Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 60
________________ विक्रमार्कप्रबन्धाः । कृत्वा धवलगृहे गतः । केनाप्युक्तम् - देव ! पण्डितः कोऽपि देशान्तरीयश्चतुष्पथे सामुद्रिकशास्त्र पुस्तकानि ज्वालयन्नस्ति । नृपेणाकारितः । कथं ज्वालयसि ? | देव ! मया जन्मावधि इदमेवाभ्यस्तम् । तव देहमालोक्य एषु विरक्तिर्जाता । तव देहे तल्लक्षणं नास्ति येन कापि भद्रवेला भवति । त्वं तु राजराजेश्वरोऽसि । राज्ञोक्तम्पुनर्मे सर्वशरीरलक्षणान्यवलोकय । देहदर्शिते तेन विशेषतो मुखमोटनं कृतम् । नृपेण पृष्टम् । देव ! किमिदमुच्यते, किमपि न पश्यामि । पुनः किमपि गुप्तं प्रकटं वा स्मर । तेनोक्तम्- यदि वामकुक्षौ कर्बुरमन्त्रं भवति तदा 5 सर्वमेवास्ति । तन्न ज्ञायते । देवेनोक्तम् ज्ञास्यते । क्षुरिकां कृष्ट्वा यावद्विदारयति कुक्षिं तावत्तेन करे धृत्वोक्तम्देव ! सर्वलक्षणानि सन्ति । कथम् ? | यदि सत्त्वमस्ति तत्सर्वाण्यपि । देव ! भिक्षुरहम् मद्वचसा प्रवृत्तः । उक्तं च “सर्व सच्चे प्रतिष्ठितम् ।" नृपेण प्रसादं दत्त्वा विसृष्टः । इति देहलक्षणप्रबन्धः ॥ मनि-मनुप्रबन्धः (B. B. ) ९९) एकदा विक्रमार्को भट्टमात्रं प्राह - भो ! 'मनि मनु' इति किमुच्यते । देव ! दर्शयामि । पुरोपान्ते पाद- 10 मवधारयत । द्वावपि पुरो बाह्ये गतौ । तदवसरे एकः काष्ठभारवाहको दृष्टः । भट्टेनोक्तम् - देव ! अस्योपरि तव चित्तं कीदृशम् ? । न वर्यम् । स भट्टेन चोदितः - अरे ! कस्ते काष्ठानि लास्यति । अद्य नृपः परासुरासीत् । तेनोक्तम्-बलिस्ते जिह्वाया अद्य विशेषतो मम काष्ठानि महार्घ्याणि विक्रेष्यन्ते । बहवो जनाः काष्ठभक्षणं करिष्यन्ति । अग्रे चलितौ । अग्रे महीरीआ एकाऽभ्येति । भट्टेनोक्तम् - अये मध्ये क्क यासि १ । अद्य नृपः परोक्षो जातः, कस्ते दधि लास्यति ? । तया तत्कालं गोलिका त्यक्ता । रुदितुं प्रवृत्ता । भट्टेनोक्तम्- तव नृपेण किं 15 दत्तम् । न किमपि । स पृथिव्या आधार आसीत् । भट्टेनोक्तं नृपस्य । अनेन नरेण पश्चादागतेन क्षेममुक्तम् । साहृष्टा । नृपेण मुद्रारलं दवा प्रहिता । अतो मनसि मनो भवति । नृपः स्वगृहे गतः । इति मनि-मनुं - सम्बन्धप्रबन्धः ॥ ܕ (१०) एकदा राजपाट्यां राजा व्रजन् द्विजमेकं कणावचयं कुर्वाणं दृष्ट्वा प्राह (४) निअउअरपूरणंमि वि असमत्था किं पि तेहिं जाएहिं । [ द्विज:- ] सुसमत्था वि हु न परोवयारिणो तेहि वि न किंपि ॥ (५) 'तेहि विन किं पि' भणिए विक्रमराएण देवदेवेण । दिन्नं मायंगसयं जच्चसुवन्नस्स दो कोडी | विक्रमपुत्र-विक्रमसेनसम्बन्धप्रबन्धः (B. G.) ६११) अथ विक्रमार्के दिवं गते विक्रमसेनकुमारस्य राज्याभिषेकसमये पुरोधसाऽऽशीर्वचः प्रोक्तम् - यत्त्वं 25 महाराज ! विक्रमार्कस्याधिको भावी । तदा राज्याधिष्ठात्रीभिर्देवीभिरधिष्ठिताभिः सिंहासनस्थाभिश्चतसृभिः पुत्तलिकाभिरीषद्धसितम् । राज्ञा पृष्टाः - किमिति हस्यते । । ताः प्रोचुः - देव ! तेन सह साम्यमपि न घटते, कुतोऽधिकत्वम् ? । Jain Education International 20 1. आद्याह- तव पिताऽपूर्वां वार्तां श्रुत्वा [G वार्ता कथकाय ] दीनारपंचशतीं ददाति । एवं श्रुत्वा खापरका - चौरेण दीनारपंचशती याचिता । [G वार्ता चैका कथिता ] देव ! पातालविवरं गन्धवहश्मशानतीरेऽस्ति । तत्र 30 विवरे देवीहरिसिद्धिक्षिप्तो दीपः पतन्मया दृष्टः । तस्यानुपदिकेन मयापि झम्पा दत्ता । पाताले दिव्यं सौधं दृष्टम् । तत्रोत्कलमाना तैलकटाहिका दृष्टा । तत्पार्श्वे एको नरो दृष्टः । पृष्टच किमर्थमिह ? । तेनोक्तम् - अत्र सौधे 1 प्रत्यन्तरे — जानेऽमुं पापं मारयामि । तर्हि पश्यताम् । 2 प्र० - मनई मन । 3G खर्परक० । For Private Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220