Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 64
________________ विक्रमार्कप्रबन्धाः। (७) *उत्क्षिप्य टिभिः पादावास्ते भङ्गभयाद्भुवः। खचित्तकल्पितो गर्वः कस्यान्यस्य न विद्यते ॥ [G उपायेनोत्तारयितव्यः प्रस्तावे ] एकदा राज्ञोक्तम्-स कोऽप्यस्ति योऽश्रुतपूर्वा रामकथा कथयति । एकेन वृद्धमत्रिणा प्रोक्तम्-राजन् ! कोशलायामेको वृद्धद्विजोऽस्ति । स पारम्पर्येण कामपि रामवात्तां वक्ति। [G आहूय पृच्छयते] स राज्ञा सगौरवमानीतः पूजितश्च । पृष्टं च-हे वृद्ध ! कांचिद्रामवार्ता [ नव्यां] वद । सोऽभाणीत्-5 देव ! कोशलायां यद्यागच्छसि तदा किमप्यपूर्व दर्शयामि [G इह स्थितस्य तु वक्तुं न पारयामि] राजा मत्रिषु राज्यं न्यस्य स्वयं कटकेन सह कोशलां प्रति चचाल । तत्र गत्वा बहिःस्थितः । वृद्ध ! दर्शय । देव ! अत्र जनपार्धात्खानय । तथा कृते, स्वर्णकलशः प्रकटो जज्ञे; तदनु हैमी मण्डपिका च । पुनः खनिते एकक्षण-द्विक्षणतृतीयक्षण-चतुर्थक्षणे प्रकटीकृते महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । वर्णनं कुर्वति, द्विजेनोक्तम्-देव ! चर्मकारपल्या उपानदेषा न 10 स्प्रष्टुमर्हति । नृपेणोक्तम्-सा चर्मकार्यपि धन्या, यस्या ईगुपानत् । परं कथ्यतां कथम् ? । देव ! श्रीरामे सत्यत्र चर्मकारगृहाण्यासन् । इदमेकस्य गृहम् । तत्पनी लाडबहुला, अतः सगर्वा । विनयं न करोति । सा भर्ना हकिता शिक्षिता च । उक्तञ्च-मट्टहाद् याहि । सा वाणहीमेकां पतितां मुक्त्वा एकां च पादे कृत्वा पितृगृहं गता। पत्युरपमानमूचे । पित्रा दिनद्वयं स्थापिता पश्चादुक्ता-वत्से ! कुलस्त्रियः पतिरेव शरणम् । त्वं तत्र याहि । सा द्वित्रिवारं भणिताऽपि न याति । तदा पित्रा प्रोक्तम्-वत्से ! श्रीरामः सलक्ष्मणः सप्रियश्च त्वामनुनेष्यति । 15 साऽप्यलीकाभिमानिनी पाह-यदि समेष्यति तदैव यास्यामि [G नापरथा]। इयं वार्ता छन्नैर्नुपपुरुषैः श्रुता । तैर्नृपाय न्यवेदि । श्रीरामस्ततः श्रुत्वा तद्नेहद्वारे स्थितः । तेन कथितम्-देव ! पादमवधार्यताम् । मम रङ्कस्य गृहेऽद्य कल्पद्रुमागमनम् । तव पुत्रीमानयितुं वयमागताः स्मः । मात्रा सा त्वरितं पत्युर्गृहे नीता । तस्या औत्सुक्येन व्रजन्त्या इयमत्रैवोपानद्विस्मृता । श्रुत्वा देवस्तु स्वस्थानं गतः । देव ! रामराज्यमीदृशमासीत् । तच्छुत्वा विक्रमादित्यः गर्वं त्यक्त्वा निजपुरीं प्राप ॥ इति विक्रमादित्यविविधप्रबन्धाः ॥ 20 (G.) सङ्ग्रहगतं विक्रमवृत्तम् । ६१३) श्रीविक्रमादित्यसत्रागारे नित्यं कार्पटिका विनश्यन्ति । तदपवाददोषभयेन राजा प्रच्छन्नः स्थितः । तावता * G नास्ति एष श्लोकः। एतदन्तर्गतपाठस्थाने G सङ्ग्रहे कियानधिको विस्तृतश्च पाठः प्राप्यते । यथा ततो देवः श्रीरामः प्रजावत्सलः प्रातः ससीतः सलक्ष्मणः समागत्य तञ्चर्मकारभवनमगात् । तन्मध्यं प्रविष्टः पूजितः कारुभिर्विस्मित विज्ञप्तश्च-देवायमस्मान् कीटकान् प्रति कियान् प्रसादः कृतः । स्वप्नेऽपि नेदं संभाव्यते, यद्देवोऽस्मानुपतिष्ठते । किं कारणमागमनस्य । श्रीरामः प्राह-स्वरपुत्र्याः स्वशुरकुलप्रेषणायायातोऽस्मि । तस्या हि वराक्यास्तथाविधा सन्धाऽऽस्ते । ततो हृष्टस्तजनकः । अपवरकं गत्वा दुहितरमाह स-मुग्धिके ! तव प्रतिज्ञा पूर्णा । रामदेवोऽप्यायातः सदेवीकः । एहि वन्दस्व तं जगत्पतिम् । ततस्तुष्टा रामान्तिकमागता । ववन्दे तम् । आलापिता प्रजातातेन-वत्से ! गच्छ स्वशुरमन्दिरम् । तया भणितम्-आदेशः प्रमाणम् । ततो गता पितृ(पति)गृहम् । रामः स्वस्थानमयासीत् । श्रीविक्रमस्य द्वितीया उपानत् तत्रापि गृहे खन्यधोमाने (अधःखन्यमाने) लप्स्यते । स्वामिन्नायाति तत्र खान्यते। गत्तो राजा तत्र । खानितं तत् । लब्धा द्वितीया उपानत् । दृष्टं हेमगृहम् । एवमन्यान्यपि तेन विप्रेणाखानयिषत । लातं तद्धेम । राज्ञा विप्रः पृष्टःविन! कथमीदृशं सम्यग् जानासि? । विप्रेण गदितम्-पूर्वजपारंपर्योपदेशात् ज्ञातं तुभ्यमुक्तं च । परं गर्व माधाः । स रामः स एव । तस्याज्ञया जलज्वलनौ स्तंभ्येते स । पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूता द्विचत्वारिंशत् , अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विड्वराणि दोषाश्च सर्वे व्यनेशन् । या तु तद्देवी सीता, ये तद्भातरः, ये तद्भुत्या हनूमत्सुग्रीवादयस्तेषां महिमानं वर्षशतेनापि वाक्पतिरपि वक्तुं न शक्तः । इति श्रुत्वा विक्रमेण गर्यो मुक्तः । बिरुदं निषिद्धं 'अभिनवराम' इति । पुनरुज्जयिनीमगात् । यथाशक्ति लोकमुदधरत् । तस्य हि अग्निवेताल-पुरुषसिद्धिभ्यां सुवर्णसिद्ध्या चोपकारैश्वर्य तदा निरुपममासीत् । ततो विक्रमो धन्य एव । ततोऽधिकास्तु परे कोटाकोटयोऽभूवन् । इत्याकर्ण्य विक्रमसेनो विवेक्यभूत् ॥ पु०प्र० स०2 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220