १ ॥ (१२) जह सरसे तह सुक्के वि पायवे धरइ अणुदिणं विंझो । उच्छंगसंगयं निग्गुणं वि गरुया न मुंचति ॥ २ ॥ (१३) सरिसे माणुसजम्मे दहइ खलो सज्जणो सुहावेइ । लोह चिय सन्नाहो रक्खह जीयं असी हरइ ॥ ३ ॥
११
देवी सवेन तुष्टा । वरं वृणु । याचितः - किमर्थमिहानीतः १ । देव्या स्वभाव उक्तौ तेनोक्तम् नृपाय राज्यं देहि, त्वं जीववधाद्विरमस्व । तयोक्तम् - राज्यं मया दत्तं राज्ञे, [जीवे ]ष्वभयः । जीववधानिवृत्ता । सर्वोऽपि स्वस्थानं गतः । प्रातर्लोकापवादमसहता नृपेण राज्यं सर्वं सातवाहनाय दत्त्वा स्वयं तापसीं [ दीक्षां] जगृहे । नृपोऽपि राज्यं कुर्वन् समाताऽस्ति (१) । अन्यदा नृपेण मन्त्री पृष्टः - ममाज्ञा कियतीं भूमिं यावदस्ति ? । देव ! मथुरायां न वर्त्तते । नृपेण कटकं हितम् .. जाते मत्रिभिर्द्विधा कृतं तेन मथुराद्वयम् । सूर्योदये पुत्रजन्म - 20 वर्द्धापनम् । द्वितीयेप्रहरे वापीमध्यात् कोटि ९ सुवर्णलाभः । तृतीये प्र० दक्षिणमथुरा । चतुर्थे प्र० उत्तरमथुरा वर्द्धापने । एवं दिवसमध्ये वर्द्धापनचतुष्के जाते नृपो हृष्टश्चिन्तयति - किं मया पूर्वभवे पुण्यमकारि ? । प्राता राजपाट्यां गतः । हृदे गोदावर्यां मत्स्यहसने विस्मितो गृहे गतः । सर्वः कोऽपि पृष्टः परं कोऽपि न वेत्ति । इतश्च श्रीकालिकाचार्यागमं विदित्वा वन्दित्वा ते पृष्टाः । तैः क[ थितम् ] -त्वं पूर्वभवे अत्रैव काष्ठवाहकस्तेन सक्तुभिरिहैव शिलापट्टे मुनिः पारितः । तन्मत्स्येन दृष्टम् । अतो जलदेवतया हसितं मत्स्यमिषात् । तव दानप्र [ भावा] त् वर्द्धापिनं जातम् ॥ इति सातवाहनप्रबन्धः ॥
(G.) सङ्ग्रहे सातवाहनसम्बन्धिगाथावृत्तम् ।
Jain Education International
•
For Private & Personal Use Only
15
30
www.jainelibrary.org